विश्वास-प्रस्तुतिः
उपविष्टयोरभिषुण्वन्ति चत्वारः पर्युपवेशनसामर्थ्यात् १
मूलम्
उपविष्टयोरभिषुण्वन्ति चत्वारः पर्युपवेशनसामर्थ्यात् १
विश्वास-प्रस्तुतिः
आप्यायनान्तोऽभिषवस्त्रिपर्यायः २
मूलम्
आप्यायनान्तोऽभिषवस्त्रिपर्यायः २
विश्वास-प्रस्तुतिः
मन्या ३
मूलम्
मन्या ३
विश्वास-प्रस्तुतिः
पर्यायादिषु निग्राभ्यासेचनम् ४
मूलम्
पर्यायादिषु निग्राभ्यासेचनम् ४
विश्वास-प्रस्तुतिः
प्रथमे वा प्रभूत्वात् ५
मूलम्
प्रथमे वा प्रभूत्वात् ५
विश्वास-प्रस्तुतिः
निग्राभान्ते सरसानंशून्त्सम्भरण्याऽधवनीयेऽवधायाऽवधूयाऽहरति ६
मूलम्
निग्राभान्ते सरसानंशून्त्सम्भरण्याऽधवनीयेऽवधायाऽवधूयाऽहरति ६
विश्वास-प्रस्तुतिः
एवं द्विरपरम् ७
मूलम्
एवं द्विरपरम् ७
विश्वास-प्रस्तुतिः
पूर्ववन्निग्राभ्याः ८
मूलम्
पूर्ववन्निग्राभ्याः ८
विश्वास-प्रस्तुतिः
पूर्वे वोपांशुं गृहीत्वा गृहीत्वाऽप्यायनसम्भरणे कृतत्वात् ९
मूलम्
पूर्वे वोपांशुं गृहीत्वा गृहीत्वाऽप्यायनसम्भरणे कृतत्वात् ९
विश्वास-प्रस्तुतिः
धर्ममात्रं पर्युपवेशनम् १०
मूलम्
धर्ममात्रं पर्युपवेशनम् १०
विश्वास-प्रस्तुतिः
अभिषवविपर्यासो वाऽभिमृष्टादंशूनपकृष्य निग्राभ्याश्चाऽनुपूर्व्ययोगादनात्तस्य चाऽभिमानसामर्थ्यात् ११
मूलम्
अभिषवविपर्यासो वाऽभिमृष्टादंशूनपकृष्य निग्राभ्याश्चाऽनुपूर्व्ययोगादनात्तस्य चाऽभिमानसामर्थ्यात् ११
विश्वास-प्रस्तुतिः
ऋजीषभावाच्च १२
मूलम्
ऋजीषभावाच्च १२
विश्वास-प्रस्तुतिः
प्रोह्य द्रो णकलशमृजीषमुखेष्वद्रि षु निदधात्युग्दातारः १३
मूलम्
प्रोह्य द्रो णकलशमृजीषमुखेष्वद्रि षु निदधात्युग्दातारः १३
विश्वास-प्रस्तुतिः
पवित्रं च वितन्वन्युदक् १४
मूलम्
पवित्रं च वितन्वन्युदक् १४
विश्वास-प्रस्तुतिः
स्वयं वाऽकुर्वत्सु १५
मूलम्
स्वयं वाऽकुर्वत्सु १५
विश्वास-प्रस्तुतिः
आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति । ताः पवित्रे यजमानः १६
मूलम्
आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति । ताः पवित्रे यजमानः १६
विश्वास-प्रस्तुतिः
ततो ग्रहग्रहणमाध्रुवान्माध्यन्दिने च पञ्च प्रथमान् १७
मूलम्
ततो ग्रहग्रहणमाध्रुवान्माध्यन्दिने च पञ्च प्रथमान् १७
विश्वास-प्रस्तुतिः
शुक्रो द्रो णकलशे १८
मूलम्
शुक्रो द्रो णकलशे १८
विश्वास-प्रस्तुतिः
ततोऽन्येऽनादेशे १९
मूलम्
ततोऽन्येऽनादेशे १९
विश्वास-प्रस्तुतिः
सावित्रपात्नीवतहारियोजनोपक्षीणानाग्रयणात् २०
मूलम्
सावित्रपात्नीवतहारियोजनोपक्षीणानाग्रयणात् २०
विश्वास-प्रस्तुतिः
पूतभृतश्चमसान् २१
मूलम्
पूतभृतश्चमसान् २१
विश्वास-प्रस्तुतिः
तृतीयसवने वैश्वदेवम् २२
मूलम्
तृतीयसवने वैश्वदेवम् २२
विश्वास-प्रस्तुतिः
अनादिष्टाञ्च्चेहोन्नयनश्रुतेः २३
मूलम्
अनादिष्टाञ्च्चेहोन्नयनश्रुतेः २३
विश्वास-प्रस्तुतिः
दशापवित्रेण परिमृज्य परिमृज्यैव ते योनिरिति ग्रहसादनम् २४
मूलम्
दशापवित्रेण परिमृज्य परिमृज्यैव ते योनिरिति ग्रहसादनम् २४
विश्वास-प्रस्तुतिः
नाऽयोनिकेषु २५
मूलम्
नाऽयोनिकेषु २५
विश्वास-प्रस्तुतिः
सर्वेष्विति वात्स्योऽविशेषोपदेशात् २६
मूलम्
सर्वेष्विति वात्स्योऽविशेषोपदेशात् २६
विश्वास-प्रस्तुतिः
सावित्रर्तुग्रहप्रतिषेधाच्च २७
मूलम्
सावित्रर्तुग्रहप्रतिषेधाच्च २७
विश्वास-प्रस्तुतिः
प्रतिवषट्कारं हुत्वा वषट्कर्तुर्भक्षहरणम् २८
मूलम्
प्रतिवषट्कारं हुत्वा वषट्कर्तुर्भक्षहरणम् २८
विश्वास-प्रस्तुतिः
यथास्वं चमसान् २९
मूलम्
यथास्वं चमसान् २९
विश्वास-प्रस्तुतिः
वषट्कर्तुर्वा पूवं श्रुतिसामर्थ्यात् ३०
मूलम्
वषट्कर्तुर्वा पूवं श्रुतिसामर्थ्यात् ३०
विश्वास-प्रस्तुतिः
उन्नेतोन्नयति समाख्यानात् ३१
मूलम्
उन्नेतोन्नयति समाख्यानात् ३१