विश्वास-प्रस्तुतिः
गृहीतसोमं परि माऽग्न इति वाचयति १
मूलम्
गृहीतसोमं परि माऽग्न इति वाचयति १
विश्वास-प्रस्तुतिः
उत्तरे च २
मूलम्
उत्तरे च २
विश्वास-प्रस्तुतिः
उदायुषेत्युत्थानं शीर्ष्णि सोमं कृत्वा पाणिमन्तर्द्धाय ३
मूलम्
उदायुषेत्युत्थानं शीर्ष्णि सोमं कृत्वा पाणिमन्तर्द्धाय ३
विश्वास-प्रस्तुतिः
प्रतिपन्थामित्यनोऽभ्येति दक्षिणतस्तिष्ठञ्छन्नं समङ्गि धौतं प्रउगाच्चोद्धते फलके ४
मूलम्
प्रतिपन्थामित्यनोऽभ्येति दक्षिणतस्तिष्ठञ्छन्नं समङ्गि धौतं प्रउगाच्चोद्धते फलके ४
विश्वास-प्रस्तुतिः
कृष्णाजिनमस्मिन्नास्तृणात्यदित्यास्त्वगिति ५
मूलम्
कृष्णाजिनमस्मिन्नास्तृणात्यदित्यास्त्वगिति ५
विश्वास-प्रस्तुतिः
तस्मिन्त्सोमं निदधात्यदित्यै सद इति ६
मूलम्
तस्मिन्त्सोमं निदधात्यदित्यै सद इति ६
विश्वास-प्रस्तुतिः
अस्तम्भ्नाद् द्यामिति सोममालभ्य वाचयति ७
मूलम्
अस्तम्भ्नाद् द्यामिति सोममालभ्य वाचयति ७
विश्वास-प्रस्तुतिः
वनेषु व्यन्तरिक्षमिति सोमपर्याणहनेन परितत्य कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरिति ८
मूलम्
वनेषु व्यन्तरिक्षमिति सोमपर्याणहनेन परितत्य कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरिति ८
विश्वास-प्रस्तुतिः
एकं चेद् ग्रीवा अवकृत्य ९
मूलम्
एकं चेद् ग्रीवा अवकृत्य ९
विश्वास-प्रस्तुतिः
अनड्वाहौ युनक्त्युस्रावेतमिति युगपत्तद्वचनत्वात् १०
मूलम्
अनड्वाहौ युनक्त्युस्रावेतमिति युगपत्तद्वचनत्वात् १०
विश्वास-प्रस्तुतिः
भेदे मन्त्रावृत्तिः सान्निपातितत्वात् ११
मूलम्
भेदे मन्त्रावृत्तिः सान्निपातितत्वात् ११
विश्वास-प्रस्तुतिः
ईषान्तरे भूमिष्ठः सुब्रह्मण्यः पलाशशाखया प्राजति १२
मूलम्
ईषान्तरे भूमिष्ठः सुब्रह्मण्यः पलाशशाखया प्राजति १२
विश्वास-प्रस्तुतिः
पश्चात्परीत्याऽपालम्बं गृहीत्वा सोमाय क्रीतायाऽनुवाचयति पर्युह्यमाणायेति वा १३
मूलम्
पश्चात्परीत्याऽपालम्बं गृहीत्वा सोमाय क्रीतायाऽनुवाचयति पर्युह्यमाणायेति वा १३
विश्वास-प्रस्तुतिः
दीक्षितश्चाऽन्वारभते १४
मूलम्
दीक्षितश्चाऽन्वारभते १४
विश्वास-प्रस्तुतिः
त्रिरुक्तायां प्राङ्यात्वा दक्षिणाऽवर्त्य शालां गच्छन्ति १५
मूलम्
त्रिरुक्तायां प्राङ्यात्वा दक्षिणाऽवर्त्य शालां गच्छन्ति १५
विश्वास-प्रस्तुतिः
