विश्वास-प्रस्तुतिः
हविर्द्धानाभ्यां प्रवर्त्त्यमानाभ्यामनुवाचयति १
मूलम्
हविर्द्धानाभ्यां प्रवर्त्त्यमानाभ्यामनुवाचयति १
विश्वास-प्रस्तुतिः
त्रिरुक्तायामुद्गृह्येव वर्त्तनम् २
मूलम्
त्रिरुक्तायामुद्गृह्येव वर्त्तनम् २
विश्वास-प्रस्तुतिः
प्राची प्रेतमिति वाचयति ३
मूलम्
प्राची प्रेतमिति वाचयति ३
विश्वास-प्रस्तुतिः
स्वं गोष्ठमिति च खर्जति ४
मूलम्
स्वं गोष्ठमिति च खर्जति ४
विश्वास-प्रस्तुतिः
पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्वा वा नभ्यस्थे अभिमन्त्रयतेऽत्र रमेथामिति ५
मूलम्
पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्वा वा नभ्यस्थे अभिमन्त्रयतेऽत्र रमेथामिति ५
विश्वास-प्रस्तुतिः
उत्तरेण परिक्रम्य दक्षिणमुपस्तभ्नाति विष्णोर्नु कमिति ६
मूलम्
उत्तरेण परिक्रम्य दक्षिणमुपस्तभ्नाति विष्णोर्नु कमिति ६
विश्वास-प्रस्तुतिः
दक्षिणतः स्थूणामुपनिहन्ति विष्णवे त्वा इति ७
मूलम्
दक्षिणतः स्थूणामुपनिहन्ति विष्णवे त्वा इति ७
विश्वास-प्रस्तुतिः
दिवो वेत्त्युत्तरं प्रतिप्रस्थाता ८
मूलम्
दिवो वेत्त्युत्तरं प्रतिप्रस्थाता ८
विश्वास-प्रस्तुतिः
उत्तरतः स्थूणां पूर्ववत् ९
मूलम्
उत्तरतः स्थूणां पूर्ववत् ९
विश्वास-प्रस्तुतिः
उभे वा दक्षिणतः १०
मूलम्
उभे वा दक्षिणतः १०
विश्वास-प्रस्तुतिः
इतरतस्ततः ११
मूलम्
इतरतस्ततः ११
विश्वास-प्रस्तुतिः
यदु च मानुष इति श्रुतेः १२
मूलम्
यदु च मानुष इति श्रुतेः १२
विश्वास-प्रस्तुतिः
प्रतद्विष्णुरिति वाचयति मध्यमं छदिरालभ्य १३
मूलम्
प्रतद्विष्णुरिति वाचयति मध्यमं छदिरालभ्य १३
विश्वास-प्रस्तुतिः
उत्तरे च १४
मूलम्
उत्तरे च १४
विश्वास-प्रस्तुतिः
विष्णो रराटमिति रराट्याम् १५
मूलम्
विष्णो रराटमिति रराट्याम् १५
विश्वास-प्रस्तुतिः
विष्णोः श्नप्त्रे स्थ इत्युच्छ्राय्यौ १६
मूलम्
विष्णोः श्नप्त्रे स्थ इत्युच्छ्राय्यौ १६
विश्वास-प्रस्तुतिः
उदगग्राणि छदींषि पश्चाच्छ्रुतेः १७
मूलम्
उदगग्राणि छदींषि पश्चाच्छ्रुतेः १७
विश्वास-प्रस्तुतिः
द्वार्याः परिषीव्यति लस्पूजनिप्रतिहृतया रज्ज्वा विष्णोः स्यूरसीति १८
मूलम्
द्वार्याः परिषीव्यति लस्पूजनिप्रतिहृतया रज्ज्वा विष्णोः स्यूरसीति १८
विश्वास-प्रस्तुतिः
विष्णोर्ध्रुवोऽसीति ग्रन्थिं करोति १९
मूलम्
विष्णोर्ध्रुवोऽसीति ग्रन्थिं करोति १९
विश्वास-प्रस्तुतिः
उपक्रान्ते प्रमुञ्चति २०
मूलम्
उपक्रान्ते प्रमुञ्चति २०
विश्वास-प्रस्तुतिः
प्राग्वंशं हविर्द्धानम् २१
मूलम्
प्राग्वंशं हविर्द्धानम् २१
विश्वास-प्रस्तुतिः
निष्ठाप्य वैष्णवमसीत्यालभते २२
मूलम्
निष्ठाप्य वैष्णवमसीत्यालभते २२
विश्वास-प्रस्तुतिः
भोजनभक्षणे चाऽस्मिन्न कुर्युः २३
मूलम्
भोजनभक्षणे चाऽस्मिन्न कुर्युः २३
विश्वास-प्रस्तुतिः
अद्वारेण सदोहविर्द्धाने प्रेक्षमाणं ब्रूयान्मा प्रेक्षथा इति २४
मूलम्
अद्वारेण सदोहविर्द्धाने प्रेक्षमाणं ब्रूयान्मा प्रेक्षथा इति २४
विश्वास-प्रस्तुतिः
पृष्ठ्यामुभयतो द्वार्ये २५
मूलम्
पृष्ठ्यामुभयतो द्वार्ये २५
विश्वास-प्रस्तुतिः
दक्षिणस्याऽनसोऽधः प्रउगं खनत्युपरवान् २६
मूलम्
दक्षिणस्याऽनसोऽधः प्रउगं खनत्युपरवान् २६