विश्वास-प्रस्तुतिः
पल्यङ्गय निदधात्यपिधायाऽमृन्मयेन १
मूलम्
पल्यङ्गय निदधात्यपिधायाऽमृन्मयेन १
विश्वास-प्रस्तुतिः
अपराह्णे व्रतमिश्रं दीक्षिताय प्रयच्छति २
मूलम्
अपराह्णे व्रतमिश्रं दीक्षिताय प्रयच्छति २
विश्वास-प्रस्तुतिः
बृहुषु गृहपतये ३
मूलम्
बृहुषु गृहपतये ३
विश्वास-प्रस्तुतिः
अग्ने व्रतपा इत्याहवनीये समिधमादाय मदन्तीरुपस्पृश्य गाढतरं मुष्टिमेखलं कुरुते ४
मूलम्
अग्ने व्रतपा इत्याहवनीये समिधमादाय मदन्तीरुपस्पृश्य गाढतरं मुष्टिमेखलं कुरुते ४
विश्वास-प्रस्तुतिः
पत्नी च गार्हपत्ये तूष्णीम् ५
मूलम्
पत्नी च गार्हपत्ये तूष्णीम् ५
विश्वास-प्रस्तुतिः
मदन्तीरुपस्पृश्य यजमानषष्ठाः सोममाप्याययन्त्यंशुरंशुरिति ६
मूलम्
मदन्तीरुपस्पृश्य यजमानषष्ठाः सोममाप्याययन्त्यंशुरंशुरिति ६
विश्वास-प्रस्तुतिः
आज्यमालभ्योपस्पृशेदपः सोममालिप्स्यमानस्तथा विपर्यस्य ७
मूलम्
आज्यमालभ्योपस्पृशेदपः सोममालिप्स्यमानस्तथा विपर्यस्य ७
विश्वास-प्रस्तुतिः
प्रत्येत्य प्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वेष्टा राय इति ८
मूलम्
प्रत्येत्य प्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वेष्टा राय इति ८
विश्वास-प्रस्तुतिः
व्यूहनपरिध्यञ्जने कृत्वैके ९
मूलम्
व्यूहनपरिध्यञ्जने कृत्वैके ९
विश्वास-प्रस्तुतिः
समुल्लुप्य प्रस्तरमक्त्वा परिधींश्चाऽदायाऽहाग्नीन्मदन्त्याप इति १०
मूलम्
समुल्लुप्य प्रस्तरमक्त्वा परिधींश्चाऽदायाऽहाग्नीन्मदन्त्याप इति १०
विश्वास-प्रस्तुतिः
मदन्तीत्यग्नीत् ११
मूलम्
मदन्तीत्यग्नीत् ११
विश्वास-प्रस्तुतिः
ताभिरेहीति ब्रुवन्नध्यध्याहवनीयं हृत्वाऽभ्युक्ष्याऽग्नीधे प्रयच्छति निधानाय १२
मूलम्
ताभिरेहीति ब्रुवन्नध्यध्याहवनीयं हृत्वाऽभ्युक्ष्याऽग्नीधे प्रयच्छति निधानाय १२
विश्वास-प्रस्तुतिः
सुब्रह्मण्यां च प्रेष्यति १३
मूलम्
सुब्रह्मण्यां च प्रेष्यति १३
विश्वास-प्रस्तुतिः
प्रवर्ग्योपसदावतः १४
मूलम्
प्रवर्ग्योपसदावतः १४
विश्वास-प्रस्तुतिः
उपसदेव वाऽप्रवर्ग्ये १५
मूलम्
उपसदेव वाऽप्रवर्ग्ये १५
विश्वास-प्रस्तुतिः
प्रणीताद्युपसत् १६
मूलम्
प्रणीताद्युपसत् १६
विश्वास-प्रस्तुतिः
हविष्कृतमाहूयाऽनाहननमपेषणे तीक्ष्णार्थत्वात् १७
मूलम्
हविष्कृतमाहूयाऽनाहननमपेषणे तीक्ष्णार्थत्वात् १७
विश्वास-प्रस्तुतिः
