विश्वास-प्रस्तुतिः
कुशमुष्टिं वा १
मूलम्
कुशमुष्टिं वा १
विश्वास-प्रस्तुतिः
प्रत्यङ्मुखाः उपविशतः पुरस्ताद्दक्षिणो यजमानः २
मूलम्
प्रत्यङ्मुखाः उपविशतः पुरस्ताद्दक्षिणो यजमानः २
विश्वास-प्रस्तुतिः
स्तूयमान उन्नेताऽधवनीयं पवित्रमन्तर्धाय पूतभृत्यासिञ्चति ३
मूलम्
स्तूयमान उन्नेताऽधवनीयं पवित्रमन्तर्धाय पूतभृत्यासिञ्चति ३
विश्वास-प्रस्तुतिः
स्तोत्रान्ते प्रेष्यत्यग्नीदग्नीन्विहर बर्हिस्तृणीहि पुरोडाशाँ अलङ्कुरु प्रतिप्रस्थातः पशुनेहीति ४
मूलम्
स्तोत्रान्ते प्रेष्यत्यग्नीदग्नीन्विहर बर्हिस्तृणीहि पुरोडाशाँ अलङ्कुरु प्रतिप्रस्थातः पशुनेहीति ४
विश्वास-प्रस्तुतिः
यथान्युप्तं धिष्ण्येष्वाग्नीध्रादङ्गारान्निवपति ५
मूलम्
यथान्युप्तं धिष्ण्येष्वाग्नीध्रादङ्गारान्निवपति ५
विश्वास-प्रस्तुतिः
अनुपृष्ठ्यां बर्हिस्तृणाति ६
मूलम्
अनुपृष्ठ्यां बर्हिस्तृणाति ६
विश्वास-प्रस्तुतिः
आश्विनं गृह्णात्यन्वारब्धे वा या वामिति ७
मूलम्
आश्विनं गृह्णात्यन्वारब्धे वा या वामिति ७
विश्वास-प्रस्तुतिः
ग्रहानवेक्षयति यथागृहीतमवकाशान्वाचयन्प्राणाय म इति प्रतिमन्त्रम् ८
मूलम्
ग्रहानवेक्षयति यथागृहीतमवकाशान्वाचयन्प्राणाय म इति प्रतिमन्त्रम् ८
विश्वास-प्रस्तुतिः
उपांशुसवनं द्वितीयम् ९
मूलम्
उपांशुसवनं द्वितीयम् ९
विश्वास-प्रस्तुतिः
आश्विनं षष्ठम् । शुक्रामन्थिनौ युगपत् । पूतभृदाधवनीयौ च विश्वाभ्यो म इति १०
मूलम्
आश्विनं षष्ठम् । शुक्रामन्थिनौ युगपत् । पूतभृदाधवनीयौ च विश्वाभ्यो म इति १०
विश्वास-प्रस्तुतिः
कोऽसीति द्रो णकलशम् ११
मूलम्
कोऽसीति द्रो णकलशम् ११
विश्वास-प्रस्तुतिः
भूर्भुवःस्वरिति जपति १२
मूलम्
भूर्भुवःस्वरिति जपति १२
विश्वास-प्रस्तुतिः
ज्ञाताप्रियाऽनूचानानवकाशयेत् १३
मूलम्
ज्ञाताप्रियाऽनूचानानवकाशयेत् १३