विश्वास-प्रस्तुतिः
प्रदीप्तमिध्मं त्वं सोमेति प्रचरण्याऽभिजुहोति १
मूलम्
प्रदीप्तमिध्मं त्वं सोमेति प्रचरण्याऽभिजुहोति १
विश्वास-प्रस्तुतिः
जुषाणो अप्तुरिति द्वितीयाम् २
मूलम्
जुषाणो अप्तुरिति द्वितीयाम् २
विश्वास-प्रस्तुतिः
अग्नये प्रह्रियमाणायाऽनुवाचयति ३
मूलम्
अग्नये प्रह्रियमाणायाऽनुवाचयति ३
विश्वास-प्रस्तुतिः
सोमाय प्रणीयमानायेति वा ४
मूलम्
सोमाय प्रणीयमानायेति वा ४
विश्वास-प्रस्तुतिः
आहवनीयं गच्छन्त्यादाय ग्रावद्रो णकलशसोमपात्राणीध्मचतुष्टयं च सन्नद्धं वपाश्रपण्यौ रशने शकलवृषणमरणी च ५
मूलम्
आहवनीयं गच्छन्त्यादाय ग्रावद्रो णकलशसोमपात्राणीध्मचतुष्टयं च सन्नद्धं वपाश्रपण्यौ रशने शकलवृषणमरणी च ५
विश्वास-प्रस्तुतिः
अग्ने नयेति वाचयति ६
मूलम्
अग्ने नयेति वाचयति ६
विश्वास-प्रस्तुतिः
उत्तरेण सदो हृत्वाऽग्नीध्रेऽग्निं निदधाति ७
मूलम्
उत्तरेण सदो हृत्वाऽग्नीध्रेऽग्निं निदधाति ७
विश्वास-प्रस्तुतिः
ग्रावद्रो णकलशसोमपात्राणि च ८
मूलम्
ग्रावद्रो णकलशसोमपात्राणि च ८
विश्वास-प्रस्तुतिः
अयन्न इति जुहोत्यस्मिन् ९
मूलम्
अयन्न इति जुहोत्यस्मिन् ९
विश्वास-प्रस्तुतिः
उत्तरेण परिक्रम्याऽहवनीयस्योत्तरतो निदधात्यन्यदाज्यसोमवर्जम् १०
मूलम्
उत्तरेण परिक्रम्याऽहवनीयस्योत्तरतो निदधात्यन्यदाज्यसोमवर्जम् १०
विश्वास-प्रस्तुतिः
धिष्ण्याऽव्यवायोऽध्वर्योः ११
मूलम्
धिष्ण्याऽव्यवायोऽध्वर्योः ११
विश्वास-प्रस्तुतिः
इध्मप्रोक्षणादि करोति १२
मूलम्
इध्मप्रोक्षणादि करोति १२
विश्वास-प्रस्तुतिः
खरोत्तरार्द्ध एकवृत्स्तरणं पश्चाद्वोत्तरवेदेः १३
मूलम्
खरोत्तरार्द्ध एकवृत्स्तरणं पश्चाद्वोत्तरवेदेः १३
विश्वास-प्रस्तुतिः
आऽहवनीयेक्षणात्कृत्वोरु विष्णविति जुहोति १४
मूलम्
आऽहवनीयेक्षणात्कृत्वोरु विष्णविति जुहोति १४
विश्वास-प्रस्तुतिः
पुरस्ताद्वा समिधावाधायेति श्रुतेः १५
मूलम्
पुरस्ताद्वा समिधावाधायेति श्रुतेः १५
विश्वास-प्रस्तुतिः
आसाद्याऽज्यानि दक्षिणेऽनसि कृष्णाजिनमास्तीर्य तस्मिन्त्सोमं निदधाति देव सवितरिति १६
मूलम्
आसाद्याऽज्यानि दक्षिणेऽनसि कृष्णाजिनमास्तीर्य तस्मिन्त्सोमं निदधाति देव सवितरिति १६
विश्वास-प्रस्तुतिः
एतत्त्वमिति विसृज्योपतिष्ठते १७
मूलम्
एतत्त्वमिति विसृज्योपतिष्ठते १७
विश्वास-प्रस्तुतिः
स्वाहा निरिति निष्क्रम्याऽग्ने व्रतपा इत्याहवनीये समिधमाधाय मदन्तीरुपस्पृश्याऽङ्गुलीर्विसृजते १८
मूलम्
स्वाहा निरिति निष्क्रम्याऽग्ने व्रतपा इत्याहवनीये समिधमाधाय मदन्तीरुपस्पृश्याऽङ्गुलीर्विसृजते १८
विश्वास-प्रस्तुतिः
पत्नी च गार्हपत्ये तूष्णीं मदन्तीरुपस्पृश्य १९
मूलम्
पत्नी च गार्हपत्ये तूष्णीं मदन्तीरुपस्पृश्य १९
विश्वास-प्रस्तुतिः
चात्वाले मदन्तीः कृत्वा २०
मूलम्
चात्वाले मदन्तीः कृत्वा २०
विश्वास-प्रस्तुतिः
नामग्रहणभोजने अस्यातः कुर्वन्ति २१
मूलम्
नामग्रहणभोजने अस्यातः कुर्वन्ति २१
विश्वास-प्रस्तुतिः
व्रत्यनिवृत्तिः २२
मूलम्
व्रत्यनिवृत्तिः २२
विश्वास-प्रस्तुतिः
हविःशेषभक्षः २३
मूलम्
हविःशेषभक्षः २३
विश्वास-प्रस्तुतिः
अग्नीषोमीयोऽतः पशुः २४
मूलम्
अग्नीषोमीयोऽतः पशुः २४
विश्वास-प्रस्तुतिः
तद्देवत्यः पशुपुरोडाशः २५
मूलम्
तद्देवत्यः पशुपुरोडाशः २५