विश्वास-प्रस्तुतिः

नाभिदघ्नं सदः १

मूलम्

नाभिदघ्नं सदः १

विश्वास-प्रस्तुतिः

मत्या वा २

मूलम्

मत्या वा २

विश्वास-प्रस्तुतिः

उदग्वंशम् ३

मूलम्

उदग्वंशम् ३

विश्वास-प्रस्तुतिः

अष्टादशारत्न्येकविंशतिश्चतुर्विंशतिर्वा ४

मूलम्

अष्टादशारत्न्येकविंशतिश्चतुर्विंशतिर्वा ४

विश्वास-प्रस्तुतिः

नव तिर्यगर्धायामो वा ५

मूलम्

नव तिर्यगर्धायामो वा ५

विश्वास-प्रस्तुतिः

औदुम्बरीं मध्ये पृष्ठ्यामेके ६

मूलम्

औदुम्बरीं मध्ये पृष्ठ्यामेके ६

विश्वास-प्रस्तुतिः

इन्द्र स्य च्छदिरिति मध्यमं च्छदिरारोप्याऽपरपूर्वे च ७

मूलम्

इन्द्र स्य च्छदिरिति मध्यमं च्छदिरारोप्याऽपरपूर्वे च ७

विश्वास-प्रस्तुतिः

त्रिवर्गौ चोत्तरतः ८

मूलम्

त्रिवर्गौ चोत्तरतः ८

विश्वास-प्रस्तुतिः

परित्वेति परिवार्य परिषीवणग्रन्थ्यभिमर्शनान्यैन्द्रैः९

मूलम्

परित्वेति परिवार्य परिषीवणग्रन्थ्यभिमर्शनान्यैन्द्रैः९

विश्वास-प्रस्तुतिः

हविर्द्धानापरान्तमुत्तरेणाऽग्नीध्रमग्न्यगारद्वारमन्तर्वेद्यर्द्धं भूयः सर्वं वा १०

मूलम्

हविर्द्धानापरान्तमुत्तरेणाऽग्नीध्रमग्न्यगारद्वारमन्तर्वेद्यर्द्धं भूयः सर्वं वा १०

विश्वास-प्रस्तुतिः

निष्ठाप्य वैश्वदेवमसीत्यालभते ११

मूलम्

निष्ठाप्य वैश्वदेवमसीत्यालभते ११

विश्वास-प्रस्तुतिः

धिष्ण्यान्निवपत्युद्धताऽवोक्षिते पुरीषं निवपति स्फ्येनाऽन्वारब्ध उदङ्ङुपविश्य विभूरसीति प्रतिमन्त्रम् १२

मूलम्

धिष्ण्यान्निवपत्युद्धताऽवोक्षिते पुरीषं निवपति स्फ्येनाऽन्वारब्ध उदङ्ङुपविश्य विभूरसीति प्रतिमन्त्रम् १२

विश्वास-प्रस्तुतिः

आग्नीध्रीयं पूर्वम् १३

मूलम्

आग्नीध्रीयं पूर्वम् १३

विश्वास-प्रस्तुतिः

सिकताश्चोपरि १४

मूलम्

सिकताश्चोपरि १४

विश्वास-प्रस्तुतिः

रौद्रे णेति सर्वत्र १५

मूलम्

रौद्रे णेति सर्वत्र १५

विश्वास-प्रस्तुतिः

षट् सदसि १६

मूलम्

षट् सदसि १६

विश्वास-प्रस्तुतिः

प्रत्यङ्मुखो द्वारमपरेण होतुः १७

मूलम्

प्रत्यङ्मुखो द्वारमपरेण होतुः १७

विश्वास-प्रस्तुतिः

दक्षिणपूर्वेणौदुम्बरीं मैत्रावरुणस्य १८

मूलम्

दक्षिणपूर्वेणौदुम्बरीं मैत्रावरुणस्य १८

विश्वास-प्रस्तुतिः

होतृधिष्ण्यमुत्तरेण चतुरः समान्तरान्ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानाम् १९

मूलम्

होतृधिष्ण्यमुत्तरेण चतुरः समान्तरान्ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानाम् १९

