विश्वास-प्रस्तुतिः
प्रेष्यति च सोमोपनहनमाहर सोमपर्याणहनमाहरोष्णीषमाहरेति १
मूलम्
प्रेष्यति च सोमोपनहनमाहर सोमपर्याणहनमाहरोष्णीषमाहरेति १
विश्वास-प्रस्तुतिः
अत्र वा निवपनम् २
मूलम्
अत्र वा निवपनम् २
विश्वास-प्रस्तुतिः
शोभनं सोमोपनहनम् ३
मूलम्
शोभनं सोमोपनहनम् ३
विश्वास-प्रस्तुतिः
उष्णीषाऽभावे सोमपर्याणहनाद् द्व्यङ्गुलं वोष्णीषायाऽवकृन्तति ४
मूलम्
उष्णीषाऽभावे सोमपर्याणहनाद् द्व्यङ्गुलं वोष्णीषायाऽवकृन्तति ४
विश्वास-प्रस्तुतिः
अध्वर्युर्यजमानो वा सोमोपनहनं हरत्यन्य इतरे ५
मूलम्
अध्वर्युर्यजमानो वा सोमोपनहनं हरत्यन्य इतरे ५
विश्वास-प्रस्तुतिः
सोमं गच्छन्त्येष त इति वाचयति ६
मूलम्
सोमं गच्छन्त्येष त इति वाचयति ६
विश्वास-प्रस्तुतिः
प्राङुपविश्याऽस्माकोऽसीति सोममालभते ७
मूलम्
प्राङुपविश्याऽस्माकोऽसीति सोममालभते ७
विश्वास-प्रस्तुतिः
न विचिनोत्यतस्तृणकाष्ठाऽपासनमेके ८
मूलम्
न विचिनोत्यतस्तृणकाष्ठाऽपासनमेके ८
विश्वास-प्रस्तुतिः
सोमोपनहनं द्विगुणं चतुर्गुणं वा स्तृणाति प्राग्दशमुदग्वा ९
मूलम्
सोमोपनहनं द्विगुणं चतुर्गुणं वा स्तृणाति प्राग्दशमुदग्वा ९
विश्वास-प्रस्तुतिः
तस्मिन्त्सोमं मिमीते दशकृत्वोऽभित्यमिति १०
मूलम्
तस्मिन्त्सोमं मिमीते दशकृत्वोऽभित्यमिति १०
विश्वास-प्रस्तुतिः
सर्वाभिः प्रथमम् ११
मूलम्
सर्वाभिः प्रथमम् ११
विश्वास-प्रस्तुतिः
अङ्गुष्ठप्रभृति चैकोत्सर्गम् १२
मूलम्
अङ्गुष्ठप्रभृति चैकोत्सर्गम् १२
विश्वास-प्रस्तुतिः
द्विः कनिष्ठिकया १३
मूलम्
द्विः कनिष्ठिकया १३
विश्वास-प्रस्तुतिः
एकोपचयं च १४
मूलम्
एकोपचयं च १४
विश्वास-प्रस्तुतिः
अञ्जलिना दशमम् १५
मूलम्
अञ्जलिना दशमम् १५
विश्वास-प्रस्तुतिः
अन्यद्वाऽध्यावापश्रुतेः १६
मूलम्
अन्यद्वाऽध्यावापश्रुतेः १६
विश्वास-प्रस्तुतिः
अन्तान्त्सङ्गृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेति १७
मूलम्
अन्तान्त्सङ्गृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेति १७
विश्वास-प्रस्तुतिः
अङ्गुल्या मध्ये विवृणोति प्रजास्त्वाऽनु प्राणान्त्विति १८
मूलम्
अङ्गुल्या मध्ये विवृणोति प्रजास्त्वाऽनु प्राणान्त्विति १८
विश्वास-प्रस्तुतिः
तं विक्रयिणे प्रयच्छति १९
मूलम्
तं विक्रयिणे प्रयच्छति १९