०७

विश्वास-प्रस्तुतिः

विशास्ति पशुमन्यः १

मूलम्

विशास्ति पशुमन्यः १

विश्वास-प्रस्तुतिः

ऋत्विजां वैकोऽप्रकॢप्तत्वाच्छामित्रे २

मूलम्

ऋत्विजां वैकोऽप्रकॢप्तत्वाच्छामित्रे २

विश्वास-प्रस्तुतिः

उपगाऽदर्शनाच्च ३

मूलम्

उपगाऽदर्शनाच्च ३

विश्वास-प्रस्तुतिः

विक्रयी त्वन्यः शूद्र संयोगात् ४

मूलम्

विक्रयी त्वन्यः शूद्र संयोगात् ४

विश्वास-प्रस्तुतिः

अङ्गान्यवद्यत्यभञ्जन् ५

मूलम्

अङ्गान्यवद्यत्यभञ्जन् ५

विश्वास-प्रस्तुतिः

हृदयं जिह्वां क्रोडं सव्यसक्थिपूर्वनडकं पार्श्वे यकृद्वृक्कौ गुदमध्यं दक्षिणा श्रोणिरिति जौहवानि ६

मूलम्

हृदयं जिह्वां क्रोडं सव्यसक्थिपूर्वनडकं पार्श्वे यकृद्वृक्कौ गुदमध्यं दक्षिणा श्रोणिरिति जौहवानि ६

विश्वास-प्रस्तुतिः

दक्षिणसक्थिपूर्वनडकं गुदतृतीयाऽणिष्ठं सव्या श्रोणिरित्यौपभृतानि ७

मूलम्

दक्षिणसक्थिपूर्वनडकं गुदतृतीयाऽणिष्ठं सव्या श्रोणिरित्यौपभृतानि ७

विश्वास-प्रस्तुतिः

वर्षिष्ठमुपयड्भ्यः ८

मूलम्

वर्षिष्ठमुपयड्भ्यः ८

विश्वास-प्रस्तुतिः

अवदानकाले प्रभागः ९

मूलम्

अवदानकाले प्रभागः ९

विश्वास-प्रस्तुतिः

वनिष्ठुजाघनी चाऽवद्यति १०

मूलम्

वनिष्ठुजाघनी चाऽवद्यति १०

विश्वास-प्रस्तुतिः

क्लोमप्लीहाऽध्यूध्नीपुरीततं चेच्छन् ११

मूलम्

क्लोमप्लीहाऽध्यूध्नीपुरीततं चेच्छन् ११

विश्वास-प्रस्तुतिः

उदरमेदोऽवशिष्टं गुदे प्रास्यति कृशश्चेत् १२

मूलम्

उदरमेदोऽवशिष्टं गुदे प्रास्यति कृशश्चेत् १२

विश्वास-प्रस्तुतिः

श्वभ्र ऊवध्यमवधाय तस्मिंल्लोहितं रक्षसामिति १३

मूलम्

श्वभ्र ऊवध्यमवधाय तस्मिंल्लोहितं रक्षसामिति १३

विश्वास-प्रस्तुतिः

शूले हृदयं प्रतृद्य शामित्रे श्रपयति १४

मूलम्

शूले हृदयं प्रतृद्य शामित्रे श्रपयति १४

विश्वास-प्रस्तुतिः

पशुं चोखायाम् १५

मूलम्

पशुं चोखायाम् १५

विश्वास-प्रस्तुतिः

पशुदेवतायै पुरोडाश एकादशकपालः १६

मूलम्

पशुदेवतायै पुरोडाश एकादशकपालः १६

विश्वास-प्रस्तुतिः

अग्नीषोमीयो वा विशेषोपदेशात् १७

मूलम्

अग्नीषोमीयो वा विशेषोपदेशात् १७

विश्वास-प्रस्तुतिः

अत्रैव हविष्कृदाह्वानमिज्यैकत्वात् १८

मूलम्

अत्रैव हविष्कृदाह्वानमिज्यैकत्वात् १८

विश्वास-प्रस्तुतिः

अवद्यन्नाह इन्द्रा ग्निभ्यां पुरोडाशस्याऽनुब्रूहि इति १९

मूलम्

अवद्यन्नाह इन्द्रा ग्निभ्यां पुरोडाशस्याऽनुब्रूहि इति १९

विश्वास-प्रस्तुतिः

उपभृति चाऽवद्यति स्विष्टकृद्वत् २०

मूलम्

उपभृति चाऽवद्यति स्विष्टकृद्वत् २०

विश्वास-प्रस्तुतिः

इन्द्रा ग्निभ्यां पुरोडाशम् इति प्रेष्यति २१

मूलम्

इन्द्रा ग्निभ्यां पुरोडाशम् इति प्रेष्यति २१

विश्वास-प्रस्तुतिः

हुत्वा समानीयाज्ऽग्नये प्रदाय २२

मूलम्

हुत्वा समानीयाज्ऽग्नये प्रदाय २२

विश्वास-प्रस्तुतिः

सगुणस्थानेऽगुणः २३

मूलम्

सगुणस्थानेऽगुणः २३

विश्वास-प्रस्तुतिः

सर्वविकार एकत्वात् २४

मूलम्

सर्वविकार एकत्वात् २४

विश्वास-प्रस्तुतिः

यथाऽम्नातं वा वचिभेदात् २५

मूलम्

यथाऽम्नातं वा वचिभेदात् २५

विश्वास-प्रस्तुतिः

इडामवद्यत्यक्रियाऽन्यस्य समानार्थत्वात् २६

मूलम्

इडामवद्यत्यक्रियाऽन्यस्य समानार्थत्वात् २६

विश्वास-प्रस्तुतिः

न चोदनाभेदात् २७

मूलम्

न चोदनाभेदात् २७

विश्वास-प्रस्तुतिः

कालगुणभेदाच्च २८

मूलम्

कालगुणभेदाच्च २८

विश्वास-प्रस्तुतिः

पशुर्दक्षिणा धेनुर्वरो वा मार्जिते २९

मूलम्

पशुर्दक्षिणा धेनुर्वरो वा मार्जिते २९