विश्वास-प्रस्तुतिः

आग्नीध्राद्दक्षिणं सम्प्रति वेद्यन्ते दक्षिणामुखो मार्जालीयम् २०

मूलम्

आग्नीध्राद्दक्षिणं सम्प्रति वेद्यन्ते दक्षिणामुखो मार्जालीयम् २०

विश्वास-प्रस्तुतिः

सदोद्वारं पूर्वेण तिष्ठन्ननुदिशत्याहवनीयबहिष्पवमानदेशचात्वालशामित्रौदुम्बरिब्रह्मासनशालाद्वार्यप्राजहितान्त्सम्म्राडसीति प्रतिमन्त्रम् २१

मूलम्

सदोद्वारं पूर्वेण तिष्ठन्ननुदिशत्याहवनीयबहिष्पवमानदेशचात्वालशामित्रौदुम्बरिब्रह्मासनशालाद्वार्यप्राजहितान्त्सम्म्राडसीति प्रतिमन्त्रम् २१

विश्वास-प्रस्तुतिः

उत्करं समूह्योऽसि विश्ववेदा ऊनातिरिक्तस्य प्रतिष्ठेति २२

मूलम्

उत्करं समूह्योऽसि विश्ववेदा ऊनातिरिक्तस्य प्रतिष्ठेति २२

विश्वास-प्रस्तुतिः

परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणानि कृत्वोत्तरपरिग्रहादि करोति २३

मूलम्

परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणानि कृत्वोत्तरपरिग्रहादि करोति २३

विश्वास-प्रस्तुतिः

अन्तःपात्यसहितम् २४

मूलम्

अन्तःपात्यसहितम् २४

विश्वास-प्रस्तुतिः

बर्हिरन्तं प्रेष्यति । तत्र सर्वमासादयति २५

मूलम्

बर्हिरन्तं प्रेष्यति । तत्र सर्वमासादयति २५

विश्वास-प्रस्तुतिः

अत्रैव प्रोक्षणम् २६

मूलम्

अत्रैव प्रोक्षणम् २६

विश्वास-प्रस्तुतिः

इध्मं निधायाऽग्नीषोमीयाय वेदेः स्तरणमग्रहणं प्रस्तरस्याऽपराह्णे २७

मूलम्

इध्मं निधायाऽग्नीषोमीयाय वेदेः स्तरणमग्रहणं प्रस्तरस्याऽपराह्णे २७

विश्वास-प्रस्तुतिः

अर्द्धव्रते प्रत्ते प्रविश्य प्रणयनीयाऽधानम् २८

मूलम्

अर्द्धव्रते प्रत्ते प्रविश्य प्रणयनीयाऽधानम् २८

विश्वास-प्रस्तुतिः

आज्याऽधिश्रयणस्रुक्सम्मार्जनोद्वासनाऽवेक्षणानि कृत्वा शालाद्बार्यमपरेणाऽस्ते यजमान उपस्थे सोमं कृत्वा २९

मूलम्

आज्याऽधिश्रयणस्रुक्सम्मार्जनोद्वासनाऽवेक्षणानि कृत्वा शालाद्बार्यमपरेणाऽस्ते यजमान उपस्थे सोमं कृत्वा २९

विश्वास-प्रस्तुतिः

शालाद्वार्यमपरेण सोमक्रयणीपदं परिकिरति ३०

मूलम्

शालाद्वार्यमपरेण सोमक्रयणीपदं परिकिरति ३०

विश्वास-प्रस्तुतिः

चतुर्द्धैके आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याऽक्षोपाञ्जने च ३१

मूलम्

चतुर्द्धैके आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याऽक्षोपाञ्जने च ३१

विश्वास-प्रस्तुतिः

आज्यप्रोक्षणीरन्तःपात्यदेशे उत्पूय पश्वाज्यग्रहणम् ३२

मूलम्

आज्यप्रोक्षणीरन्तःपात्यदेशे उत्पूय पश्वाज्यग्रहणम् ३२

विश्वास-प्रस्तुतिः

धारयन्त्याज्यानि ३३

मूलम्

धारयन्त्याज्यानि ३३

विश्वास-प्रस्तुतिः

अपिव्रताश्चाऽन्वारभन्ते यजमानम् ३४

मूलम्

अपिव्रताश्चाऽन्वारभन्ते यजमानम् ३४

विश्वास-प्रस्तुतिः

वाससा छादयत्येनान् ३५

मूलम्

वाससा छादयत्येनान् ३५

विश्वास-प्रस्तुतिः

चरत्सु नाऽद्रि येत ३६

मूलम्

चरत्सु नाऽद्रि येत ३६