विश्वास-प्रस्तुतिः

अभ्र्यादि करोत्यवटवदापरिलेखनात् १

मूलम्

अभ्र्यादि करोत्यवटवदापरिलेखनात् १

विश्वास-प्रस्तुतिः

चतुरः २

मूलम्

चतुरः २

विश्वास-प्रस्तुतिः

अक्ष्णया व्याघारणवत् ३

मूलम्

अक्ष्णया व्याघारणवत् ३

विश्वास-प्रस्तुतिः

उत्तराऽपरं वा प्रथमम् ४

मूलम्

उत्तराऽपरं वा प्रथमम् ४

विश्वास-प्रस्तुतिः

सम्यग्वा ५

मूलम्

सम्यग्वा ५

विश्वास-प्रस्तुतिः

उत्तरपूर्वं त्वन्त्यम् ६

मूलम्

उत्तरपूर्वं त्वन्त्यम् ६

विश्वास-प्रस्तुतिः

प्रादेशमात्रांस्तदन्तरान् ७

मूलम्

प्रादेशमात्रांस्तदन्तरान् ७

विश्वास-प्रस्तुतिः

बृहन्नसीति यथापरिलिखितं खनति ७

मूलम्

बृहन्नसीति यथापरिलिखितं खनति ७

विश्वास-प्रस्तुतिः

इदमहमित्युत्किरति यथाखातं प्रतिमन्त्रम् ८

मूलम्

इदमहमित्युत्किरति यथाखातं प्रतिमन्त्रम् ८

विश्वास-प्रस्तुतिः

उत्कृत्यां किरामीति पश्चात्सर्वेभ्यः ९

मूलम्

उत्कृत्यां किरामीति पश्चात्सर्वेभ्यः ९

विश्वास-प्रस्तुतिः

बाहुमात्रान् १०

मूलम्

बाहुमात्रान् १०

विश्वास-प्रस्तुतिः

अक्ष्णया सम्भिन्द्यादशक्तौ सम्यक् ११

मूलम्

अक्ष्णया सम्भिन्द्यादशक्तौ सम्यक् ११

विश्वास-प्रस्तुतिः

स्वराडित्यवमर्शयति यथाखातं प्रतिमन्त्रम् १२

मूलम्

स्वराडित्यवमर्शयति यथाखातं प्रतिमन्त्रम् १२

विश्वास-प्रस्तुतिः

अध्वर्युयजमानौ सम्मृशेते पूर्वदक्षिणेऽध्वर्युरपरोत्तरे यजमानः १३

मूलम्

अध्वर्युयजमानौ सम्मृशेते पूर्वदक्षिणेऽध्वर्युरपरोत्तरे यजमानः १३

विश्वास-प्रस्तुतिः

अध्वर्युः पृच्छति यजमान किमत्रेति १४

मूलम्

अध्वर्युः पृच्छति यजमान किमत्रेति १४

विश्वास-प्रस्तुतिः

भद्र मित्याह १५

मूलम्

भद्र मित्याह १५

विश्वास-प्रस्तुतिः

तन्नौ सहेत्यध्वर्युरुपांशु १६

मूलम्

तन्नौ सहेत्यध्वर्युरुपांशु १६

विश्वास-प्रस्तुतिः

पुनर्दक्षिणापरेऽध्वर्युः पूर्वोत्तरे यजमानो यजमानः पृच्छत्यध्वर्यो किमत्रेति भद्र मिति प्रोक्ते तन्म इति यजमानः १७

मूलम्

पुनर्दक्षिणापरेऽध्वर्युः पूर्वोत्तरे यजमानो यजमानः पृच्छत्यध्वर्यो किमत्रेति भद्र मिति प्रोक्ते तन्म इति यजमानः १७

