विश्वास-प्रस्तुतिः
कुशपवित्रश्चित्पतिर्मेति पावयति सप्तभिः सप्तभिः प्रतिमन्त्रमच्छिद्रे णेति सर्वत्र द्विरुपरि नाभ्युन्मृज्य प्रदक्षिणं सकृदवाङ् १
मूलम्
कुशपवित्रश्चित्पतिर्मेति पावयति सप्तभिः सप्तभिः प्रतिमन्त्रमच्छिद्रे णेति सर्वत्र द्विरुपरि नाभ्युन्मृज्य प्रदक्षिणं सकृदवाङ् १
विश्वास-प्रस्तुतिः
एकेन त्रिभिः सप्तभिर्वा २
मूलम्
एकेन त्रिभिः सप्तभिर्वा २
विश्वास-प्रस्तुतिः
एकशतेन वा राजसूये ३
मूलम्
एकशतेन वा राजसूये ३
विश्वास-प्रस्तुतिः
आ वो देवास इति वाचयति ४
मूलम्
आ वो देवास इति वाचयति ४
विश्वास-प्रस्तुतिः
स्वाहा यज्ञमित्यङ्गुलीरञ्चते नाना हस्तयोः ५
मूलम्
स्वाहा यज्ञमित्यङ्गुलीरञ्चते नाना हस्तयोः ५
विश्वास-प्रस्तुतिः
एवं शेषं प्रतिमन्त्रम् ६
मूलम्
एवं शेषं प्रतिमन्त्रम् ६
विश्वास-प्रस्तुतिः
उत्तमेन मुष्टी कृत्वा स्वाहेत्युक्त्वा वाग्यतः ७
मूलम्
उत्तमेन मुष्टी कृत्वा स्वाहेत्युक्त्वा वाग्यतः ७
विश्वास-प्रस्तुतिः
अङ्गुष्ठौ तत्सहिते चोत्सृजति ८
मूलम्
अङ्गुष्ठौ तत्सहिते चोत्सृजति ८
विश्वास-प्रस्तुतिः
वाग्यतं प्रवेशयत्याहवनीयगार्हपत्यावन्तरेण ९
मूलम्
वाग्यतं प्रवेशयत्याहवनीयगार्हपत्यावन्तरेण ९
विश्वास-प्रस्तुतिः
सोऽस्य सञ्चर आ प्रसवात् १०
मूलम्
सोऽस्य सञ्चर आ प्रसवात् १०
विश्वास-प्रस्तुतिः
एवं प्रतिप्रस्थाता पत्नीमभ्यञ्जनादि तूष्णीम् ११
मूलम्
एवं प्रतिप्रस्थाता पत्नीमभ्यञ्जनादि तूष्णीम् ११
विश्वास-प्रस्तुतिः
अपरेण वा प्रवेशयति १२
मूलम्
अपरेण वा प्रवेशयति १२
विश्वास-प्रस्तुतिः
औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाऽऽकूत्या इति प्रतिमन्त्रम् १३
मूलम्
औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाऽऽकूत्या इति प्रतिमन्त्रम् १३
विश्वास-प्रस्तुतिः
तृतीयं जपत्येव १४
मूलम्
तृतीयं जपत्येव १४
विश्वास-प्रस्तुतिः
पञ्चमं जुह्वां ध्रौवमासिच्य द्विश्च स्थाल्याः स्रुवेण तृतीयं स्रुवमभिपूरयति विश्वो देवस्येति १५
मूलम्
पञ्चमं जुह्वां ध्रौवमासिच्य द्विश्च स्थाल्याः स्रुवेण तृतीयं स्रुवमभिपूरयति विश्वो देवस्येति १५
विश्वास-प्रस्तुतिः
एतामेव वा पूर्णां जुहुयात् १६
मूलम्
एतामेव वा पूर्णां जुहुयात् १६
विश्वास-प्रस्तुतिः
आहवनीयं दक्षिणेन कृष्णाजिने मांससंहिते स्यूतान्ते तर्द्मसु पश्चादासञ्जनवती निदधाति १७
मूलम्
आहवनीयं दक्षिणेन कृष्णाजिने मांससंहिते स्यूतान्ते तर्द्मसु पश्चादासञ्जनवती निदधाति १७
विश्वास-प्रस्तुतिः
एकं चेत्पश्चात्पादद्विगुणम् १८
मूलम्
एकं चेत्पश्चात्पादद्विगुणम् १८
विश्वास-प्रस्तुतिः
दक्षिणं जान्वाच्याऽस्ते पश्चादेनयोः १९
मूलम्
दक्षिणं जान्वाच्याऽस्ते पश्चादेनयोः १९
विश्वास-प्रस्तुतिः
शुक्लकृष्णसन्धिमालभत ऋक्सामयोरिति २०
मूलम्
शुक्लकृष्णसन्धिमालभत ऋक्सामयोरिति २०
विश्वास-प्रस्तुतिः
दक्षिणजानुनाऽरोहति शर्माऽसीति तेनाऽस्तेऽपरेऽन्ते २१
मूलम्
दक्षिणजानुनाऽरोहति शर्माऽसीति तेनाऽस्तेऽपरेऽन्ते २१
विश्वास-प्रस्तुतिः
मेखलां बध्नीते वेणिं त्रिवृतं शणमुञ्जमिश्रामन्तरा वासस ऊर्गसीति २२
मूलम्
मेखलां बध्नीते वेणिं त्रिवृतं शणमुञ्जमिश्रामन्तरा वासस ऊर्गसीति २२
विश्वास-प्रस्तुतिः
नीविं कुरुते सोमस्य नीविरिति २३
मूलम्
नीविं कुरुते सोमस्य नीविरिति २३
विश्वास-प्रस्तुतिः
शिरः प्रोर्णुते विष्णोः शर्मेति २४
मूलम्
शिरः प्रोर्णुते विष्णोः शर्मेति २४
विश्वास-प्रस्तुतिः
कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां दशायां बध्नीते २५
मूलम्
कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां दशायां बध्नीते २५
विश्वास-प्रस्तुतिः
तया कण्डूयनम् २६
मूलम्
तया कण्डूयनम् २६
विश्वास-प्रस्तुतिः
उपस्पृशत्येनया दक्षिणस्या भ्रुव उपरीन्द्र स्य योनिरिति २७
मूलम्
उपस्पृशत्येनया दक्षिणस्या भ्रुव उपरीन्द्र स्य योनिरिति २७
विश्वास-प्रस्तुतिः
भूमौ चोल्लिखति सुसस्या इति २८
मूलम्
भूमौ चोल्लिखति सुसस्या इति २८