विश्वास-प्रस्तुतिः
इध्मप्रैषादि करोत्याप्रयाजेभ्यः १
मूलम्
इध्मप्रैषादि करोत्याप्रयाजेभ्यः १
विश्वास-प्रस्तुतिः
उत्तराघारमाघार्यं पशुं पूर्वं समनक्ति ललाटांऽसश्रोणिषु सन्त इति प्रतिमन्त्रम् २

प्रवृत्त्य होतारमाश्राव्याऽह अग्निर्ह दैवीनां विशां पुरएताऽयं यजमानो मनुष्याणां सुन्वन्निति सुत्ये तयोरस्थूरि गार्हपत्यं दीदयच्छतं हिमाद्वायू राधांसीत् सम्पृञ्चानावसम्पृञ्चानौ तन्व इति ३

मैत्रावरुणाय दण्डं प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छामि इति औदुम्बरं यजमानमुखमात्रम् ४

दीक्षितदण्डं सोमे ५
मूलम्
दीक्षितदण्डं सोमे ५
विश्वास-प्रस्तुतिः
क्रीते वा ६
मूलम्
क्रीते वा ६
विश्वास-प्रस्तुतिः
एकादश प्रयाजा अनुयाजाश्च ७
मूलम्
एकादश प्रयाजा अनुयाजाश्च ७
विश्वास-प्रस्तुतिः
समैत्रावरुणे प्रेष्येत्याह यजस्थाने वचने ८

दशेष्ट्वा प्रयाजानाह शासमाहरेति ९
मूलम्
दशेष्ट्वा प्रयाजानाह शासमाहरेति ९
विश्वास-प्रस्तुतिः
स्वरुमादायाऽक्त्वौभौ जुह्वग्रे ताभ्यां पशोर्ललाटमुपस्पृशति घृतेनाऽक्ताविति १०

स्वरुमवगुह्याऽसिं प्रयच्छन्नाहैषा ते प्रज्ञाताऽश्रिरस्त्विति ११

सादयित्वा स्रुचौ चात्वालमुत्तरेण शामित्रायोल्लिखति १२