विश्वास-प्रस्तुतिः

अभ्र्यादि करोति १

मूलम्

अभ्र्यादि करोति १

विश्वास-प्रस्तुतिः

दक्षिणेन हविर्द्धानं पश्विडां हरति २

मूलम्

दक्षिणेन हविर्द्धानं पश्विडां हरति २

विश्वास-प्रस्तुतिः

गुदतृतीयं च ३

मूलम्

गुदतृतीयं च ३

विश्वास-प्रस्तुतिः

मार्जालीयं दक्षिणेन जाघनीम् ४

मूलम्

मार्जालीयं दक्षिणेन जाघनीम् ४

विश्वास-प्रस्तुतिः

प्रत्याहृत्य वा सोमाऽहवनीययोरव्यवायात् ५

मूलम्

प्रत्याहृत्य वा सोमाऽहवनीययोरव्यवायात् ५

विश्वास-प्रस्तुतिः

यूपैकादशिनी चेद्र थाक्षमात्राण्यन्तराणि ६

मूलम्

यूपैकादशिनी चेद्र थाक्षमात्राण्यन्तराणि ६

विश्वास-प्रस्तुतिः

पूर्वार्द्ध वा समं विभज्य ७

मूलम्

पूर्वार्द्ध वा समं विभज्य ७

विश्वास-प्रस्तुतिः

पक्षसम्मिता वाऽग्नौ ८

मूलम्

पक्षसम्मिता वाऽग्नौ ८

विश्वास-प्रस्तुतिः

यूपाहुत्यभ्र्यादानयवाऽवपनानि सकृत् ९

मूलम्

यूपाहुत्यभ्र्यादानयवाऽवपनानि सकृत् ९

विश्वास-प्रस्तुतिः

भेदेनाऽन्यत्सान्निपातित्वात् १०

मूलम्

भेदेनाऽन्यत्सान्निपातित्वात् १०

विश्वास-प्रस्तुतिः

मध्यमं परिलिख्योत्तरं दक्षिणं वा व्यत्यासमितरान् ११

मूलम्

मध्यमं परिलिख्योत्तरं दक्षिणं वा व्यत्यासमितरान् ११

विश्वास-प्रस्तुतिः

आऽवटहोमात्करोति १२

मूलम्

आऽवटहोमात्करोति १२

विश्वास-प्रस्तुतिः

अञ्जनाद्याचषालेक्षणात्कृत्वैकैकस्य १३

मूलम्

अञ्जनाद्याचषालेक्षणात्कृत्वैकैकस्य १३

विश्वास-प्रस्तुतिः

श्वो वा दक्षिणोत्तराणामवगूहनान्तमालम्भनाऽसम्भवात् १४

मूलम्

श्वो वा दक्षिणोत्तराणामवगूहनान्तमालम्भनाऽसम्भवात् १४

विश्वास-प्रस्तुतिः

परिवीय मध्यममवगूहनान्तम् १५

मूलम्

परिवीय मध्यममवगूहनान्तम् १५

विश्वास-प्रस्तुतिः

अग्निष्ठे चैषां रशनाः परिवेष्ट्य वासयति १६

मूलम्

अग्निष्ठे चैषां रशनाः परिवेष्ट्य वासयति १६

विश्वास-प्रस्तुतिः

अभ्यञ्जनप्रभृति करोति १७

मूलम्

अभ्यञ्जनप्रभृति करोति १७

विश्वास-प्रस्तुतिः

यथाखातमुच्छ्रयति १८

मूलम्

यथाखातमुच्छ्रयति १८

विश्वास-प्रस्तुतिः

वर्षिष्ठो दक्षिणोऽनुपूर्वा इतरे १९

मूलम्

वर्षिष्ठो दक्षिणोऽनुपूर्वा इतरे १९

विश्वास-प्रस्तुतिः

तीव्रसुत्यग्निष्ठः प्राची च २०

मूलम्

तीव्रसुत्यग्निष्ठः प्राची च २०

विश्वास-प्रस्तुतिः

यथायूपं वेदिवर्द्धनम् २१

मूलम्

यथायूपं वेदिवर्द्धनम् २१

विश्वास-प्रस्तुतिः

वर्षिष्ठाद्दक्षिणं वितष्टं द्वादशं निदधात्येष त इति २२

