विश्वास-प्रस्तुतिः
त्वाष्ट्रो बस्तः पर्यग्निकृतमुत्सृजन्ति १
मूलम्
त्वाष्ट्रो बस्तः पर्यग्निकृतमुत्सृजन्ति १
विश्वास-प्रस्तुतिः
आज्येन संस्थापयन्तीति श्रुतेः २
मूलम्
आज्येन संस्थापयन्तीति श्रुतेः २
विश्वास-प्रस्तुतिः
पशुपर्यग्निकरणाच्च ३
मूलम्
पशुपर्यग्निकरणाच्च ३
विश्वास-प्रस्तुतिः
तदन्तं वा कर्मनामधेयात् ४
मूलम्
तदन्तं वा कर्मनामधेयात् ४
विश्वास-प्रस्तुतिः
त्वष्टृवनस्पत्योश्च प्रयाजेष्विज्यादर्शनात् ५
मूलम्
त्वष्टृवनस्पत्योश्च प्रयाजेष्विज्यादर्शनात् ५
विश्वास-प्रस्तुतिः
अग्नीषोमीयस्य वपमार्जनान्ते वसतीवरीग्रहणं स्यन्दमानानामनस्तमिते ६
मूलम्
अग्नीषोमीयस्य वपमार्जनान्ते वसतीवरीग्रहणं स्यन्दमानानामनस्तमिते ६
विश्वास-प्रस्तुतिः
अस्तमितश्चेन्निनाह्यात्पुरेजानश्चेत् ७
मूलम्
अस्तमितश्चेन्निनाह्यात्पुरेजानश्चेत् ७
विश्वास-प्रस्तुतिः
अनीजानोऽन्यस्यापि समीपाऽवसितस्य पुरेजानस्य ८
मूलम्
अनीजानोऽन्यस्यापि समीपाऽवसितस्य पुरेजानस्य ८
विश्वास-प्रस्तुतिः
उभयाऽभाव उल्कुषीं हिरण्यं वोपर्युपरि धारयन्हविष्मतीरिति ९
मूलम्
उभयाऽभाव उल्कुषीं हिरण्यं वोपर्युपरि धारयन्हविष्मतीरिति ९
विश्वास-प्रस्तुतिः
अग्नेर्व इति निदधाति शालाद्वार्यमपरेण १०
मूलम्
अग्नेर्व इति निदधाति शालाद्वार्यमपरेण १०
विश्वास-प्रस्तुतिः
सुब्रह्मण्यां च प्रेष्यति पैतापुत्रीयाम् ११
मूलम्
सुब्रह्मण्यां च प्रेष्यति पैतापुत्रीयाम् ११
विश्वास-प्रस्तुतिः
आदित्याऽभ्ययेऽहुतयामापि १२
मूलम्
आदित्याऽभ्ययेऽहुतयामापि १२
विश्वास-प्रस्तुतिः
दक्षिणाग्निहोमान्तमग्नीषोमीयमस्तमिते संस्थाप्य व्युत्क्रामतेत्याह त्रिः १३
मूलम्
दक्षिणाग्निहोमान्तमग्नीषोमीयमस्तमिते संस्थाप्य व्युत्क्रामतेत्याह त्रिः १३
विश्वास-प्रस्तुतिः
शालाद्वार्यमपरेणाऽस्ते पत्न्युत्तरवेदिमपरेण यजमान उपस्थे सोमं कृत्वा १४
मूलम्
शालाद्वार्यमपरेणाऽस्ते पत्न्युत्तरवेदिमपरेण यजमान उपस्थे सोमं कृत्वा १४
विश्वास-प्रस्तुतिः
शालाद्वार्यमपरेण वसतीवरीः परिहरति १५
मूलम्
शालाद्वार्यमपरेण वसतीवरीः परिहरति १५
विश्वास-प्रस्तुतिः
दक्षिणेन निर्हृत्य दक्षिणस्यामुत्तरवेदिश्रोणौ निदधातीन्द्रा ग्न्योरिति १६
मूलम्
दक्षिणेन निर्हृत्य दक्षिणस्यामुत्तरवेदिश्रोणौ निदधातीन्द्रा ग्न्योरिति १६
विश्वास-प्रस्तुतिः
आहृत्य स्थाने निदधाति १७
मूलम्
आहृत्य स्थाने निदधाति १७
विश्वास-प्रस्तुतिः
कलशं पत्न्यालभते १८
मूलम्
कलशं पत्न्यालभते १८
विश्वास-प्रस्तुतिः
उत्तरेण परिक्रम्योत्तरस्यां पूर्ववत् १९
मूलम्
उत्तरेण परिक्रम्योत्तरस्यां पूर्ववत् १९
विश्वास-प्रस्तुतिः
मित्रावरुणयोरिति वा २०
मूलम्
मित्रावरुणयोरिति वा २०
विश्वास-प्रस्तुतिः
विश्वेषां देवानामित्याग्नीध्रे २१
मूलम्
विश्वेषां देवानामित्याग्नीध्रे २१
विश्वास-प्रस्तुतिः
सोमं चाऽसन्द्याम् २२
मूलम्
सोमं चाऽसन्द्याम् २२
विश्वास-प्रस्तुतिः
दीक्षितश्च तत्र तां रात्रिं रक्षति २३
मूलम्
दीक्षितश्च तत्र तां रात्रिं रक्षति २३
विश्वास-प्रस्तुतिः
सुब्रह्मण्यां च प्रेष्यति २४
मूलम्
सुब्रह्मण्यां च प्रेष्यति २४
विश्वास-प्रस्तुतिः
परिवाप्यायै दोहनम् २५
मूलम्
परिवाप्यायै दोहनम् २५
विश्वास-प्रस्तुतिः
आवसथोन्मर्दनाऽलङ्करणदन्तप्रक्षालनान्यध्वर्योरदीक्षितस्याध्वर्योरदीक्षितस्य २६
मूलम्
आवसथोन्मर्दनाऽलङ्करणदन्तप्रक्षालनान्यध्वर्योरदीक्षितस्याध्वर्योरदीक्षितस्य २६