विश्वास-प्रस्तुतिः
पर्यग्नयेऽनुवाचयति १
मूलम्
पर्यग्नयेऽनुवाचयति १
विश्वास-प्रस्तुतिः
आहवनीयोल्मुकमादायाऽग्नीत् त्रिः समन्तं पर्येति पश्वाज्यशामित्रदेशयूपचात्वालाऽहवनीयात् २
मूलम्
आहवनीयोल्मुकमादायाऽग्नीत् त्रिः समन्तं पर्येति पश्वाज्यशामित्रदेशयूपचात्वालाऽहवनीयात् २
विश्वास-प्रस्तुतिः
आज्यपशुशामित्रान्वा ३
मूलम्
आज्यपशुशामित्रान्वा ३
विश्वास-प्रस्तुतिः
प्रतिप्रास्योल्मुकं तावत्प्रतिपर्येति ४
मूलम्
प्रतिप्रास्योल्मुकं तावत्प्रतिपर्येति ४
विश्वास-प्रस्तुतिः
पुनरादायोदङ्ग प्रतिपद्यते ५
मूलम्
पुनरादायोदङ्ग प्रतिपद्यते ५
विश्वास-प्रस्तुतिः
पशुश्चाऽन्वक् ६
मूलम्
पशुश्चाऽन्वक् ६
विश्वास-प्रस्तुतिः
प्रतिप्रस्थाताऽन्वारभते एनं वपाश्रपणीभ्यां कार्ष्मर्यमयीभ्यां विशाखाऽविशाखाभ्याम् ७
मूलम्
प्रतिप्रस्थाताऽन्वारभते एनं वपाश्रपणीभ्यां कार्ष्मर्यमयीभ्यां विशाखाऽविशाखाभ्याम् ७
विश्वास-प्रस्तुतिः
तमध्वर्युर्यजमानोऽध्वर्युम् ८
मूलम्
तमध्वर्युर्यजमानोऽध्वर्युम् ८
विश्वास-प्रस्तुतिः
वेदितृणेऽध्वर्युरादायाऽश्राव्याऽह उपप्रेष्य होतर्हव्या देवेभ्य इति ९
मूलम्
वेदितृणेऽध्वर्युरादायाऽश्राव्याऽह उपप्रेष्य होतर्हव्या देवेभ्य इति ९
विश्वास-प्रस्तुतिः
रेवति यजमान इति वाचयति १०
मूलम्
रेवति यजमान इति वाचयति १०
विश्वास-प्रस्तुतिः
शामित्रं नाऽतीयात् ११
मूलम्
शामित्रं नाऽतीयात् ११
विश्वास-प्रस्तुतिः
शामित्रेऽग्निं निदधाति १२
मूलम्
शामित्रेऽग्निं निदधाति १२
विश्वास-प्रस्तुतिः
निर्मन्थ्यमेके १३
मूलम्
निर्मन्थ्यमेके १३
विश्वास-प्रस्तुतिः
पश्चात्तृणमुपास्यति वर्षो वर्षीयसीति १४
मूलम्
पश्चात्तृणमुपास्यति वर्षो वर्षीयसीति १४
विश्वास-प्रस्तुतिः
तस्मिन्नेनं निघ्नन्ति प्रत्यक्शिरसमुदक्पादम् १५
मूलम्
तस्मिन्नेनं निघ्नन्ति प्रत्यक्शिरसमुदक्पादम् १५
विश्वास-प्रस्तुतिः
प्राक्शिरसं वा १६
मूलम्
प्राक्शिरसं वा १६
विश्वास-प्रस्तुतिः
सङ्गृह्य मुखं तमयन्त्यवाश्यमानम् १७
मूलम्
सङ्गृह्य मुखं तमयन्त्यवाश्यमानम् १७
विश्वास-प्रस्तुतिः
वेष्केण वा १८
मूलम्
वेष्केण वा १८
विश्वास-प्रस्तुतिः
एत्याऽहवनीयमावृत्याऽसते १९
मूलम्
एत्याऽहवनीयमावृत्याऽसते १९
विश्वास-प्रस्तुतिः
सञ्ज्ञपयाऽन्वगन्नित्येव ब्रूयात् २०
मूलम्
सञ्ज्ञपयाऽन्वगन्नित्येव ब्रूयात् २०
विश्वास-प्रस्तुतिः
स्वाहा देवेभ्य इति जुहोति २१
मूलम्
स्वाहा देवेभ्य इति जुहोति २१
विश्वास-प्रस्तुतिः
सञ्ज्ञप्तः पशुरिति प्रोक्ते शेतां नु मुहूर्तमित्याहऽसोमे २२
मूलम्
सञ्ज्ञप्तः पशुरिति प्रोक्ते शेतां नु मुहूर्तमित्याहऽसोमे २२
विश्वास-प्रस्तुतिः
देवेभ्यः स्वाहेति जुहोति २३
मूलम्
देवेभ्यः स्वाहेति जुहोति २३
विश्वास-प्रस्तुतिः
न वैते जुहुयात् २४
मूलम्
न वैते जुहुयात् २४
विश्वास-प्रस्तुतिः
वपाश्रपणीभ्यां नियोजनीं चात्वाले प्रास्यति माहिर्भू इति २५
मूलम्
वपाश्रपणीभ्यां नियोजनीं चात्वाले प्रास्यति माहिर्भू इति २५
विश्वास-प्रस्तुतिः
प्रतिप्रस्थातः पत्नीमुदानयेत्याह नेष्टरिति सोमे २६
मूलम्
प्रतिप्रस्थातः पत्नीमुदानयेत्याह नेष्टरिति सोमे २६