(अग्निष्टोमः)
विश्वास-प्रस्तुतिः
अपररात्र ऋत्विजः प्रबोधयन्ति १
मूलम्
अपररात्र ऋत्विजः प्रबोधयन्ति १
विश्वास-प्रस्तुतिः
अप उपस्पृश्य शालाद्वार्ये परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणस्रुक्सम्मार्जनोद्वासनाऽवेक्षणानि कृत्वाऽग्नीध्र उत्पूय पश्वाज्यग्रहणम् २
मूलम्
अप उपस्पृश्य शालाद्वार्ये परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणस्रुक्सम्मार्जनोद्वासनाऽवेक्षणानि कृत्वाऽग्नीध्र उत्पूय पश्वाज्यग्रहणम् २
विश्वास-प्रस्तुतिः
आज्यान्यादाय सोमं चाऽर्थवच्चाऽहवनीय इध्मप्रओक्षणादि करोति ३
मूलम्
आज्यान्यादाय सोमं चाऽर्थवच्चाऽहवनीय इध्मप्रओक्षणादि करोति ३
विश्वास-प्रस्तुतिः
अग्नीषोमीयवत्स्तरणम् ४
मूलम्
अग्नीषोमीयवत्स्तरणम् ४
विश्वास-प्रस्तुतिः
आऽज्याऽसादनात् कृत्वेषान्तरेणाऽर्द्धसोममद्रिषु सम्मुखेषु निदधाति हृदे त्वेति ५
मूलम्
आऽज्याऽसादनात् कृत्वेषान्तरेणाऽर्द्धसोममद्रिषु सम्मुखेषु निदधाति हृदे त्वेति ५
विश्वास-प्रस्तुतिः
विश्वास्त्वामिति विसृज्योपतिष्ठते ६
मूलम्
विश्वास्त्वामिति विसृज्योपतिष्ठते ६
विश्वास-प्रस्तुतिः
एतेनाऽहरणं सोमार्थस्याऽभिषवे ७
मूलम्
एतेनाऽहरणं सोमार्थस्याऽभिषवे ७
विश्वास-प्रस्तुतिः
नोद्धहरणं ततो बहिर्द्धाभावात् ८
मूलम्
नोद्धहरणं ततो बहिर्द्धाभावात् ८
विश्वास-प्रस्तुतिः
अभिषुतस्य चाऽनवहरणं कृतत्वात् ९
मूलम्
अभिषुतस्य चाऽनवहरणं कृतत्वात् ९
विश्वास-प्रस्तुतिः
प्राग्वाचं प्रवदितोः प्रातरनुवाकोपाकरणं देवेभ्यः प्रातर्यावभ्योऽनुब्रूहीति समिधमादधत् १०
मूलम्
प्राग्वाचं प्रवदितोः प्रातरनुवाकोपाकरणं देवेभ्यः प्रातर्यावभ्योऽनुब्रूहीति समिधमादधत् १०
विश्वास-प्रस्तुतिः
देवेभ्य इत्येके ११
मूलम्
देवेभ्य इत्येके ११
विश्वास-प्रस्तुतिः
सुब्रह्मण्यां च प्रेष्यति १२
मूलम्
सुब्रह्मण्यां च प्रेष्यति १२
विश्वास-प्रस्तुतिः
प्रातरनुवाकं जाग्रदुपासीताऽध्वर्युः १३
मूलम्
प्रातरनुवाकं जाग्रदुपासीताऽध्वर्युः १३
विश्वास-प्रस्तुतिः
स्वप्याद्वा १४
मूलम्
स्वप्याद्वा १४
विश्वास-प्रस्तुतिः
अग्नीदैन्द्र मेकादशकपालं निर्वपति हरिभ्यां धानाः पूष्णे करम्भं सरस्वत्यै दधि मित्रावरुणाभ्यां पयस्याम् १५
मूलम्
अग्नीदैन्द्र मेकादशकपालं निर्वपति हरिभ्यां धानाः पूष्णे करम्भं सरस्वत्यै दधि मित्रावरुणाभ्यां पयस्याम् १५
विश्वास-प्रस्तुतिः
इन्द्रा य वा हरिपूषसरस्वतिमित्रावरुणवते धानादीनि यथासङ्ख्यम् १६
मूलम्
इन्द्रा य वा हरिपूषसरस्वतिमित्रावरुणवते धानादीनि यथासङ्ख्यम् १६