भद्रो म इति वाचयति १६
मूलम्
भद्रो म इति वाचयति १६
विश्वास-प्रस्तुतिः
सुब्रह्मण्यां चाऽह्वयति सुब्रह्मण्यॐ सुब्रह्मण्योमिति त्रिरुक्त्वा सकृन्निगदं यावदहे सुत्या तथाऽऽह १७
मूलम्
सुब्रह्मण्यां चाऽह्वयति सुब्रह्मण्यॐ सुब्रह्मण्योमिति त्रिरुक्त्वा सकृन्निगदं यावदहे सुत्या तथाऽऽह १७
विश्वास-प्रस्तुतिः
शालां पूर्वेण प्रतिप्रस्थाताऽग्नीषोमीयं पशुमादाय तिष्ठति कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गम् १८
मूलम्
शालां पूर्वेण प्रतिप्रस्थाताऽग्नीषोमीयं पशुमादाय तिष्ठति कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गम् १८
विश्वास-प्रस्तुतिः
नमो मित्रस्येत्येनमालभ्य वाचयति १९
मूलम्
नमो मित्रस्येत्येनमालभ्य वाचयति १९
विश्वास-प्रस्तुतिः
चरति पशौ वाचनमेव २०
मूलम्
चरति पशौ वाचनमेव २०
विश्वास-प्रस्तुतिः
आहवनीयाच्छोल्मुकमाहृत्यैके २१
मूलम्
आहवनीयाच्छोल्मुकमाहृत्यैके २१
विश्वास-प्रस्तुतिः
समीपेऽन उपस्थाप्योत्तम्भनेनोपस्तभ्नाति वरुणस्योत्तम्भनमिति २२
मूलम्
समीपेऽन उपस्थाप्योत्तम्भनेनोपस्तभ्नाति वरुणस्योत्तम्भनमिति २२
विश्वास-प्रस्तुतिः
शम्ये चोद्वृहति वरुणस्य स्कम्भसर्जनी स्थ इति २३
मूलम्
शम्ये चोद्वृहति वरुणस्य स्कम्भसर्जनी स्थ इति २३
विश्वास-प्रस्तुतिः
औदुम्बरीमासन्दीं नाभिदघ्नामरत्निमात्राऽङ्गीभूतामाहरन्ति चत्वारः २४
मूलम्
औदुम्बरीमासन्दीं नाभिदघ्नामरत्निमात्राऽङ्गीभूतामाहरन्ति चत्वारः २४
विश्वास-प्रस्तुतिः
अभिमृशत्येनां वरुणस्य ऋतसदन्यसीति २५
मूलम्
अभिमृशत्येनां वरुणस्य ऋतसदन्यसीति २५
विश्वास-प्रस्तुतिः
कृष्णाजिनमस्यामास्तृणाति वरुणस्य ऋतसदनमसीति २६
मूलम्
कृष्णाजिनमस्यामास्तृणाति वरुणस्य ऋतसदनमसीति २६
विश्वास-प्रस्तुतिः
तस्मिन्त्सोमं निदधाति वरुणस्य ऋतसदनमासीदेति २७
मूलम्
तस्मिन्त्सोमं निदधाति वरुणस्य ऋतसदनमासीदेति २७
विश्वास-प्रस्तुतिः
शालां प्रवेशयन्ति दीक्षितसञ्चरेण २८
मूलम्
शालां प्रवेशयन्ति दीक्षितसञ्चरेण २८
विश्वास-प्रस्तुतिः
या त इति वाचयति २९
मूलम्
या त इति वाचयति २९
विश्वास-प्रस्तुतिः
आहवनीयं दक्षिणेन स्थापयन्ति ३०
मूलम्
आहवनीयं दक्षिणेन स्थापयन्ति ३०
विश्वास-प्रस्तुतिः
उदपात्रमुपनिनयन्त्येके ३१
मूलम्
उदपात्रमुपनिनयन्त्येके ३१