स्याद्वा धर्ममात्रत्वात् १८
मूलम्
स्याद्वा धर्ममात्रत्वात् १८
विश्वास-प्रस्तुतिः
श्रुतेश्च १९
मूलम्
श्रुतेश्च १९
विश्वास-प्रस्तुतिः
परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणानि कृत्वा स्फ्यादि करोति २०
मूलम्
परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणानि कृत्वा स्फ्यादि करोति २०
विश्वास-प्रस्तुतिः
बर्हिषः प्रच्छेदं हरति २१
मूलम्
बर्हिषः प्रच्छेदं हरति २१
विश्वास-प्रस्तुतिः
मदन्तीरिति वा प्रेष्यति २२
मूलम्
मदन्तीरिति वा प्रेष्यति २२
विश्वास-प्रस्तुतिः
मात्रावदिध्माबर्हिः २३
मूलम्
मात्रावदिध्माबर्हिः २३
विश्वास-प्रस्तुतिः
स्रुवतृतीयाः स्रुचः सम्माष्टि २४
मूलम्
स्रुवतृतीयाः स्रुचः सम्माष्टि २४
विश्वास-प्रस्तुतिः
अष्टगृहीतं जुह्वां चतुरुपभृति २५
मूलम्
अष्टगृहीतं जुह्वां चतुरुपभृति २५
विश्वास-प्रस्तुतिः
यथाप्रकृति वा २६
मूलम्
यथाप्रकृति वा २६
विश्वास-प्रस्तुतिः
एकवृत्स्तरणम् २७
मूलम्
एकवृत्स्तरणम् २७
विश्वास-प्रस्तुतिः
आज्यस्थाली ध्रुवार्थे २८
मूलम्
आज्यस्थाली ध्रुवार्थे २८
विश्वास-प्रस्तुतिः
स्रुवाघारमाघार्य सम्मृष्ट आश्राव्य सीद होतरित्येव ब्रूयात् २९
मूलम्
स्रुवाघारमाघार्य सम्मृष्ट आश्राव्य सीद होतरित्येव ब्रूयात् २९
विश्वास-प्रस्तुतिः
प्रसूतोऽतिक्रमन्नग्नयेऽनुवाचयति ३०
मूलम्
प्रसूतोऽतिक्रमन्नग्नयेऽनुवाचयति ३०
विश्वास-प्रस्तुतिः
अर्द्धं हुत्वा सोमाय विष्णवे समानीय ३१
मूलम्
अर्द्धं हुत्वा सोमाय विष्णवे समानीय ३१
विश्वास-प्रस्तुतिः
सादयित्वा स्रुचौ सोमाऽप्यायनाद्यासुब्रह्मण्याप्रैषात् ३२
मूलम्
सादयित्वा स्रुचौ सोमाऽप्यायनाद्यासुब्रह्मण्याप्रैषात् ३२
विश्वास-प्रस्तुतिः
अक्त्वा प्रस्तरमुपसदं जुहोति स्रुवेण या त इत्ययःशयामन्वारब्धे ३३
मूलम्
अक्त्वा प्रस्तरमुपसदं जुहोति स्रुवेण या त इत्ययःशयामन्वारब्धे ३३
विश्वास-प्रस्तुतिः
द्विरेकया चरति ३४
मूलम्
द्विरेकया चरति ३४
विश्वास-प्रस्तुतिः
सुसायं सुपूर्वाह्णे च ३५
मूलम्
सुसायं सुपूर्वाह्णे च ३५
विश्वास-प्रस्तुतिः
एवमितरे अन्वहं रजःशयां हरिशयां च ३६
मूलम्
एवमितरे अन्वहं रजःशयां हरिशयां च ३६
विश्वास-प्रस्तुतिः
एकाहस्व्युपसत्कः ३७
मूलम्
एकाहस्व्युपसत्कः ३७
विश्वास-प्रस्तुतिः
द्व्डश वा ३८
मूलम्
द्व्डश वा ३८