विश्वास-प्रस्तुतिः

प्रोक्षत्येनान् रक्षोहण इति १८

मूलम्

प्रोक्षत्येनान् रक्षोहण इति १८

विश्वास-प्रस्तुतिः

भेदे मन्त्रावृत्तिः सान्निपातित्वात् १९

मूलम्

भेदे मन्त्रावृत्तिः सान्निपातित्वात् १९

विश्वास-प्रस्तुतिः

अवनयनाऽवस्तरणे चाऽवटवद्र क्षोहणो रक्षोहण इति २०

मूलम्

अवनयनाऽवस्तरणे चाऽवटवद्र क्षोहणो रक्षोहण इति २०

विश्वास-प्रस्तुतिः

तनूनुपरि कुशान्कृत्वाऽधिषवणे फलके द्व्यङ्गुलान्तरे प्रक्षालिते प्राची अरत्निमात्रे सन्तृण्णे वोपदधाति पर्यूहति च रक्षोहणौ रक्षोहणाविति २१

मूलम्

तनूनुपरि कुशान्कृत्वाऽधिषवणे फलके द्व्यङ्गुलान्तरे प्रक्षालिते प्राची अरत्निमात्रे सन्तृण्णे वोपदधाति पर्यूहति च रक्षोहणौ रक्षोहणाविति २१

विश्वास-प्रस्तुतिः

तयोश्चर्माधिषवणं परिकृत्तं सर्वरोहितं निदधाति वैष्णवमसीति २२

मूलम्

तयोश्चर्माधिषवणं परिकृत्तं सर्वरोहितं निदधाति वैष्णवमसीति २२

विश्वास-प्रस्तुतिः

तस्मिन् ग्राव्णः पञ्च वैष्णवा स्थेति २३

मूलम्

तस्मिन् ग्राव्णः पञ्च वैष्णवा स्थेति २३

विश्वास-प्रस्तुतिः

खरं पुस्तात्करोत्युद्धताऽवोक्षिते सिकतोपकीर्णं चतुरश्रम् २४

मूलम्

खरं पुस्तात्करोत्युद्धताऽवोक्षिते सिकतोपकीर्णं चतुरश्रम् २४

विश्वास-प्रस्तुतिः

अन्तःपात्यात्षट् प्रक्रमान्प्राङ् यात्वा दक्षिणा सप्तमं महान्तं २५

मूलम्

अन्तःपात्यात्षट् प्रक्रमान्प्राङ् यात्वा दक्षिणा सप्तमं महान्तं २५

विश्वास-प्रस्तुतिः

तत्रौदुम्बरीं मिनोति यजमानमात्रीम् २६

मूलम्

तत्रौदुम्बरीं मिनोति यजमानमात्रीम् २६

विश्वास-प्रस्तुतिः

यूपवच्छेते २७

मूलम्

यूपवच्छेते २७

विश्वास-प्रस्तुतिः

अभ्र्यादि करोत्याऽवस्तरणात् २८

मूलम्

अभ्र्यादि करोत्याऽवस्तरणात् २८

विश्वास-प्रस्तुतिः

उद्दिवमित्युच्छ्रयति २९

मूलम्

उद्दिवमित्युच्छ्रयति २९

विश्वास-प्रस्तुतिः

द्युतान इति मिनोति ३०

मूलम्

द्युतान इति मिनोति ३०

विश्वास-प्रस्तुतिः

पर्यूहणाद्योपसेचनात्कृत्वा ध्रुवाऽसीति वाचयत्यौदुम्बरीमालम्भ्य प्रजया भूयादिति पशुभिरिति वा ३१

मूलम्

पर्यूहणाद्योपसेचनात्कृत्वा ध्रुवाऽसीति वाचयत्यौदुम्बरीमालम्भ्य प्रजया भूयादिति पशुभिरिति वा ३१

विश्वास-प्रस्तुतिः

स्रुवेण विशाखे जुहोति घृतेन द्यावापृथिवी इति भूमिप्राप्ते स्वाहा करोति सर्वत्र मन्त्रवत्सु जुहोत्युपदेशात् ३२

मूलम्

स्रुवेण विशाखे जुहोति घृतेन द्यावापृथिवी इति भूमिप्राप्ते स्वाहा करोति सर्वत्र मन्त्रवत्सु जुहोत्युपदेशात् ३२

विश्वास-प्रस्तुतिः

अनाम्नातप्रतिषेधाच्च ३३

मूलम्

अनाम्नातप्रतिषेधाच्च ३३