विश्वास-प्रस्तुतिः
त्रिस्तनं प्रथमायां दोहयति १
मूलम्
त्रिस्तनं प्रथमायां दोहयति १
विश्वास-प्रस्तुतिः
एकापचयेनोतरयोः २
मूलम्
एकापचयेनोतरयोः २
विश्वास-प्रस्तुतिः
विपर्यस्य वाऽनग्निचित्ये ३
मूलम्
विपर्यस्य वाऽनग्निचित्ये ३
विश्वास-प्रस्तुतिः
एवं प्रवृद्धौ समं विभजेत् ४
मूलम्
एवं प्रवृद्धौ समं विभजेत् ४
विश्वास-प्रस्तुतिः
स्वस्थानविवृद्धिः ५
मूलम्
स्वस्थानविवृद्धिः ५
विश्वास-प्रस्तुतिः
औपवसथ्यात्पूर्वेऽहनि पौर्वाह्णिक्या प्रचर्य वेदिं मिमीते ६
मूलम्
औपवसथ्यात्पूर्वेऽहनि पौर्वाह्णिक्या प्रचर्य वेदिं मिमीते ६
विश्वास-प्रस्तुतिः
पूर्वार्द्ध्यात्स्तम्भात्पुरस्तात् त्रिषु प्रक्रमेषु शङ्कुं निहन्ति सोऽन्तःपात्यः ७
मूलम्
पूर्वार्द्ध्यात्स्तम्भात्पुरस्तात् त्रिषु प्रक्रमेषु शङ्कुं निहन्ति सोऽन्तःपात्यः ७
विश्वास-प्रस्तुतिः
तस्मात्पुरस्तात्षट्त्रिंशति ८
मूलम्
तस्मात्पुरस्तात्षट्त्रिंशति ८
विश्वास-प्रस्तुतिः
दक्षिणोत्तरौ च पञ्चदशसु पञ्चदशसु ९
मूलम्
दक्षिणोत्तरौ च पञ्चदशसु पञ्चदशसु ९
विश्वास-प्रस्तुतिः
अर्धसप्तदशेषु वा १०
मूलम्
अर्धसप्तदशेषु वा १०
विश्वास-प्रस्तुतिः
पूर्वार्द्ध्याच्च द्वादशसु द्वादशसु ११
मूलम्
पूर्वार्द्ध्याच्च द्वादशसु द्वादशसु ११
विश्वास-प्रस्तुतिः
पृष्ठ्यामायम्य स्फ्यादि करोति खादिरेणाऽच्छादनात् १२
मूलम्
पृष्ठ्यामायम्य स्फ्यादि करोति खादिरेणाऽच्छादनात् १२
विश्वास-प्रस्तुतिः
उपरवदेशात्स्तम्बयजुर्हरति १३
मूलम्
उपरवदेशात्स्तम्बयजुर्हरति १३
विश्वास-प्रस्तुतिः
उत्तरांसात्पश्चादध्यर्धे पदे चात्वालम् १४
मूलम्
उत्तरांसात्पश्चादध्यर्धे पदे चात्वालम् १४
विश्वास-प्रस्तुतिः
यथोक्तं वा १५
मूलम्
यथोक्तं वा १५
विश्वास-प्रस्तुतिः
प्रातरुपसदौ समस्य पौर्वाह्णिक्या प्रचर्याऽर्द्धव्रतं प्रयच्छति १६
मूलम्
प्रातरुपसदौ समस्य पौर्वाह्णिक्या प्रचर्याऽर्द्धव्रतं प्रयच्छति १६
विश्वास-प्रस्तुतिः
सर्वं वाऽग्नौ १७
मूलम्
सर्वं वाऽग्नौ १७
विश्वास-प्रस्तुतिः
उभाभ्यां चरिते प्रवर्ग्यमुत्सादयति यथोक्तं कुर्याच्चेत् १८
मूलम्
उभाभ्यां चरिते प्रवर्ग्यमुत्सादयति यथोक्तं कुर्याच्चेत् १८
विश्वास-प्रस्तुतिः
अग्निं प्रणयत्यॐपनिवपनात्कृत्वा हविर्धाने स्थापयति पृष्ठ्यामुभयतो द्व्यरत्न्यन्तरे प्रक्षालिते प्राची उभयतः शालामावर्त्त्य वर्पीयो दक्षिणम् १९
मूलम्
अग्निं प्रणयत्यॐपनिवपनात्कृत्वा हविर्धाने स्थापयति पृष्ठ्यामुभयतो द्व्यरत्न्यन्तरे प्रक्षालिते प्राची उभयतः शालामावर्त्त्य वर्पीयो दक्षिणम् १९
विश्वास-प्रस्तुतिः
तयोश्छदिरध्यस्यति २०
मूलम्
तयोश्छदिरध्यस्यति २०
विश्वास-प्रस्तुतिः
भित्तिं वाऽभावे २१
मूलम्
भित्तिं वाऽभावे २१
विश्वास-प्रस्तुतिः
अन्यत्राऽपि २२
मूलम्
अन्यत्राऽपि २२
विश्वास-प्रस्तुतिः
रराट्यां पुरस्तादासजत्यैषीकीम् २३
मूलम्
रराट्यां पुरस्तादासजत्यैषीकीम् २३
विश्वास-प्रस्तुतिः
उच्छ्रायीभ्यां परिवार्य छदिः पश्चाच्च २४
मूलम्
उच्छ्रायीभ्यां परिवार्य छदिः पश्चाच्च २४
विश्वास-प्रस्तुतिः
चतुर्गृहीतं शालाद्बार्ये जुहोति युञ्जत इति २५
मूलम्
चतुर्गृहीतं शालाद्बार्ये जुहोति युञ्जत इति २५
विश्वास-प्रस्तुतिः
स गार्हपत्योऽतः २६
मूलम्
स गार्हपत्योऽतः २६
विश्वास-प्रस्तुतिः
अपरं दक्षिणे वर्त्मनि दक्षिणस्याऽनसो हिरण्यं निधायाऽभिजुहोतीदं विष्णुरिति २७
मूलम्
अपरं दक्षिणे वर्त्मनि दक्षिणस्याऽनसो हिरण्यं निधायाऽभिजुहोतीदं विष्णुरिति २७
विश्वास-प्रस्तुतिः
दक्षिणया द्वाराऽनीता पत्नी पाणिभ्यां शेषं प्रतिगृह्याऽक्षधुरावनक्ति पराग्देवश्रुताविति युगपत्तद्वचनत्वात् २८
मूलम्
दक्षिणया द्वाराऽनीता पत्नी पाणिभ्यां शेषं प्रतिगृह्याऽक्षधुरावनक्ति पराग्देवश्रुताविति युगपत्तद्वचनत्वात् २८
विश्वास-प्रस्तुतिः
भेदे मन्प्रावृत्तिः सान्निपातितत्वात् २९
मूलम्
भेदे मन्प्रावृत्तिः सान्निपातितत्वात् २९
विश्वास-प्रस्तुतिः
स्रुक्स्थाल्यौ प्रतिगृह्य प्रतिप्रस्थातोत्तरस्येरावती इति पूर्ववत् ३०
मूलम्
स्रुक्स्थाल्यौ प्रतिगृह्य प्रतिप्रस्थातोत्तरस्येरावती इति पूर्ववत् ३०
विश्वास-प्रस्तुतिः
पत्नी चाऽपरेणाग्नीन्परीत्योत्तरस्याऽनक्ति पूर्ववत् ३१
मूलम्
पत्नी चाऽपरेणाग्नीन्परीत्योत्तरस्याऽनक्ति पूर्ववत् ३१