विश्वास-प्रस्तुतिः
अधिषवणे पर्युपविशन्ति १
मूलम्
अधिषवणे पर्युपविशन्ति १
विश्वास-प्रस्तुतिः
उत्तरतोऽध्वर्युयजमानौ २
मूलम्
उत्तरतोऽध्वर्युयजमानौ २
विश्वास-प्रस्तुतिः
पूर्वोऽध्वर्युः । अपरेण परीत्येतरे त्रयः ३
मूलम्
पूर्वोऽध्वर्युः । अपरेण परीत्येतरे त्रयः ३
विश्वास-प्रस्तुतिः
देवस्य त्वेत्यद्रि मादाय वाचं यच्छति प्राग्घिङ्कारात् ४
मूलम्
देवस्य त्वेत्यद्रि मादाय वाचं यच्छति प्राग्घिङ्कारात् ४
विश्वास-प्रस्तुतिः
स उपांशुसवनः ५
मूलम्
स उपांशुसवनः ५
विश्वास-प्रस्तुतिः
निग्राभ्यासु वाचयत्युरस्येना निगृह्य निग्राभ्या स्थेति ६
मूलम्
निग्राभ्यासु वाचयत्युरस्येना निगृह्य निग्राभ्या स्थेति ६
विश्वास-प्रस्तुतिः
उपांशुसवने सोमं मिमीत इन्द्रा य त्वा वसुमते रुद्र वत पञ्चकृत्वः प्रतिमन्त्रम् ७
मूलम्
उपांशुसवने सोमं मिमीत इन्द्रा य त्वा वसुमते रुद्र वत पञ्चकृत्वः प्रतिमन्त्रम् ७
विश्वास-प्रस्तुतिः
यत्त इति मितालम्भनम् ८
मूलम्
यत्त इति मितालम्भनम् ८
विश्वास-प्रस्तुतिः
प्रतिप्रस्थातांऽशून्षडादत्तेऽङ्गुल्यन्तरेषु द्वौ द्वौ कुरुते ९
मूलम्
प्रतिप्रस्थातांऽशून्षडादत्तेऽङ्गुल्यन्तरेषु द्वौ द्वौ कुरुते ९
विश्वास-प्रस्तुतिः
श्वात्रा स्थेत्यासिञ्चति निग्राभ्याः १०
मूलम्
श्वात्रा स्थेत्यासिञ्चति निग्राभ्याः १०
विश्वास-प्रस्तुतिः
प्रहरिष्यन्द्वेष्यं मनसा ध्यायेदमुष्मा अहं प्रहरामि न तुभ्यं सोमेति ११
मूलम्
प्रहरिष्यन्द्वेष्यं मनसा ध्यायेदमुष्मा अहं प्रहरामि न तुभ्यं सोमेति ११
विश्वास-प्रस्तुतिः
अभावे तृणम् १२
मूलम्
अभावे तृणम् १२
विश्वास-प्रस्तुतिः
मा भेरिति प्रहरति १३
मूलम्
मा भेरिति प्रहरति १३
विश्वास-प्रस्तुतिः
एवं त्रिरभिषुणोत्यासेचं निग्राभ्याः १४
मूलम्
एवं त्रिरभिषुणोत्यासेचं निग्राभ्याः १४
विश्वास-प्रस्तुतिः
अष्टकृत्व एकादशकृत्वो द्वादशकृत्वः १५
मूलम्
अष्टकृत्व एकादशकृत्वो द्वादशकृत्वः १५
विश्वास-प्रस्तुतिः
सर्वे पञ्चवर्गाः पशुकामस्य । अष्टवर्गा ब्रह्मवर्चसकामस्य १६
मूलम्
सर्वे पञ्चवर्गाः पशुकामस्य । अष्टवर्गा ब्रह्मवर्चसकामस्य १६
विश्वास-प्रस्तुतिः
प्रतिवर्गं निग्राभं वाचयति होतृचमसेऽल्पानंशूनवधाय प्रागपागिति १७
मूलम्
प्रतिवर्गं निग्राभं वाचयति होतृचमसेऽल्पानंशूनवधाय प्रागपागिति १७
विश्वास-प्रस्तुतिः
अद्रि णा चतुर्थम् १८
मूलम्
अद्रि णा चतुर्थम् १८
विश्वास-प्रस्तुतिः
तूष्णीं वा १९
मूलम्
तूष्णीं वा १९
विश्वास-प्रस्तुतिः
