विश्वास-प्रस्तुतिः
उपरवदेशे प्रतिप्रस्थाता रोहिते चर्मण्यानडुहे सोमं निवपति १
मूलम्
उपरवदेशे प्रतिप्रस्थाता रोहिते चर्मण्यानडुहे सोमं निवपति १
विश्वास-प्रस्तुतिः
विक्रय्येनं विचिनोति कौत्सः शूद्रो वा २
मूलम्
विक्रय्येनं विचिनोति कौत्सः शूद्रो वा २
विश्वास-प्रस्तुतिः
ब्राह्मण उपास्ते ३
मूलम्
ब्राह्मण उपास्ते ३
विश्वास-प्रस्तुतिः
उदकुम्भश्च पुरस्तात् ४
मूलम्
उदकुम्भश्च पुरस्तात् ४
विश्वास-प्रस्तुतिः
शालाद्वाराण्यपिधाय ध्रौवं जुह्वां चतुर्विगृह्णाति ५
मूलम्
शालाद्वाराण्यपिधाय ध्रौवं जुह्वां चतुर्विगृह्णाति ५
विश्वास-प्रस्तुतिः
बर्हिस्तृणेव हिरण्यं बद्ध्वाऽवदधात्येषा त इति ६
मूलम्
बर्हिस्तृणेव हिरण्यं बद्ध्वाऽवदधात्येषा त इति ६
विश्वास-प्रस्तुतिः
जूरसीति जुहोति ७
मूलम्
जूरसीति जुहोति ७
विश्वास-प्रस्तुतिः
शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं निदधाति ८
मूलम्
शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं निदधाति ८
विश्वास-प्रस्तुतिः
सूत्रबद्धं हिरण्यं कुरुते ९
मूलम्
सूत्रबद्धं हिरण्यं कुरुते ९
विश्वास-प्रस्तुतिः
चतुर्गृहीतं गृहीत्वाऽन्वारभस्व यजमानेत्याह १०
मूलम्
चतुर्गृहीतं गृहीत्वाऽन्वारभस्व यजमानेत्याह १०
विश्वास-प्रस्तुतिः
अपावृतद्वारे निष्क्रामतः ११
मूलम्
अपावृतद्वारे निष्क्रामतः ११
विश्वास-प्रस्तुतिः
दक्षिणेन द्वारं सोमक्रयणी तिष्ठत्यलक्षिताऽव्यङ्गाऽप्रवीताऽरज्जुबद्धा बभ्रुः पिङ्गला पिङ्गलाऽभावेऽरुणाऽरुणाऽभावे रोहिण्यश्येताक्षी १२
मूलम्
दक्षिणेन द्वारं सोमक्रयणी तिष्ठत्यलक्षिताऽव्यङ्गाऽप्रवीताऽरज्जुबद्धा बभ्रुः पिङ्गला पिङ्गलाऽभावेऽरुणाऽरुणाऽभावे रोहिण्यश्येताक्षी १२
विश्वास-प्रस्तुतिः
चिदसीत्येनामभिमन्त्रयते १३
मूलम्
चिदसीत्येनामभिमन्त्रयते १३
विश्वास-प्रस्तुतिः
उदीचीं नीयमानामनुगच्छतो वस्व्यसीति १४
मूलम्
उदीचीं नीयमानामनुगच्छतो वस्व्यसीति १४
विश्वास-प्रस्तुतिः
षट् पदान्यतीत्य सप्तमं पर्युपविशन्ति १५
मूलम्
षट् पदान्यतीत्य सप्तमं पर्युपविशन्ति १५
विश्वास-प्रस्तुतिः
हिरण्यमस्मिन्निधायाऽभिजुहोत्यदित्यास्त्वेति १६
मूलम्
हिरण्यमस्मिन्निधायाऽभिजुहोत्यदित्यास्त्वेति १६
विश्वास-प्रस्तुतिः
स्फ्येन पदं त्रिः परिलिखत्यस्मे रमस्वेति १७
मूलम्
स्फ्येन पदं त्रिः परिलिखत्यस्मे रमस्वेति १७
विश्वास-प्रस्तुतिः
समुद्धत्य पदं स्थाल्यामावपत्यस्मे ते बन्धुरिति १८
मूलम्
समुद्धत्य पदं स्थाल्यामावपत्यस्मे ते बन्धुरिति १८
विश्वास-प्रस्तुतिः
अपः स्थाने निषिच्य यजमानाय पदं प्रयच्छति त्वे राय इति १९
मूलम्
अपः स्थाने निषिच्य यजमानाय पदं प्रयच्छति त्वे राय इति १९
विश्वास-प्रस्तुतिः
मे राय इति यजमानः प्रतिगृह्णाति पदम् २०
मूलम्
मे राय इति यजमानः प्रतिगृह्णाति पदम् २०
विश्वास-प्रस्तुतिः
मा वयमित्यध्वर्युरात्मानं संस्पृशति २१
मूलम्
मा वयमित्यध्वर्युरात्मानं संस्पृशति २१
विश्वास-प्रस्तुतिः
हृत्वा पत्न्यै पदं प्रयच्छति २२
मूलम्
हृत्वा पत्न्यै पदं प्रयच्छति २२
विश्वास-प्रस्तुतिः
नेष्टा तोत इत्येनां वाचयति २३
मूलम्
नेष्टा तोत इत्येनां वाचयति २३
विश्वास-प्रस्तुतिः
सोमक्रयण्या च समीक्ष्यमाणां समख्य इति २४
मूलम्
सोमक्रयण्या च समीक्ष्यमाणां समख्य इति २४
विश्वास-प्रस्तुतिः
प्रक्षाल्य पाणी हिरण्यं बध्नीतेऽनामिकायाम् २५
मूलम्
प्रक्षाल्य पाणी हिरण्यं बध्नीतेऽनामिकायाम् २५
विश्वास-प्रस्तुतिः
आप्यायनाऽभिषवांऽश्वदाभ्येषु च २६
मूलम्
आप्यायनाऽभिषवांऽश्वदाभ्येषु च २६