०८

विश्वास-प्रस्तुतिः

ध्रुवगोपं कृत्वा परिव्ययणादि करोति रशनामुदुह्य पूर्वाम् १

मूलम्

आग्नेयोऽग्निष्टोमे सवनीयः पशुरैन्द्रा ग्नश्चोक्थ्ये द्वितीयः २

ऐन्द्रो वृष्णिः षोडशिनि तृतीयः । सरस्वत्यै चतुर्थोऽतिरात्रे मेषी वा ३

एतत्स्तोमायनम् ४

मूलम्

एतत्स्तोमायनम् ४

विश्वास-प्रस्तुतिः

होतृनामग्रहणान्तं कृत्वेतरांश्चाऽश्राव्याऽश्राव्य प्रवृणीते यथालिङ्गम् ५

आश्विनाऽध्वर्यू आध्वर्यवात् ६

मूलम्

आश्विनाऽध्वर्यू आध्वर्यवात् ६

विश्वास-प्रस्तुतिः

मित्रावरुणौ प्रशास्तारौ प्राशास्त्रात् ७

इन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छंसिनम् ८

मरुतः पोत्राद् ग्नावो नेष्ट्राद् अग्निराग्नीध्रात् अग्निर्ह दैवीनामिति यजमानम् ९

यथाप्रवृत्तं प्रवृत्तहोमौ जुह्वति जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग्यत्ते वाचो मधुमत्तमं जुष्टतमं तस्मिन्मा धाः स्वाहा सरस्वत्या इति १०

पावका न इति द्वितीयाम् ११

मूलम्

पावका न इति द्वितीयाम् ११

विश्वास-प्रस्तुतिः

वपामार्जनान्तं कृत्वा सयजमाना धिष्ण्यानुपतिष्ठन्ते विभूरसीति प्रतिमन्त्रम् १२

उत्करान्तं कृत्वा वागसीति सदोऽभिमर्शनम् । ऋतस्य द्वाराविति द्वार्ये १३

अभिमन्त्रणमुत्तरैः १४

मूलम्

अभिमन्त्रणमुत्तरैः १४

विश्वास-प्रस्तुतिः

अध्वनामध्वपत इति सूर्यम् १५

मूलम्

अध्वनामध्वपत इति सूर्यम् १५

विश्वास-प्रस्तुतिः

मित्रस्य त्वेत्यृत्विजः १६

मूलम्

मित्रस्य त्वेत्यृत्विजः १६

विश्वास-प्रस्तुतिः

अग्नयः सगरा इति धिष्ण्यान् १७

मूलम्

अग्नयः सगरा इति धिष्ण्यान् १७

विश्वास-प्रस्तुतिः

एतत्सर्पणम् १८

मूलम्

एतत्सर्पणम् १८