विश्वास-प्रस्तुतिः
मुखसम्मितमौदुम्बरं दण्डं प्रयच्छति १
मूलम्
मुखसम्मितमौदुम्बरं दण्डं प्रयच्छति १
विश्वास-प्रस्तुतिः
उच्छ्रयस्वेत्येनमुच्छ्रयति २
मूलम्
उच्छ्रयस्वेत्येनमुच्छ्रयति २
विश्वास-प्रस्तुतिः
तं दक्षिणत उपधत्ते ३
मूलम्
तं दक्षिणत उपधत्ते ३
विश्वास-प्रस्तुतिः
अत्र वा मुष्टिकरणवाग्यमने ४
मूलम्
अत्र वा मुष्टिकरणवाग्यमने ४
विश्वास-प्रस्तुतिः
एवं प्रतिप्रस्थाता पत्नीं तूष्णीं युगपन्मेखलादि ५
मूलम्
एवं प्रतिप्रस्थाता पत्नीं तूष्णीं युगपन्मेखलादि ५
विश्वास-प्रस्तुतिः
योक्त्रेण वा ६
मूलम्
योक्त्रेण वा ६
विश्वास-प्रस्तुतिः
जालं वा शिरसि त्रिपर्यायम् ७
मूलम्
जालं वा शिरसि त्रिपर्यायम् ७
विश्वास-प्रस्तुतिः
पृथुमुखो यज्ञियवृक्षशङ्कुः कण्डूयने ८
मूलम्
पृथुमुखो यज्ञियवृक्षशङ्कुः कण्डूयने ८
विश्वास-प्रस्तुतिः
ओल्लेखनात्करोति मेखलादि चेत् ९
मूलम्
ओल्लेखनात्करोति मेखलादि चेत् ९
विश्वास-प्रस्तुतिः
कृष्णाजिनादि चेद्दण्डान्तम् १०
मूलम्
कृष्णाजिनादि चेद्दण्डान्तम् १०
विश्वास-प्रस्तुतिः
अन्यो दीक्षितोऽयं ब्राह्मण इत्याह त्रिरुच्चैः ११
मूलम्
अन्यो दीक्षितोऽयं ब्राह्मण इत्याह त्रिरुच्चैः ११
विश्वास-प्रस्तुतिः
ब्राह्मण इत्येव वैश्यराजन्ययोरपि श्रुतेः १२
मूलम्
ब्राह्मण इत्येव वैश्यराजन्ययोरपि श्रुतेः १२
विश्वास-प्रस्तुतिः
आऽस्तमयाद्वाचं यच्छति १३
मूलम्
आऽस्तमयाद्वाचं यच्छति १३
विश्वास-प्रस्तुतिः
अस्तमिते दीक्षित वाचं विसृजस्व पत्नि वाचं विसृजस्वेति त्रिराह १४
मूलम्
अस्तमिते दीक्षित वाचं विसृजस्व पत्नि वाचं विसृजस्वेति त्रिराह १४
विश्वास-प्रस्तुतिः
अग्निमभ्यावृत्य व्रतं कृणुतेति वाग्विसर्जनं त्रिरुक्त्वाऽग्निर्ब्रह्मेति च सकृत् १५
मूलम्
अग्निमभ्यावृत्य व्रतं कृणुतेति वाग्विसर्जनं त्रिरुक्त्वाऽग्निर्ब्रह्मेति च सकृत् १५
विश्वास-प्रस्तुतिः
भूर्भुवः स्वरिति वा १६
मूलम्
भूर्भुवः स्वरिति वा १६
विश्वास-प्रस्तुतिः
अत ऊर्ध्वमामुष्टिविसर्गादनस्तमितेऽनुदिते च त्रिराह दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति १७
मूलम्
अत ऊर्ध्वमामुष्टिविसर्गादनस्तमितेऽनुदिते च त्रिराह दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति १७
विश्वास-प्रस्तुतिः
यथोक्तं विसर्जनम् १८
मूलम्
यथोक्तं विसर्जनम् १८
विश्वास-प्रस्तुतिः
व्रतदुघे दोहयति १९
मूलम्
व्रतदुघे दोहयति १९
विश्वास-प्रस्तुतिः
तत्क्षीरव्रतौ भवतः २०
मूलम्
तत्क्षीरव्रतौ भवतः २०
विश्वास-प्रस्तुतिः
प्रथमे व्रते व्रीहियवयोरन्यतरमावपत्युभावेके २१
मूलम्
प्रथमे व्रते व्रीहियवयोरन्यतरमावपत्युभावेके २१
विश्वास-प्रस्तुतिः
तद्व्रतमदोहे २२
मूलम्
तद्व्रतमदोहे २२
विश्वास-प्रस्तुतिः
सर्वौषधं सर्वसुरभिचैके २३
मूलम्
सर्वौषधं सर्वसुरभिचैके २३
विश्वास-प्रस्तुतिः
गार्हपत्ये दीक्षितस्य श्रपणं दक्षिणाग्नौ पत्न्याः २४
मूलम्
गार्हपत्ये दीक्षितस्य श्रपणं दक्षिणाग्नौ पत्न्याः २४
विश्वास-प्रस्तुतिः
यवागू राजन्यस्याऽमिक्षा वैश्यस्य २५
मूलम्
यवागू राजन्यस्याऽमिक्षा वैश्यस्य २५
विश्वास-प्रस्तुतिः
व्रतं प्रयच्छत्यनुत्सिक्तमपररात्रे सायन्दोहमपराह्ण प्रातर्दोहम् २६
मूलम्
व्रतं प्रयच्छत्यनुत्सिक्तमपररात्रे सायन्दोहमपराह्ण प्रातर्दोहम् २६
विश्वास-प्रस्तुतिः
दैवीं धियमिति व्रतायोपस्पर्शनं स्वासने २७
मूलम्
दैवीं धियमिति व्रतायोपस्पर्शनं स्वासने २७
विश्वास-प्रस्तुतिः
ये देवा इति व्रतयत्यमृन्मये २८
मूलम्
ये देवा इति व्रतयत्यमृन्मये २८
विश्वास-प्रस्तुतिः
पत्नी लौहे २९
मूलम्
पत्नी लौहे २९
विश्वास-प्रस्तुतिः
श्वात्राः पीता इति नाभिमालभते ३०
मूलम्
श्वात्राः पीता इति नाभिमालभते ३०
विश्वास-प्रस्तुतिः
मेक्ष्यन् कृष्णविषाणाया लोष्टं किञ्चिद्वाऽदत्त इयं त इति ३१
मूलम्
मेक्ष्यन् कृष्णविषाणाया लोष्टं किञ्चिद्वाऽदत्त इयं त इति ३१
विश्वास-प्रस्तुतिः
अपो मुञ्चामीति मेहति ३२
मूलम्
अपो मुञ्चामीति मेहति ३२
विश्वास-प्रस्तुतिः
पृथिव्या सम्भवेत्यात्तं निदधाति ३३
मूलम्
पृथिव्या सम्भवेत्यात्तं निदधाति ३३
विश्वास-प्रस्तुतिः
अग्ने त्वमित्युक्त्वा स्वपित्यधः प्राङ् दक्षिणतः ३४
मूलम्
अग्ने त्वमित्युक्त्वा स्वपित्यधः प्राङ् दक्षिणतः ३४
विश्वास-प्रस्तुतिः
अग्निमभ्यावृतं विबुद्धमस्वप्स्यन्तं पुनर्मन इति वाचयति ३५
मूलम्
अग्निमभ्यावृतं विबुद्धमस्वप्स्यन्तं पुनर्मन इति वाचयति ३५