विश्वास-प्रस्तुतिः
बर्हिर्हुत्वाऽपो गच्छन्ति हृदयशूलमादाय १
मूलम्
बर्हिर्हुत्वाऽपो गच्छन्ति हृदयशूलमादाय १
विश्वास-प्रस्तुतिः
आहवनीयं वोपस्थाय व्रतादीनि चेत् २
मूलम्
आहवनीयं वोपस्थाय व्रतादीनि चेत् २
विश्वास-प्रस्तुतिः
अभ्यवेत्य शुष्काऽर्द्र सन्धौ हृदयशूलमुपगूहति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मो माऽपो मौषधीरिति च ३
मूलम्
अभ्यवेत्य शुष्काऽर्द्र सन्धौ हृदयशूलमुपगूहति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मो माऽपो मौषधीरिति च ३
विश्वास-प्रस्तुतिः
ग्लायन्नुदपात्रं निषिच्य पूर्वेण यूपं यथोक्तमुपगूहति ४
मूलम्
ग्लायन्नुदपात्रं निषिच्य पूर्वेण यूपं यथोक्तमुपगूहति ४
विश्वास-प्रस्तुतिः
धाम्नो धाम्नः सुमित्रिया न इत्युपस्पृशन्त्यपः ५
मूलम्
धाम्नो धाम्नः सुमित्रिया न इत्युपस्पृशन्त्यपः ५
विश्वास-प्रस्तुतिः
उपगूहनशेषो वा पूर्वः ६
मूलम्
उपगूहनशेषो वा पूर्वः ६
विश्वास-प्रस्तुतिः
अभिमन्त्रणं वोत्तरेण ७
मूलम्
अभिमन्त्रणं वोत्तरेण ७
विश्वास-प्रस्तुतिः
न सोमेऽनूबन्ध्यावर्जम् ८
मूलम्
न सोमेऽनूबन्ध्यावर्जम् ८
विश्वास-प्रस्तुतिः
वरुणप्रघासवत्समिदाधानम् ९
मूलम्
वरुणप्रघासवत्समिदाधानम् ९
विश्वास-प्रस्तुतिः
व्रतं विसृज्याऽपराग्नीनां पूर्वे चतुर्गृहीतं यूपाहुतिवत् १०
मूलम्
व्रतं विसृज्याऽपराग्नीनां पूर्वे चतुर्गृहीतं यूपाहुतिवत् १०
विश्वास-प्रस्तुतिः
स विहारोऽतः ११
मूलम्
स विहारोऽतः ११
विश्वास-प्रस्तुतिः
समारूढनिर्मथिते वा १२
मूलम्
समारूढनिर्मथिते वा १२
विश्वास-प्रस्तुतिः
यथोत्साहं दद्यादस्याम् १३
मूलम्
यथोत्साहं दद्यादस्याम् १३
विश्वास-प्रस्तुतिः
अग्निं प्रणीय सदोहविर्द्धानाऽग्नीध्रहोतृधिष्ण्यान् यथोक्तं गृहीत्वाऽज्यान्याग्नीध्रप्रणयनमग्नीषोमीयदर्शनात् १४
मूलम्
अग्निं प्रणीय सदोहविर्द्धानाऽग्नीध्रहोतृधिष्ण्यान् यथोक्तं गृहीत्वाऽज्यान्याग्नीध्रप्रणयनमग्नीषोमीयदर्शनात् १४
विश्वास-प्रस्तुतिः
न सोमाऽर्थत्वात् १५
मूलम्
न सोमाऽर्थत्वात् १५
विश्वास-प्रस्तुतिः
प्रसङ्गाद्दर्शनम् १६
मूलम्
प्रसङ्गाद्दर्शनम् १६
विश्वास-प्रस्तुतिः
दर्विहोमाः पौर्णमासधर्मा जुहोत्यविशेषात् १७
मूलम्
दर्विहोमाः पौर्णमासधर्मा जुहोत्यविशेषात् १७
विश्वास-प्रस्तुतिः
जुहूदर्शनाच्च १८
मूलम्
जुहूदर्शनाच्च १८
विश्वास-प्रस्तुतिः
तूष्णीमनर्थलुप्ताः १९
मूलम्
तूष्णीमनर्थलुप्ताः १९
विश्वास-प्रस्तुतिः
एकाग्नयः २०
मूलम्
एकाग्नयः २०
विश्वास-प्रस्तुतिः
अप्रयाजा अननुयाजा असामिधेनीकाः २१
मूलम्
अप्रयाजा अननुयाजा असामिधेनीकाः २१
विश्वास-प्रस्तुतिः
अनिगदाः २२
मूलम्
अनिगदाः २२
विश्वास-प्रस्तुतिः
प्रतिनिगद्य होमाः २३
मूलम्
प्रतिनिगद्य होमाः २३
विश्वास-प्रस्तुतिः
स्वाहाकारप्रदानाः २४
मूलम्
स्वाहाकारप्रदानाः २४
विश्वास-प्रस्तुतिः
परतन्त्रोत्पत्तयो जुहोतिमात्राः २५
मूलम्
परतन्त्रोत्पत्तयो जुहोतिमात्राः २५
विश्वास-प्रस्तुतिः
पाकयज्ञेष्ववत्तस्याऽसर्वहोमः २६
मूलम्
पाकयज्ञेष्ववत्तस्याऽसर्वहोमः २६
विश्वास-प्रस्तुतिः
हुत्वा शेषप्राशनम् २७
मूलम्
हुत्वा शेषप्राशनम् २७
विश्वास-प्रस्तुतिः
अग्निहोत्रे तदस्य पाकयज्ञस्येवेति श्रुतेः २८
मूलम्
अग्निहोत्रे तदस्य पाकयज्ञस्येवेति श्रुतेः २८
विश्वास-प्रस्तुतिः
अग्नीषोमीयात्पशुषु २९
मूलम्
अग्नीषोमीयात्पशुषु २९
विश्वास-प्रस्तुतिः
शाखानियोजनम् ३०
मूलम्
शाखानियोजनम् ३०
विश्वास-प्रस्तुतिः
वपां हुत्वा त्रीणि पञ्च सर्वाणि वाऽवद्यति ३१
मूलम्
वपां हुत्वा त्रीणि पञ्च सर्वाणि वाऽवद्यति ३१
विश्वास-प्रस्तुतिः
सर्वाऽभावे शेषात्स्विष्टकृतः ३२
मूलम्
सर्वाऽभावे शेषात्स्विष्टकृतः ३२
विश्वास-प्रस्तुतिः
स्थालीपाकेन सह प्रदानम् ३३
मूलम्
स्थालीपाकेन सह प्रदानम् ३३
विश्वास-प्रस्तुतिः
पूर्णपात्रो दक्षिणा वरो वा वरो वा ३४
मूलम्
पूर्णपात्रो दक्षिणा वरो वा वरो वा ३४