०३

विश्वास-प्रस्तुतिः

चतुर्गृहीतं प्रचरण्या जुहोति शृणोत्वग्निरिति १

मूलम्

चतुर्गृहीतं प्रचरण्या जुहोति शृणोत्वग्निरिति १

विश्वास-प्रस्तुतिः

अपरं गृहीत्वोदङ् गच्छन्नाहाऽप इष्य होतरिति २

मूलम्

अपरं गृहीत्वोदङ् गच्छन्नाहाऽप इष्य होतरिति २

विश्वास-प्रस्तुतिः

प्रेष्यति च मैत्रावरुणस्य चमसाध्वर्यवेहि नेष्टः पत्नीरुदानयैकधनिन एताऽग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन चेति ३

मूलम्

प्रेष्यति च मैत्रावरुणस्य चमसाध्वर्यवेहि नेष्टः पत्नीरुदानयैकधनिन एताऽग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन चेति ३

विश्वास-प्रस्तुतिः

अपो गत्वा देवीराप इत्यप्सु जुहोति ४

मूलम्

अपो गत्वा देवीराप इत्यप्सु जुहोति ४

विश्वास-प्रस्तुतिः

कार्षिरसीति मैत्रावरुणचमसेनाऽज्यमपोहति ५

मूलम्

कार्षिरसीति मैत्रावरुणचमसेनाऽज्यमपोहति ५

विश्वास-प्रस्तुतिः

समुद्र स्य त्वेति तेन गृह्णाति ६

मूलम्

समुद्र स्य त्वेति तेन गृह्णाति ६

विश्वास-प्रस्तुतिः

एकधनांश्चोन्नयन्ति ७

मूलम्

एकधनांश्चोन्नयन्ति ७

विश्वास-प्रस्तुतिः

पान्नेजनांश्च पत्न्यो द्वौ द्वौ ८

मूलम्

पान्नेजनांश्च पत्न्यो द्वौ द्वौ ८

विश्वास-प्रस्तुतिः

प्रत्येत्य चात्वालस्योपरि मैत्रावरुणचमसं वसतीवरीश्च संस्पर्शयति समाप इति ९

मूलम्

प्रत्येत्य चात्वालस्योपरि मैत्रावरुणचमसं वसतीवरीश्च संस्पर्शयति समाप इति ९

विश्वास-प्रस्तुतिः

इतरेतरस्मिन्व्यानयन्त्येके मैत्रावरुणचमसे प्रथमम् १०

मूलम्

इतरेतरस्मिन्व्यानयन्त्येके मैत्रावरुणचमसे प्रथमम् १०

विश्वास-प्रस्तुतिः

होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छति निग्राभ्याः ११

मूलम्

होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छति निग्राभ्याः ११

विश्वास-प्रस्तुतिः

होत्रा पृष्टः प्रत्याहोतेव नन्नमुरिति १२

मूलम्

होत्रा पृष्टः प्रत्याहोतेव नन्नमुरिति १२

विश्वास-प्रस्तुतिः

प्रचरणीसंस्रवमग्निष्टोमे जुहोत्यभावे चतुर्गृहीतं यमग्न इति १३

मूलम्

प्रचरणीसंस्रवमग्निष्टोमे जुहोत्यभावे चतुर्गृहीतं यमग्न इति १३

विश्वास-प्रस्तुतिः

उक्थ्ये प्रथमं परिधिमालभते १४

मूलम्

उक्थ्ये प्रथमं परिधिमालभते १४

विश्वास-प्रस्तुतिः

प्रविशत्येवाऽन्यत्र १५

मूलम्

प्रविशत्येवाऽन्यत्र १५

विश्वास-प्रस्तुतिः

रराट्याऽलम्भनं वा षोडशिनि १६

मूलम्

रराट्याऽलम्भनं वा षोडशिनि १६

विश्वास-प्रस्तुतिः

छदिरतिरात्रे १७

मूलम्

छदिरतिरात्रे १७

विश्वास-प्रस्तुतिः

अतीत्य दक्षिणेन होतारं मैत्रावरुणचमसमाधवनीयेऽवनयति वसतीवरीतृतीयं च अग्निः प्रातःसवने पात्वस्मान्वैश्वानरो महिना विश्वशम्भः । स नः पावको द्र विणं दधात्वायुष्मन्तः सहभक्षाः स्यामेति १८

तावच्चैकधनानाम् १९

मूलम्

तावच्चैकधनानाम् १९

विश्वास-प्रस्तुतिः

एकधनस्थान उभयशेषन्निधाय २०

मूलम्

एकधनस्थान उभयशेषन्निधाय २०