(अग्निष्टोमः)
विश्वास-प्रस्तुतिः
आतिथ्यं निर्वपति वैष्णवं नवकपालम् १
मूलम्
आतिथ्यं निर्वपति वैष्णवं नवकपालम् १
विश्वास-प्रस्तुतिः
पत्न्यन्वारब्धस्तूर्णमेकविमुक्ते वा निर्वपेदग्नेस्तनूरिति पञ्चकृत्वः प्रतिमन्त्रम् २
मूलम्
पत्न्यन्वारब्धस्तूर्णमेकविमुक्ते वा निर्वपेदग्नेस्तनूरिति पञ्चकृत्वः प्रतिमन्त्रम् २
विश्वास-प्रस्तुतिः
सावित्रनिवृत्तिः श्रुतिविरोधाभ्याम् ३
मूलम्
सावित्रनिवृत्तिः श्रुतिविरोधाभ्याम् ३
विश्वास-प्रस्तुतिः
अग्न्यन्वाधानव्रतोपयनाऽऽरण्यभोजनदानब्रह्मवरणादीनि दीक्षणीयाप्रभृति प्रागुदवसानीयायाः सोमे कृतत्वात् ४
मूलम्
अग्न्यन्वाधानव्रतोपयनाऽऽरण्यभोजनदानब्रह्मवरणादीनि दीक्षणीयाप्रभृति प्रागुदवसानीयायाः सोमे कृतत्वात् ४
विश्वास-प्रस्तुतिः
पत्नीसन्नहनं च सयोक्त्रायाः ५
मूलम्
पत्नीसन्नहनं च सयोक्त्रायाः ५
विश्वास-प्रस्तुतिः
यजमानभागश्च भक्षप्रतिषेधात् ६
मूलम्
यजमानभागश्च भक्षप्रतिषेधात् ६
विश्वास-प्रस्तुतिः
न कर्मगुणत्वात् ७
मूलम्
न कर्मगुणत्वात् ७
विश्वास-प्रस्तुतिः
उपसर्जनीरधिश्रयाति मदन्तीश्च व्रतवत् ८
मूलम्
उपसर्जनीरधिश्रयाति मदन्तीश्च व्रतवत् ८
विश्वास-प्रस्तुतिः
आमुष्टिविसर्गादुदकार्थस्ततः ९
मूलम्
आमुष्टिविसर्गादुदकार्थस्ततः ९
विश्वास-प्रस्तुतिः
कार्ष्मर्यमयाः परिधय आश्वबालः प्रस्तर ऐक्षव्यौ विधृती बर्हिश्च १०
मूलम्
कार्ष्मर्यमयाः परिधय आश्वबालः प्रस्तर ऐक्षव्यौ विधृती बर्हिश्च १०
विश्वास-प्रस्तुतिः
एतदेवाऽग्नीषोमीयोपसत्स्वपि चतुष्टयम् ११
मूलम्
एतदेवाऽग्नीषोमीयोपसत्स्वपि चतुष्टयम् ११
विश्वास-प्रस्तुतिः
आसाद्याऽग्निमन्थनमाहोमात्करोति १२
मूलम्
आसाद्याऽग्निमन्थनमाहोमात्करोति १२
विश्वास-प्रस्तुतिः
इडान्तं भवति १३
मूलम्
इडान्तं भवति १३
विश्वास-प्रस्तुतिः
ध्रौवं व्रतप्रदाने गृह्णात्यापतय इति १४
मूलम्
ध्रौवं व्रतप्रदाने गृह्णात्यापतय इति १४
विश्वास-प्रस्तुतिः
द्विश्च स्थाल्याः स्रुवेण तनूनप्त्रे शाक्वरायेति शक्वन ओजिष्ठायेति १५
मूलम्
द्विश्च स्थाल्याः स्रुवेण तनूनप्त्रे शाक्वरायेति शक्वन ओजिष्ठायेति १५
विश्वास-प्रस्तुतिः
गृह्णामीति सर्वत्र साकाङ्क्षत्वात् १६
मूलम्
गृह्णामीति सर्वत्र साकाङ्क्षत्वात् १६
विश्वास-प्रस्तुतिः
पूर्वशेषौ वोत्तरौ १७
मूलम्
पूर्वशेषौ वोत्तरौ १७
विश्वास-प्रस्तुतिः
प्रतिपुरुषं च ग्रहणमाज्यानि गृह्णाना इति श्रुतेः १८
मूलम्
प्रतिपुरुषं च ग्रहणमाज्यानि गृह्णाना इति श्रुतेः १८
विश्वास-प्रस्तुतिः
तानूनप्त्रमेतत् १९
मूलम्
तानूनप्त्रमेतत् १९
विश्वास-प्रस्तुतिः
दक्षिणस्यां वेदिश्रोणौ निधायाऽवमृशन्त्यृत्विजो यजमानश्चाऽनाधृष्टमिति २०
मूलम्
दक्षिणस्यां वेदिश्रोणौ निधायाऽवमृशन्त्यृत्विजो यजमानश्चाऽनाधृष्टमिति २०
विश्वास-प्रस्तुतिः
अद्रो हस्तेभ्यो न सतानूनप्त्रिणे द्रो ग्धव्यमिति श्रुतेः २१
मूलम्
अद्रो हस्तेभ्यो न सतानूनप्त्रिणे द्रो ग्धव्यमिति श्रुतेः २१