विश्वास-प्रस्तुतिः
पान्नेजनहस्तां वाचयति नयन्नमस्त आतानेति १
मूलम्

पशोः प्राणाञ्छुन्धति पत्नी २
मूलम्
पशोः प्राणाञ्छुन्धति पत्नी २
विश्वास-प्रस्तुतिः
मुखं नासिके चक्षुषी कर्णौ नाभिं मेढूं पायुं पादान्त्संहत्य वाचं ते शुन्धामीति प्रतिमन्त्रम् ३

शेषेण यजमानश्च शिरःप्रभृत्यनुषिञ्चतो मनस्त इति शिरः ४

यत्ते क्रूरमित्यङ्गानि ५
मूलम्
यत्ते क्रूरमित्यङ्गानि ५
विश्वास-प्रस्तुतिः
शमहोभ्यः इति पश्चात् पशोर्निषिञ्चतः ६
मूलम्
शमहोभ्यः इति पश्चात् पशोर्निषिञ्चतः ६
विश्वास-प्रस्तुतिः
उत्तानं पशुं कृत्वाऽग्रेण नाभिं तृणं निदधात्योषध इति ७

स्वधित इति प्रज्ञातयाऽभिनिधाय छित्वाऽग्रं सव्ये कृत्वा दक्षिणेन मूलमुभयतोऽनक्ति लोहितेन रक्षसामिति ८

निरस्तमित्यपास्यति ९
मूलम्
निरस्तमित्यपास्यति ९
विश्वास-प्रस्तुतिः
इदमहमित्यभितिष्ठति यजमानः १०
मूलम्
इदमहमित्यभितिष्ठति यजमानः १०
विश्वास-प्रस्तुतिः
वपामुत्खिद्य वपाश्रपण्यौ प्रोर्णौति घृतेन द्यावापृथिवीति ११

परिवास्य चात्वालेऽवसिच्य शामित्रे प्रतपति १२

शामित्रैकदेशमाहवनीये प्रास्यत्यग्नीत् १३

तृणाग्रं चाऽध्वर्युर्वायो वेरिति १४
मूलम्
तृणाग्रं चाऽध्वर्युर्वायो वेरिति १४
विश्वास-प्रस्तुतिः
उत्तरतस्तिष्ठन् प्रतप्य वपामन्तरा यूपाऽग्नी हृत्वा दक्षिणतः प्रतिप्रस्थाता श्रपयति परीत्य १५

वपां स्रुवेणाऽभिघारयति अग्निराज्यस्य इति १६

स्तोकेभ्योऽनुवाचयति १७
मूलम्
स्तोकेभ्योऽनुवाचयति १७
विश्वास-प्रस्तुतिः
शृतायां शृता प्रचरेत्याह प्रतिप्रस्थाता १८

स्वाहाकृतिभ्यः प्रेष्यति १९
मूलम्
स्वाहाकृतिभ्यः प्रेष्यति १९
विश्वास-प्रस्तुतिः
हुत्वा वपामभिघारयति पृषदाज्यं ध्रुवां प्रथममाज्यभागौ चेत् २०

अत्राऽज्यभागौ कुर्वन् २१
मूलम्
अत्राऽज्यभागौ कुर्वन् २१
विश्वास-प्रस्तुतिः
वपया चरिष्यन्नुपस्तीर्य हिरण्यमवधाय वपामवद्यन्नाह इन्द्रा ग्निभ्यां छागस्य वपायै मेदसोऽनुब्रूहि इति २२

हिरण्यमवधाय द्विरभिघारणं सोमे २३
मूलम्
हिरण्यमवधाय द्विरभिघारणं सोमे २३
विश्वास-प्रस्तुतिः
आश्राव्याऽह इन्द्रा ग्निभ्यां छागस्य वपां मेदः प्रेष्य इति २४

प्रस्थितमिति च प्रसुते २५
मूलम्
प्रस्थितमिति च प्रसुते २५
विश्वास-प्रस्तुतिः
हुत्वा वपाश्रपण्यावनुप्रास्यति प्राचीं विशाखां प्रतीचीमितरां स्वाहाकृत इति २६

चात्वाले मार्जयन्ते सपत्नीका इदमापः प्रवहत इति २७