(अग्निष्टोमः)
विश्वास-प्रस्तुतिः
दर्शपूर्णमासाभ्यामिष्ट्वाऽन्येन यजेतेति श्रुतेः १
मूलम्
दर्शपूर्णमासाभ्यामिष्ट्वाऽन्येन यजेतेति श्रुतेः १
विश्वास-प्रस्तुतिः
सोमेन वोपकॢप्तसोमः २
मूलम्
सोमेन वोपकॢप्तसोमः २
विश्वास-प्रस्तुतिः
आधानस्य सोमप्राधान्यात् ३
मूलम्
आधानस्य सोमप्राधान्यात् ३
विश्वास-प्रस्तुतिः
नाऽविशेषात् ४
मूलम्
नाऽविशेषात् ४
विश्वास-प्रस्तुतिः
वसन्तेऽग्निष्टोमः ५
मूलम्
वसन्तेऽग्निष्टोमः ५
विश्वास-प्रस्तुतिः
ऐन्द्रा ग्नं पुनरुत्सृष्टमालभ्य द्विपुरुषाऽसोमपीथिनः ६
मूलम्
ऐन्द्रा ग्नं पुनरुत्सृष्टमालभ्य द्विपुरुषाऽसोमपीथिनः ६
विश्वास-प्रस्तुतिः
षोडशर्त्विजो ब्रह्मोद्गातृहोत्रध्वर्युब्राह्मणाच्छंसिप्रस्तोतृमैत्रावरुणप्रतिप्रस्थातृपोतृप्रतिहर्त्रच्छावकनेष्ट्रग्नीत्सुब्रह्मण्यग्रावस्तुदुन्नेतॄन् वृणीते ७
मूलम्
षोडशर्त्विजो ब्रह्मोद्गातृहोत्रध्वर्युब्राह्मणाच्छंसिप्रस्तोतृमैत्रावरुणप्रतिप्रस्थातृपोतृप्रतिहर्त्रच्छावकनेष्ट्रग्नीत्सुब्रह्मण्यग्रावस्तुदुन्नेतॄन् वृणीते ७
विश्वास-प्रस्तुतिः
चतुरो वाऽऽद्याँ स्तत्पुरुषा इतरे यथावेदम् ८
मूलम्
चतुरो वाऽऽद्याँ स्तत्पुरुषा इतरे यथावेदम् ८
विश्वास-प्रस्तुतिः
ब्राह्मणाच्छंस्यग्नीत्पोतारो ब्रह्मणः ९
मूलम्
ब्राह्मणाच्छंस्यग्नीत्पोतारो ब्रह्मणः ९
विश्वास-प्रस्तुतिः
देवयजनं जोषयन्ते १०
मूलम्
देवयजनं जोषयन्ते १०
विश्वास-प्रस्तुतिः
उच्चतमं सममविभ्रंशि ११
मूलम्
उच्चतमं सममविभ्रंशि ११
विश्वास-प्रस्तुतिः
अभितो देवयजनमात्रदेशं पुरस्ताद्वर्जम् १२
मूलम्
अभितो देवयजनमात्रदेशं पुरस्ताद्वर्जम् १२
विश्वास-प्रस्तुतिः
प्राक्प्रवणमुदग्वा यत्किञ्ञ्चाऽनूचानर्त्विजः १३
मूलम्
प्राक्प्रवणमुदग्वा यत्किञ्ञ्चाऽनूचानर्त्विजः १३
विश्वास-प्रस्तुतिः
उद्धतौषधिमूलेऽपरेऽन्ते विमितं कुर्वन्ति १४
मूलम्
उद्धतौषधिमूलेऽपरेऽन्ते विमितं कुर्वन्ति १४
विश्वास-प्रस्तुतिः
प्राग्वंशम् १५
मूलम्
प्राग्वंशम् १५
विश्वास-प्रस्तुतिः
पुरस्तादुच्चम् १६
मूलम्
पुरस्तादुच्चम् १६
विश्वास-प्रस्तुतिः
प्रतिदिग्द्वारम् १७
मूलम्
प्रतिदिग्द्वारम् १७
विश्वास-प्रस्तुतिः
उदग्वर्जं वा १८
मूलम्
उदग्वर्जं वा १८
विश्वास-प्रस्तुतिः
शालां वा १९
मूलम्
शालां वा १९
विश्वास-प्रस्तुतिः
परिवृते चोत्तरापरे २०
मूलम्
परिवृते चोत्तरापरे २०
विश्वास-प्रस्तुतिः
दीक्षाप्रभृति शुक्लपक्षे पञ्चमीं सप्तमीं वा प्रसुतः २१
मूलम्
दीक्षाप्रभृति शुक्लपक्षे पञ्चमीं सप्तमीं वा प्रसुतः २१
विश्वास-प्रस्तुतिः
कालातिक्रमे नियतक्रिया प्राप्तकालत्वात् २२
मूलम्
कालातिक्रमे नियतक्रिया प्राप्तकालत्वात् २२
विश्वास-प्रस्तुतिः
न समत्वात् २३
मूलम्
न समत्वात् २३
विश्वास-प्रस्तुतिः
द्वादशदीक्षा अपरिमिता वा २४
मूलम्
द्वादशदीक्षा अपरिमिता वा २४
विश्वास-प्रस्तुतिः
पुण्याहे दीक्षा क्रयः प्रसव उत्थानम् २५
मूलम्
पुण्याहे दीक्षा क्रयः प्रसव उत्थानम् २५
विश्वास-प्रस्तुतिः
प्रक्रमोत्थाने विरोधे २६
मूलम्
प्रक्रमोत्थाने विरोधे २६
विश्वास-प्रस्तुतिः
न वाऽचोदित्वात् २७
मूलम्
न वाऽचोदित्वात् २७
विश्वास-प्रस्तुतिः
दीक्षासु यूपच्छेदनं यूपाहुतिं प्राग्घुत्वा यूपान्ते वाऽग्निं मथित्वा दीक्षितरयाऽग्निहोमप्रतिषेधश्रुतेः २८
मूलम्
दीक्षासु यूपच्छेदनं यूपाहुतिं प्राग्घुत्वा यूपान्ते वाऽग्निं मथित्वा दीक्षितरयाऽग्निहोमप्रतिषेधश्रुतेः २८
विश्वास-प्रस्तुतिः
उच्छ्रयणकाले वोभयं होमच्छेदने सन्निधेः २९
मूलम्
उच्छ्रयणकाले वोभयं होमच्छेदने सन्निधेः २९
विश्वास-प्रस्तुतिः
समारोह्याऽग्नी शालास्तम्भं पूर्वार्धं गृहीत्वाऽरणिपाणिराहेदमगन्मेति ३०
मूलम्
समारोह्याऽग्नी शालास्तम्भं पूर्वार्धं गृहीत्वाऽरणिपाणिराहेदमगन्मेति ३०