विश्वास-प्रस्तुतिः
त्वमग्न इत्याह क्रुध्वाऽव्रत्यं वा व्याहृत्य १
मूलम्
त्वमग्न इत्याह क्रुध्वाऽव्रत्यं वा व्याहृत्य १
विश्वास-प्रस्तुतिः
लब्धमालभ्य वाचयति रास्वेयदिति २
मूलम्
लब्धमालभ्य वाचयति रास्वेयदिति २
विश्वास-प्रस्तुतिः
अशक्येऽभिमन्त्रणम् ३
मूलम्
अशक्येऽभिमन्त्रणम् ३
विश्वास-प्रस्तुतिः
शूद्र सम्प्रवेशसम्भाषाप्रत्युत्थानाऽभिवादनोदकावायवर्षाणि वर्जयेत् प्रागवभृथात् ४
मूलम्
शूद्र सम्प्रवेशसम्भाषाप्रत्युत्थानाऽभिवादनोदकावायवर्षाणि वर्जयेत् प्रागवभृथात् ४
विश्वास-प्रस्तुतिः
परिह्वालं वदति ५
मूलम्
परिह्वालं वदति ५
विश्वास-प्रस्तुतिः
विचक्षणचनसितवतीं वाचम् ६
मूलम्
विचक्षणचनसितवतीं वाचम् ६
विश्वास-प्रस्तुतिः
शालासनाऽस्वप्नौ सन्धिवेलयोः ७
मूलम्
शालासनाऽस्वप्नौ सन्धिवेलयोः ७
विश्वास-प्रस्तुतिः
वेद्यां सुत्यासु ८
मूलम्
वेद्यां सुत्यासु ८
विश्वास-प्रस्तुतिः
अप्रायश्चित्तमपराधे ९
मूलम्
अप्रायश्चित्तमपराधे ९
विश्वास-प्रस्तुतिः
इतरेतरस्मिन्वोपहवमिच्छेरन् १०
मूलम्
इतरेतरस्मिन्वोपहवमिच्छेरन् १०
विश्वास-प्रस्तुतिः
पत्न्यामेकदीक्षी ११
मूलम्
पत्न्यामेकदीक्षी ११
विश्वास-प्रस्तुतिः
दीक्षान्ते प्रायणीयमदित्यै चरुं निर्वपति १२
मूलम्
दीक्षान्ते प्रायणीयमदित्यै चरुं निर्वपति १२
विश्वास-प्रस्तुतिः
आज्यभागाविष्ट्वाऽऽज्येन देवताश्चतस्रो यजति पथ्यास्वस्तिमग्निं सोमं सवितारं च १३
मूलम्
आज्यभागाविष्ट्वाऽऽज्येन देवताश्चतस्रो यजति पथ्यास्वस्तिमग्निं सोमं सवितारं च १३
विश्वास-प्रस्तुतिः
चरुमेक्षणबर्हिर्निदधात्युदयनीयायै १४
मूलम्
चरुमेक्षणबर्हिर्निदधात्युदयनीयायै १४
विश्वास-प्रस्तुतिः
सलेपं चरुं प्रमृष्टं मेक्षणम् १५
मूलम्
सलेपं चरुं प्रमृष्टं मेक्षणम् १५
विश्वास-प्रस्तुतिः
प्रक्षालयति वा चरुम् १६
मूलम्
प्रक्षालयति वा चरुम् १६
विश्वास-प्रस्तुतिः
अनुप्रहरतीतरे १७
मूलम्
अनुप्रहरतीतरे १७
विश्वास-प्रस्तुतिः
त एवर्त्विजः १८
मूलम्
त एवर्त्विजः १८
विश्वास-प्रस्तुतिः
विप्रेतेष्वन्येऽपि १९
मूलम्
विप्रेतेष्वन्येऽपि १९
विश्वास-प्रस्तुतिः
शंय्वन्तं भवति २०
मूलम्
शंय्वन्तं भवति २०
विश्वास-प्रस्तुतिः
अन्तवचने पूर्वं प्राप्तेः २१
मूलम्
अन्तवचने पूर्वं प्राप्तेः २१
विश्वास-प्रस्तुतिः
अविशेषश्रुतेः २२
मूलम्
अविशेषश्रुतेः २२
विश्वास-प्रस्तुतिः
उत्तरं वा प्रकृत्यनुग्रहाऽनुयाजप्रतिषेधाभ्याम् २३
मूलम्
उत्तरं वा प्रकृत्यनुग्रहाऽनुयाजप्रतिषेधाभ्याम् २३
विश्वास-प्रस्तुतिः
ग्रहणादप्रवृत्तिः २४
मूलम्
ग्रहणादप्रवृत्तिः २४
विश्वास-प्रस्तुतिः
सन्त्वराश्रुतेश्च २५
मूलम्
सन्त्वराश्रुतेश्च २५
विश्वास-प्रस्तुतिः
नित्यानुवादोऽनुयाजप्रतिषेधः २६
मूलम्
नित्यानुवादोऽनुयाजप्रतिषेधः २६