०६

विश्वास-प्रस्तुतिः

उदितेऽन्तर्यामग्रहणमुपयामगृहीत इति १

मूलम्

उदितेऽन्तर्यामग्रहणमुपयामगृहीत इति १

विश्वास-प्रस्तुतिः

उपांशुवदनाम्नातवरशेषाऽसेचनवर्जम् २

मूलम्

उपांशुवदनाम्नातवरशेषाऽसेचनवर्जम् २

विश्वास-प्रस्तुतिः

अपमार्ष्ट्यत्र ३

मूलम्

अपमार्ष्ट्यत्र ३

विश्वास-प्रस्तुतिः

प्रथमे च न्युब्जेन पाणिना प्रत्यक् ४

मूलम्

प्रथमे च न्युब्जेन पाणिना प्रत्यक् ४

विश्वास-प्रस्तुतिः

उपांसुसवनसंस्पृष्टस्योदानाय त्वेति पात्रसादनम् ५

मूलम्

उपांसुसवनसंस्पृष्टस्योदानाय त्वेति पात्रसादनम् ५

विश्वास-प्रस्तुतिः

एन्द्र वायवं गृह्णात्या वायविति ६

मूलम्

एन्द्र वायवं गृह्णात्या वायविति ६

विश्वास-प्रस्तुतिः

अपगृह्य पुनरिन्द्र वायू इति ७

मूलम्

अपगृह्य पुनरिन्द्र वायू इति ७

विश्वास-प्रस्तुतिः

मैत्रावरुणमयं वामिति ८

मूलम्

मैत्रावरुणमयं वामिति ८

विश्वास-प्रस्तुतिः

पयसा श्रीणात्येनं कुशावन्तर्धाय राया वयमिति ९

मूलम्

पयसा श्रीणात्येनं कुशावन्तर्धाय राया वयमिति ९

विश्वास-प्रस्तुतिः

एवं सर्वत्र श्रयणेषु १०

मूलम्

एवं सर्वत्र श्रयणेषु १०

विश्वास-प्रस्तुतिः

शुक्रं बैल्वेन वा तं प्रत्नथेति ११

मूलम्

शुक्रं बैल्वेन वा तं प्रत्नथेति ११

विश्वास-प्रस्तुतिः

अयं वेन इत्येके १२

मूलम्

अयं वेन इत्येके १२

विश्वास-प्रस्तुतिः

मन्थिनमयं वेन इति १३

मूलम्

मन्थिनमयं वेन इति १३

विश्वास-प्रस्तुतिः

सक्तुभिः श्रीणात्येनं मनो न येष्विति १४

मूलम्

सक्तुभिः श्रीणात्येनं मनो न येष्विति १४

विश्वास-प्रस्तुतिः

आग्रयणं द्वयोर्धारयोर्ये देवास इति १५

मूलम्

आग्रयणं द्वयोर्धारयोर्ये देवास इति १५

विश्वास-प्रस्तुतिः

दशापवित्रेणाऽग्रयणमुपगृह्य त्रिर्हिङ्कृत्य सोमः पवत इति सकृच्छेषम् १६

मूलम्

दशापवित्रेणाऽग्रयणमुपगृह्य त्रिर्हिङ्कृत्य सोमः पवत इति सकृच्छेषम् १६

विश्वास-प्रस्तुतिः

प्रथमस्थानेन प्राग्देवताऽदेशात् १७

मूलम्

प्रथमस्थानेन प्राग्देवताऽदेशात् १७

विश्वास-प्रस्तुतिः

प्रातःसवने चोच्चैः कर्माणि १८

मूलम्

प्रातःसवने चोच्चैः कर्माणि १८

विश्वास-प्रस्तुतिः

मध्यमेन माध्यन्दिने १९

मूलम्

मध्यमेन माध्यन्दिने १९

विश्वास-प्रस्तुतिः

उत्तमेन तृतीयसवने २०

मूलम्

उत्तमेन तृतीयसवने २०

विश्वास-प्रस्तुतिः

उक्थ्यमुपयामगृहीत इति २१

मूलम्

उक्थ्यमुपयामगृहीत इति २१

विश्वास-प्रस्तुतिः

ध्रुवं मूर्धानं दिव इति २२

मूलम्

ध्रुवं मूर्धानं दिव इति २२

विश्वास-प्रस्तुतिः

आ होमादस्य सुन्वन्न मूत्रपुरीषे कुर्यात् २३

मूलम्

आ होमादस्य सुन्वन्न मूत्रपुरीषे कुर्यात् २३

विश्वास-प्रस्तुतिः

वैश्वानरं च जानन् २४

मूलम्

वैश्वानरं च जानन् २४

विश्वास-प्रस्तुतिः

पूर्णान् स्थालीग्रहानर्धपूर्णं द्रो णकलशं कृत्वा सर्वमासिञ्चति सुन्वन् २५

मूलम्

पूर्णान् स्थालीग्रहानर्धपूर्णं द्रो णकलशं कृत्वा सर्वमासिञ्चति सुन्वन् २५

विश्वास-प्रस्तुतिः

अध्वर्युप्रतिप्रस्थातृप्रस्तोत्रुद्गातृप्रतिहर्तृसुन्वन्तः समन्वारब्धा निष्क्रामन्ति २६

मूलम्

अध्वर्युप्रतिप्रस्थातृप्रस्तोत्रुद्गातृप्रतिहर्तृसुन्वन्तः समन्वारब्धा निष्क्रामन्ति २६

विश्वास-प्रस्तुतिः

अध्वर्युः प्रथमो यथासङ्ख्यमितरे २७

मूलम्

अध्वर्युः प्रथमो यथासङ्ख्यमितरे २७

विश्वास-प्रस्तुतिः

हुत्वा वा समन्वारभेरन् २८

मूलम्

हुत्वा वा समन्वारभेरन् २८

विश्वास-प्रस्तुतिः

यस्त इति विप्रुषां होमं जुह्वति २९

मूलम्

यस्त इति विप्रुषां होमं जुह्वति २९

विश्वास-प्रस्तुतिः

अध्वर्युर्वा ३०

मूलम्

अध्वर्युर्वा ३०

विश्वास-प्रस्तुतिः

वेदितृणे अध्वर्युरादत्ते । प्रह्वा उदञ्चा गच्छन्ति ३१

मूलम्

वेदितृणे अध्वर्युरादत्ते । प्रह्वा उदञ्चा गच्छन्ति ३१

विश्वास-प्रस्तुतिः

अन्यतरत्तृणं चात्वाले प्रास्यति देवानामिति ३२

मूलम्

अन्यतरत्तृणं चात्वाले प्रास्यति देवानामिति ३२

विश्वास-प्रस्तुतिः

उद्गातॄणां पुरस्तादितरत्तूष्णीम् ३३

मूलम्

उद्गातॄणां पुरस्तादितरत्तूष्णीम् ३३

विश्वास-प्रस्तुतिः

जपत्सु सोमः पवत इति पवमानोपाकरणं प्रस्तोत्रे तृणे प्रयच्छन् ३४

मूलम्

जपत्सु सोमः पवत इति पवमानोपाकरणं प्रस्तोत्रे तृणे प्रयच्छन् ३४

विश्वास-प्रस्तुतिः

सर्वेषु ३५

मूलम्

सर्वेषु ३५

विश्वास-प्रस्तुतिः

अतृणो वा ३६

मूलम्

अतृणो वा ३६