मूलम्

वर्षिष्ठाद्दक्षिणं वितष्टं द्वादशं निदधात्येष त इति २२

विश्वास-प्रस्तुतिः

प्रोक्षणाद्याऽवगूहनात्करोत्यनर्थलुप्तम् २३

मूलम्

प्रोक्षणाद्याऽवगूहनात्करोत्यनर्थलुप्तम् २३

विश्वास-प्रस्तुतिः

अनुच्छ्रित्य वोत्तरम् २४

मूलम्

अनुच्छ्रित्य वोत्तरम् २४

विश्वास-प्रस्तुतिः

यथोच्छ्रितं सवनीयानालभत एकतृणेनोपाकृत्याऽग्नेयसारस्वतसौम्यपौष्णबार्हस्पत्यवैश्व देवैन्द्र मारुतैन्द्रा ग्नसावित्रवारुणान् २५

मूलम्

यथोच्छ्रितं सवनीयानालभत एकतृणेनोपाकृत्याऽग्नेयसारस्वतसौम्यपौष्णबार्हस्पत्यवैश्व देवैन्द्र मारुतैन्द्रा ग्नसावित्रवारुणान् २५

विश्वास-प्रस्तुतिः

एकयूपे पश्वेकादशिन्यामाग्नेयं नियुज्य तस्मिंस्तस्मिन्नितरानुदीचः २६

मूलम्

एकयूपे पश्वेकादशिन्यामाग्नेयं नियुज्य तस्मिंस्तस्मिन्नितरानुदीचः २६

विश्वास-प्रस्तुतिः

आग्नेयः प्रथमो गच्छत्यन्वारब्धोऽनुपूर्व्या इतरे २७

मूलम्

आग्नेयः प्रथमो गच्छत्यन्वारब्धोऽनुपूर्व्या इतरे २७

विश्वास-प्रस्तुतिः

दक्षिणं च निघ्नन्त्येनमुत्तरमितरान् २८

मूलम्

दक्षिणं च निघ्नन्त्येनमुत्तरमितरान् २८

विश्वास-प्रस्तुतिः

समानमुपप्रेष्यपरिपशत्ये सञ्ज्ञपयाऽन्वगन्प्रोक्षण्युल्मुकाऽसिशामित्राऽन्तर्द्धानप्रच्छेदस्तोकसम्प्रैषशामित्राऽनुशासनसंवादवनस्पतिस्विष्टकृदिडादिग्व्याधारणं समासिच्य प्रभूतत्वात् २९

उखाशूलं वपाश्रपण्यौ च ३०

मूलम्

उखाशूलं वपाश्रपण्यौ च ३०

विश्वास-प्रस्तुतिः

न वसासन्देहात् ३१

मूलम्

न वसासन्देहात् ३१

विश्वास-प्रस्तुतिः

सौत्रामणीदर्शनाच्च ३२

मूलम्

सौत्रामणीदर्शनाच्च ३२

विश्वास-प्रस्तुतिः

नाऽविरोधात् ३३

मूलम्

नाऽविरोधात् ३३

विश्वास-प्रस्तुतिः

पाकवैषम्यात्सौत्रामण्याम् ३४

मूलम्

पाकवैषम्यात्सौत्रामण्याम् ३४

विश्वास-प्रस्तुतिः

मनोतावसाहोमौ पृथक्कालभेदात् ३५

मूलम्

मनोतावसाहोमौ पृथक्कालभेदात् ३५

विश्वास-प्रस्तुतिः

यूपैकादशिन्या वशावपामार्जनान्तं कृत्वा शालाद्वार्ये पत्नीयूपोच्छ्रयणं नाभिमात्रस्य ३६

मूलम्

यूपैकादशिन्या वशावपामार्जनान्तं कृत्वा शालाद्वार्ये पत्नीयूपोच्छ्रयणं नाभिमात्रस्य ३६

विश्वास-प्रस्तुतिः

परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणानि कृत्वा स्फ्यादि करोति ३७

मूलम्

परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणानि कृत्वा स्फ्यादि करोति ३७