विश्वास-प्रस्तुतिः
शालायां राजानं निदधात्याहृतश्चेत् १
मूलम्
शालायां राजानं निदधात्याहृतश्चेत् १
विश्वास-प्रस्तुतिः
प्राक् क्रयादन्नमुपहरन्त्यस्मै हविष्यममांसम् २
मूलम्
प्राक् क्रयादन्नमुपहरन्त्यस्मै हविष्यममांसम् २
विश्वास-प्रस्तुतिः
अग्निं विहृत्य सप्तसु प्रक्रमेष्वर्द्धव्यामे च साऽग्निचित्ये ३
मूलम्
अग्निं विहृत्य सप्तसु प्रक्रमेष्वर्द्धव्यामे च साऽग्निचित्ये ३
विश्वास-प्रस्तुतिः
अपराह्णेऽश्नातीष्टमुपपन्नं वा न वा ४
मूलम्
अपराह्णेऽश्नातीष्टमुपपन्नं वा न वा ४
विश्वास-प्रस्तुतिः
क्रत्वर्थमपदिश्याऽन्यस्मा उत्तरे परिवृत उदकुम्भवत्यप्सुदीक्षा ५
मूलम्
क्रत्वर्थमपदिश्याऽन्यस्मा उत्तरे परिवृत उदकुम्भवत्यप्सुदीक्षा ५
विश्वास-प्रस्तुतिः
नापित उत्तरत उपतिष्ठत नखानि निकृन्तत्यङ्गुष्ठप्रभृतीनि दक्षिणहस्तस्य प्रथमम् ६
मूलम्
नापित उत्तरत उपतिष्ठत नखानि निकृन्तत्यङ्गुष्ठप्रभृतीनि दक्षिणहस्तस्य प्रथमम् ६
विश्वास-प्रस्तुतिः
दक्षिणं गोदानं वितार्योनत्तीमा आप इति ७
मूलम्
दक्षिणं गोदानं वितार्योनत्तीमा आप इति ७
विश्वास-प्रस्तुतिः
यूपवत्कुशतरुणम् ८
मूलम्
यूपवत्कुशतरुणम् ८
विश्वास-प्रस्तुतिः
क्षुरेण चाऽभिनिधाय ९
मूलम्
क्षुरेण चाऽभिनिधाय ९
विश्वास-प्रस्तुतिः
छित्वोदपात्रे प्रास्यति १०
मूलम्
छित्वोदपात्रे प्रास्यति १०
विश्वास-प्रस्तुतिः
एवमुत्तरं तूष्णीम् ११
मूलम्
एवमुत्तरं तूष्णीम् ११
विश्वास-प्रस्तुतिः
नापिताय क्षुरं प्रयच्छति १२
मूलम्
नापिताय क्षुरं प्रयच्छति १२
विश्वास-प्रस्तुतिः
तेन केशश्मश्रु वपति १३
मूलम्
तेन केशश्मश्रु वपति १३
विश्वास-प्रस्तुतिः
आपो अस्मानिति स्नात्वोदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धम् १४
मूलम्
आपो अस्मानिति स्नात्वोदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धम् १४
विश्वास-प्रस्तुतिः
क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य १५
मूलम्
क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य १५
विश्वास-प्रस्तुतिः
स्नातवस्यं वाऽमौत्रधौतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति १६
मूलम्
स्नातवस्यं वाऽमौत्रधौतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति १६
विश्वास-प्रस्तुतिः
न नीविं कुरुते १७
मूलम्
न नीविं कुरुते १७
विश्वास-प्रस्तुतिः
एवं प्रतिप्रस्थाताऽपरस्मिन्परिवृते पत्नीं तूष्णीम् १८
मूलम्
एवं प्रतिप्रस्थाताऽपरस्मिन्परिवृते पत्नीं तूष्णीम् १८
विश्वास-प्रस्तुतिः
वपनं वा १९
मूलम्
वपनं वा १९
विश्वास-प्रस्तुतिः
धेन्वनडुहयोर्नाऽश्नीयात् २०
मूलम्
धेन्वनडुहयोर्नाऽश्नीयात् २०
विश्वास-प्रस्तुतिः
पुरुषधर्मो वाऽसम्भवात् २१
मूलम्
पुरुषधर्मो वाऽसम्भवात् २१
विश्वास-प्रस्तुतिः
अंसलभोजनं वा २२
मूलम्
अंसलभोजनं वा २२
विश्वास-प्रस्तुतिः
प्रपाद्याऽऽग्नावैष्णव एकादशकपालः २३
मूलम्
प्रपाद्याऽऽग्नावैष्णव एकादशकपालः २३
विश्वास-प्रस्तुतिः
आदित्येभ्यो वा चरुः २४
मूलम्
आदित्येभ्यो वा चरुः २४
विश्वास-प्रस्तुतिः
प्राक् समिष्टयजुषः करोति २५
मूलम्
प्राक् समिष्टयजुषः करोति २५
विश्वास-प्रस्तुतिः
समिष्टयजुर्वर्जं वा २६
मूलम्
समिष्टयजुर्वर्जं वा २६
विश्वास-प्रस्तुतिः
उपांशु चरन्ति प्रागग्नीषोमीयात् २७
मूलम्
उपांशु चरन्ति प्रागग्नीषोमीयात् २७
विश्वास-प्रस्तुतिः
वागन्तेन वा दीक्षणीयां नीचैस्तरां नीचैस्तरामितरे २८
मूलम्
वागन्तेन वा दीक्षणीयां नीचैस्तरां नीचैस्तरामितरे २८
विश्वास-प्रस्तुतिः
उपांशूपसदः २९
मूलम्
उपांशूपसदः २९
विश्वास-प्रस्तुतिः
शालां पूर्वेण तिष्ठन्नभ्यङ्क्ते कुशेषु नवनीतेन शीर्ष्णोऽध्यनुलोमं सपादको महीनां पयोऽसीति ३०
मूलम्
शालां पूर्वेण तिष्ठन्नभ्यङ्क्ते कुशेषु नवनीतेन शीर्ष्णोऽध्यनुलोमं सपादको महीनां पयोऽसीति ३०
विश्वास-प्रस्तुतिः
वृत्रस्येत्यक्ष्यावनक्ति त्रैककुदाञ्जनेन ३१
मूलम्
वृत्रस्येत्यक्ष्यावनक्ति त्रैककुदाञ्जनेन ३१
विश्वास-प्रस्तुतिः
अभावेऽन्यत् ३२
मूलम्
अभावेऽन्यत् ३२
विश्वास-प्रस्तुतिः
द्विर्दक्षिणं त्रिरूत्तरं पराक् ३३
मूलम्
द्विर्दक्षिणं त्रिरूत्तरं पराक् ३३
विश्वास-प्रस्तुतिः
सकृत्सकृन्मन्त्रः ३४
मूलम्
सकृत्सकृन्मन्त्रः ३४
विश्वास-प्रस्तुतिः
शरेषीकया साऽग्रया ३५
मूलम्
शरेषीकया साऽग्रया ३५