उपांशुं च गृह्णाति वाचस्पतये देवो देवेभ्यो मधुमतीरिति २०
मूलम्
उपांशुं च गृह्णाति वाचस्पतये देवो देवेभ्यो मधुमतीरिति २०
विश्वास-प्रस्तुतिः
प्रतिप्रस्थातोपगृह्णाति पात्रम् २१
मूलम्
प्रतिप्रस्थातोपगृह्णाति पात्रम् २१
विश्वास-प्रस्तुतिः
आत्तानां च द्वौ द्वावन्तर्दधाति ग्रहणभेदात् २२
मूलम्
आत्तानां च द्वौ द्वावन्तर्दधाति ग्रहणभेदात् २२
विश्वास-प्रस्तुतिः
मन्त्रलिङ्गाच्च २३
मूलम्
मन्त्रलिङ्गाच्च २३
विश्वास-प्रस्तुतिः
षड् वा श्रुतिसामर्थ्यात् २४
मूलम्
षड् वा श्रुतिसामर्थ्यात् २४
विश्वास-प्रस्तुतिः
यत्त इत्यात्तान्त्सोमे निदधाति २५
मूलम्
यत्त इत्यात्तान्त्सोमे निदधाति २५
विश्वास-प्रस्तुतिः
परिमृज्याऽसादनमुपांश्वन्तर्यामयोः २६
मूलम्
परिमृज्याऽसादनमुपांश्वन्तर्यामयोः २६
विश्वास-प्रस्तुतिः
अभिचरन्त्सादयेदविसृजन्नमुष्य त्वा प्राणं सादयामीति । उदानमित्यन्तर्यामम् २७
मूलम्
अभिचरन्त्सादयेदविसृजन्नमुष्य त्वा प्राणं सादयामीति । उदानमित्यन्तर्यामम् २७
विश्वास-प्रस्तुतिः
पाणिना चाऽपिदधात्यमुष्य त्वा प्राणमपिदधामीति । उदानमन्तर्यामम् २८
मूलम्
पाणिना चाऽपिदधात्यमुष्य त्वा प्राणमपिदधामीति । उदानमन्तर्यामम् २८
विश्वास-प्रस्तुतिः
स्वाहेत्युक्त्वोर्वन्तरिक्षमिति निष्क्रमणम् २९
मूलम्
स्वाहेत्युक्त्वोर्वन्तरिक्षमिति निष्क्रमणम् २९
विश्वास-प्रस्तुतिः
अन्वारभतेऽन्यस्मै प्रदाय होतृचमसम् ३०
मूलम्
अन्वारभतेऽन्यस्मै प्रदाय होतृचमसम् ३०
विश्वास-प्रस्तुतिः
वरं वृत्वा ददाति च ३१
मूलम्
वरं वृत्वा ददाति च ३१
विश्वास-प्रस्तुतिः
स्वाङ्कृत इति हुत्वा पात्रमुन्मार्ष्टि ३२
मूलम्
स्वाङ्कृत इति हुत्वा पात्रमुन्मार्ष्टि ३२
विश्वास-प्रस्तुतिः
प्रथमे परिधा उत्तानं पाणिं प्रागुपमार्ष्टि देवेभ्यस्त्वेति ३३
मूलम्
प्रथमे परिधा उत्तानं पाणिं प्रागुपमार्ष्टि देवेभ्यस्त्वेति ३३
विश्वास-प्रस्तुतिः
वासउरोबाहुषु श्लिष्टमंशुमभिचरञ्जुहुयाद्देवांशविति ३४
मूलम्
वासउरोबाहुषु श्लिष्टमंशुमभिचरञ्जुहुयाद्देवांशविति ३४
विश्वास-प्रस्तुतिः
आग्रयणस्थाल्यां शेषैकदेशमासिच्यांऽशुं प्रास्यति तृतीयसवनाय ३५
मूलम्
आग्रयणस्थाल्यां शेषैकदेशमासिच्यांऽशुं प्रास्यति तृतीयसवनाय ३५
विश्वास-प्रस्तुतिः
प्राणाय त्वेति पात्रसादनम् ३६
मूलम्
प्राणाय त्वेति पात्रसादनम् ३६
विश्वास-प्रस्तुतिः
उपांशुसवनं पाणिना प्रमृज्योदञ्चं व्यानाय त्वेति संस्पृष्टम् ३७
मूलम्
उपांशुसवनं पाणिना प्रमृज्योदञ्चं व्यानाय त्वेति संस्पृष्टम् ३७