विश्वास-प्रस्तुतिः
पञ्चकृत्वः सोमं पणते १
मूलम्
पञ्चकृत्वः सोमं पणते १
विश्वास-प्रस्तुतिः
स आह सोमविक्रयिन् क्रय्यस्ते सोमो राजा इति २
मूलम्
स आह सोमविक्रयिन् क्रय्यस्ते सोमो राजा इति २
विश्वास-प्रस्तुतिः
क्रय्य इत्याह सोमविक्रयी ३
मूलम्
क्रय्य इत्याह सोमविक्रयी ३
विश्वास-प्रस्तुतिः
तं वै ते क्रीणानीति ४
मूलम्
तं वै ते क्रीणानीति ४
विश्वास-प्रस्तुतिः
क्रीणीहीत्याह सोमविक्रयी ५
मूलम्
क्रीणीहीत्याह सोमविक्रयी ५
विश्वास-प्रस्तुतिः
कलया ते क्रीणानीति ६
मूलम्
कलया ते क्रीणानीति ६
विश्वास-प्रस्तुतिः
भूयो वा अतः सोमो राजाऽर्हतीत्याह सोमविक्रयी ७
मूलम्
भूयो वा अतः सोमो राजाऽर्हतीत्याह सोमविक्रयी ७
विश्वास-प्रस्तुतिः
भूय एवातः सोमो राजाऽर्हति महांस्त्वेव गोर्महिमेत्यध्वर्युर्गोर्वै प्रतिधुक् तस्यै शृतं तस्यै शरस्तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनमिति ८

भूय एतेत्यतःप्रभृति चतुरावर्त्तयति ९
मूलम्
भूय एतेत्यतःप्रभृति चतुरावर्त्तयति ९
विश्वास-प्रस्तुतिः
एकैकेनाऽन्ते पणते शफेन पदाऽर्द्धेन गवा १०
मूलम्
एकैकेनाऽन्ते पणते शफेन पदाऽर्द्धेन गवा १०
विश्वास-प्रस्तुतिः
ते क्रीणामीत्यन्ततः ११
मूलम्
ते क्रीणामीत्यन्ततः ११
विश्वास-प्रस्तुतिः
प्रश्नाते प्रश्नान्ते १२
मूलम्
प्रश्नाते प्रश्नान्ते १२
विश्वास-प्रस्तुतिः
क्रीतः सोमो राजेत्यन्ते वयांसि प्रब्रूहीत्याह सोमविक्रयी १३
मूलम्
क्रीतः सोमो राजेत्यन्ते वयांसि प्रब्रूहीत्याह सोमविक्रयी १३
विश्वास-प्रस्तुतिः
स आह चन्द्रं ते वस्त्रं ते छागा ते धेनुस्ते मिथुनौ ते गावौ तिस्रस्तेऽन्या इति १४
मूलम्
स आह चन्द्रं ते वस्त्रं ते छागा ते धेनुस्ते मिथुनौ ते गावौ तिस्रस्तेऽन्या इति १४
विश्वास-प्रस्तुतिः
शुक्रं त्वेति हिरण्यमालभ्य वाचयति १५
मूलम्
शुक्रं त्वेति हिरण्यमालभ्य वाचयति १५
विश्वास-प्रस्तुतिः
सग्मे त इति सोमविक्रयिणं हिरण्येनाऽभिकम्पयति १६
मूलम्
सग्मे त इति सोमविक्रयिणं हिरण्येनाऽभिकम्पयति १६
विश्वास-प्रस्तुतिः
अस्मे त इति यजमानसहितं निदधाति १७
मूलम्
अस्मे त इति यजमानसहितं निदधाति १७
विश्वास-प्रस्तुतिः
सोमविक्रय्येतदादत्ते १८
मूलम्
सोमविक्रय्येतदादत्ते १८
विश्वास-प्रस्तुतिः
अजां प्रत्यङ्मुखीमालभ्य वाचयति तपसस्तनूरिति १९
मूलम्
अजां प्रत्यङ्मुखीमालभ्य वाचयति तपसस्तनूरिति १९
विश्वास-प्रस्तुतिः
सव्येनाऽजां प्रयच्छन्मित्रोन इति दक्षिणेन सोममादायाऽगत उत्तिष्ठति वा २०
मूलम्
सव्येनाऽजां प्रयच्छन्मित्रोन इति दक्षिणेन सोममादायाऽगत उत्तिष्ठति वा २०
विश्वास-प्रस्तुतिः
दीक्षितोरौ दक्षिणे प्रत्युह्य वासो निदधातीन्द्र स्योरुमिति २१
मूलम्
दीक्षितोरौ दक्षिणे प्रत्युह्य वासो निदधातीन्द्र स्योरुमिति २१
विश्वास-प्रस्तुतिः
स्वान भ्राजेति जपति सोमविक्रयिणमीक्षमाणः २२
मूलम्
स्वान भ्राजेति जपति सोमविक्रयिणमीक्षमाणः २२
विश्वास-प्रस्तुतिः
अपोर्णुते दीक्षितः शिरः २३
मूलम्
अपोर्णुते दीक्षितः शिरः २३
विश्वास-प्रस्तुतिः
पत्नी च २४
मूलम्
पत्नी च २४
विश्वास-प्रस्तुतिः
हिरण्यं सहसाऽच्छिद्य पृषता वरत्राकाण्डेनाऽहन्ति वा २५
मूलम्
हिरण्यं सहसाऽच्छिद्य पृषता वरत्राकाण्डेनाऽहन्ति वा २५