विश्वास-प्रस्तुतिः
ऐन्द्रःप्राण इति पशुं सम्मृशति १
मूलम्
ऐन्द्रःप्राण इति पशुं सम्मृशति १
विश्वास-प्रस्तुतिः
अवदाय वेडां प्राक्प्रदानात् २
मूलम्
अवदाय वेडां प्राक्प्रदानात् २
विश्वास-प्रस्तुतिः
इडामादधाति ३
मूलम्
इडामादधाति ३
विश्वास-प्रस्तुतिः
उपहूतायां वनिष्ठुमग्नीधे ४
मूलम्
उपहूतायां वनिष्ठुमग्नीधे ४
विश्वास-प्रस्तुतिः
अध्यूध्नीं होत्रे ५
मूलम्
अध्यूध्नीं होत्रे ५
विश्वास-प्रस्तुतिः
अवान्तरेडा वा ६
मूलम्
अवान्तरेडा वा ६
विश्वास-प्रस्तुतिः
मार्जिते प्रेष्यति अग्नीदौपयजानङ्गारानाहरोपययष्टरुपसीद ब्रह्मन्प्रस्थास्यामि समिधमाधायाऽग्निमग्नीत्सम्मृड्ढीति ७
मूलम्
मार्जिते प्रेष्यति अग्नीदौपयजानङ्गारानाहरोपययष्टरुपसीद ब्रह्मन्प्रस्थास्यामि समिधमाधायाऽग्निमग्नीत्सम्मृड्ढीति ७
विश्वास-प्रस्तुतिः
शामित्रादङ्गारानाहृत्य वेदिश्रोण्यां निवपत्युत्तरस्याम् ८
मूलम्
शामित्रादङ्गारानाहृत्य वेदिश्रोण्यां निवपत्युत्तरस्याम् ८
विश्वास-प्रस्तुतिः
आग्नीध्रीयाद्वा सोमे होतृधिष्ण्ये ९
मूलम्
आग्नीध्रीयाद्वा सोमे होतृधिष्ण्ये ९
विश्वास-प्रस्तुतिः
प्रतिप्रस्थातोपयजतिगुदतृतीयस्य प्रच्छेदमनुयाजेषु समुद्रं गच्छेति प्रतिमन्त्रम् १०
मूलम्
प्रतिप्रस्थातोपयजतिगुदतृतीयस्य प्रच्छेदमनुयाजेषु समुद्रं गच्छेति प्रतिमन्त्रम् १०
विश्वास-प्रस्तुतिः
प्रतिवषट्कारं हुत्वा मनो म इति मुखोपस्पर्शनम् ११
मूलम्
प्रतिवषट्कारं हुत्वा मनो म इति मुखोपस्पर्शनम् ११
विश्वास-प्रस्तुतिः
अनुयाजान्ते स्वरुं जुहोति दिवं ते धूम इति १२
मूलम्
अनुयाजान्ते स्वरुं जुहोति दिवं ते धूम इति १२
विश्वास-प्रस्तुतिः
पशुदेवतावनस्पतिभ्यां स्रुग्व्यूहनम् १३
मूलम्
पशुदेवतावनस्पतिभ्यां स्रुग्व्यूहनम् १३
विश्वास-प्रस्तुतिः
जाघन्या पत्नीसंयाजनम् १४
मूलम्
जाघन्या पत्नीसंयाजनम् १४
विश्वास-प्रस्तुतिः
उत्तानाया देवानां पत्नीभ्योऽवद्यति १५
मूलम्
उत्तानाया देवानां पत्नीभ्योऽवद्यति १५
विश्वास-प्रस्तुतिः
इडां च १६
मूलम्
इडां च १६
विश्वास-प्रस्तुतिः
परिवर्त्याऽग्नय गृहपतयेऽग्नीधे च १७
मूलम्
परिवर्त्याऽग्नय गृहपतयेऽग्नीधे च १७
विश्वास-प्रस्तुतिः
आज्येन पूर्वे १८
मूलम्
आज्येन पूर्वे १८
विश्वास-प्रस्तुतिः
सर्वा वा जाघन्याऽविशेषात् १९
मूलम्
सर्वा वा जाघन्याऽविशेषात् १९