०८

विश्वास-प्रस्तुतिः

शमितारं शास्ति त्रिः प्रच्यावयतात् त्रिः प्रच्युतस्य हृदयमुत्तमं कुरुताद्यत्वा पृच्छाच्छृतं हविः शमिता३रिति शृतमित्येव ब्रूतान्न शृतं भगवो न शृतं हीति १

मूलम्

त्रिःप्रच्युते हृदयं प्रवृह्योत्तमं करोति २

शूलं चाऽभूमौ ३

मूलम्

शूलं चाऽभूमौ ३

विश्वास-प्रस्तुतिः

जुह्वा पृषदाज्यस्याऽदायोपनिष्क्रम्य पृच्छति शृतं हविः शमिता३रिति त्रिरभिक्रामन् ४

प्रोक्ते तद्देवानामित्याहोपांशु ५

मूलम्

प्रोक्ते तद्देवानामित्याहोपांशु ५

विश्वास-प्रस्तुतिः

सन्ते मन इति हृदयमभिघार्य सर्वम् ६

मूलम्

सन्ते मन इति हृदयमभिघार्य सर्वम् ६

विश्वास-प्रस्तुतिः

पश्वसी वपावद्धृत्वा दक्षिणतः प्रतिप्रस्थाता वेद्यां प्लक्षशाखास्ववद्यति ७

जुहूपभृतोरुपस्तृणीते वसाहोमहवन्यां पात्र्यां च मनोतायै हविषोऽवदीयमानस्याऽनुब्रूहीत्युक्ते स्रुचोरवद्यति यथोक्तं द्विर्द्विः ८

अशेषे गुदतृतीये ९

मूलम्

अशेषे गुदतृतीये ९

विश्वास-प्रस्तुतिः

वपावद्धिरप्यम् १०

मूलम्

वपावद्धिरप्यम् १०

विश्वास-प्रस्तुतिः

रेडसीति वसां गृहीत्वा द्विरभिधार्य प्रयुतमिति पार्श्वेन संसृजत्यसिना वा ११

शेषमिडापात्र्यामासिच्य क्रोडमनस्थीनि च प्रास्यति श्रोणिवर्जम् १२

जाघनीगुदं निधायाऽह इन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहि इति १३

आश्राव्याऽहेन्द्रा ग्निभ्यां छागस्य हविः प्रेष्येति १४

प्रस्थितमिति च प्रसूते १५

मूलम्

प्रस्थितमिति च प्रसूते १५

विश्वास-प्रस्तुतिः

अर्द्धर्चाऽन्तरे याज्यायै वसैकदेशं जुहोति घृतं घृतपावन इति १६

दैवतं हुत्वा प्रदक्षिणमावृत्य जुह्वा पृषदाज्यस्योपघ्नन्नाह वनस्पतयेऽनुब्रूहि इति १७

आश्राव्याऽह वनस्पतये प्रेष्येति १८

मूलम्

आश्राव्याऽह वनस्पतये प्रेष्येति १८

विश्वास-प्रस्तुतिः

हुत्वा समानीय सौविष्टकृतम् १९

मूलम्

हुत्वा समानीय सौविष्टकृतम् १९

विश्वास-प्रस्तुतिः

प्रत्येत्य वा दिशो व्याघारयति वसाशेषेण वाजिनवत् २०

सर्वं जुहोति २१

मूलम्

सर्वं जुहोति २१