विश्वास-प्रस्तुतिः
यपायाऽज्यमानायाऽनुवाचयति १
मूलम्
यपायाऽज्यमानायाऽनुवाचयति १
विश्वास-प्रस्तुतिः
देवस्त्वेत्यनक्ति २
मूलम्
देवस्त्वेत्यनक्ति २
विश्वास-प्रस्तुतिः
चषालमुभयतः ३
मूलम्
चषालमुभयतः ३
विश्वास-प्रस्तुतिः
अक्तं प्रतिमुञ्चति सुपिप्पलाभ्य इति ४
मूलम्
अक्तं प्रतिमुञ्चति सुपिप्पलाभ्य इति ४
विश्वास-प्रस्तुतिः
सोपरमग्निष्ठादेशमवत्वा परिव्ययणदेशं समन्तं परिमृश्याऽध्वर्युर्नाऽवसृजेदापरिव्ययणात् ५
मूलम्
सोपरमग्निष्ठादेशमवत्वा परिव्ययणदेशं समन्तं परिमृश्याऽध्वर्युर्नाऽवसृजेदापरिव्ययणात् ५
विश्वास-प्रस्तुतिः
उच्छ्रीयमाणायाऽनुवाचयति ६
मूलम्
उच्छ्रीयमाणायाऽनुवाचयति ६
विश्वास-प्रस्तुतिः
द्यामग्रेणेत्युच्छ्रयति ७
मूलम्
द्यामग्रेणेत्युच्छ्रयति ७
विश्वास-प्रस्तुतिः
या त इति मिनोत्यग्निष्ठा सम्प्रत्याहवनीयम् ८
मूलम्
या त इति मिनोत्यग्निष्ठा सम्प्रत्याहवनीयम् ८
विश्वास-प्रस्तुतिः
ब्रह्मवनि त्वेति पांसुभिः पर्यूहति ९
मूलम्
ब्रह्मवनि त्वेति पांसुभिः पर्यूहति ९
विश्वास-प्रस्तुतिः
ब्रह्म दृंहेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूहति १०
मूलम्
ब्रह्म दृंहेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूहति १०
विश्वास-प्रस्तुतिः
समं भूमि कृत्वाऽद्भिरुपसिच्य विष्णोः कर्माणीति वाचयति यूपमन्वारब्धम् ११
मूलम्
समं भूमि कृत्वाऽद्भिरुपसिच्य विष्णोः कर्माणीति वाचयति यूपमन्वारब्धम् ११
विश्वास-प्रस्तुतिः
तद्विष्णोरिति चषालमीक्षमाणम् १२
मूलम्
तद्विष्णोरिति चषालमीक्षमाणम् १२
विश्वास-प्रस्तुतिः
परिवीयमाणायाऽनुवाचयति त्रिगुणा त्रिव्यामा कौशी रशना तया नाभिमात्रे त्रिवृतं परिव्ययति परिवीरसीति १३
मूलम्
परिवीयमाणायाऽनुवाचयति त्रिगुणा त्रिव्यामा कौशी रशना तया नाभिमात्रे त्रिवृतं परिव्ययति परिवीरसीति १३
विश्वास-प्रस्तुतिः
संसृज्याऽन्यतरस्यामन्तं प्रवेशयति १४
मूलम्
संसृज्याऽन्यतरस्यामन्तं प्रवेशयति १४
विश्वास-प्रस्तुतिः
यूपशकलमस्यामवगूहत्युत्तरेणाऽग्निष्ठां दिवः सूनुरसीति १५
मूलम्
यूपशकलमस्यामवगूहत्युत्तरेणाऽग्निष्ठां दिवः सूनुरसीति १५
विश्वास-प्रस्तुतिः
बहुषु यथास्वम् १६
मूलम्
बहुषु यथास्वम् १६
विश्वास-प्रस्तुतिः
उपावीरसीति तृणमादाय तेन पशुमुपस्पृशत्युप देवानिति १७
मूलम्
उपावीरसीति तृणमादाय तेन पशुमुपस्पृशत्युप देवानिति १७
विश्वास-प्रस्तुतिः
छागं मन्त्राऽम्नानात् १८
मूलम्
छागं मन्त्राऽम्नानात् १८
विश्वास-प्रस्तुतिः
पन्नदव्यङ्गम् १९
मूलम्
पन्नदव्यङ्गम् १९
विश्वास-प्रस्तुतिः
यथामन्त्रवर्णं प्रोक्षणे २०
मूलम्
यथामन्त्रवर्णं प्रोक्षणे २०
विश्वास-प्रस्तुतिः
नाऽचोदितत्वात् २१
मूलम्
नाऽचोदितत्वात् २१
विश्वास-प्रस्तुतिः
अग्निं मन्थत्याहोमात्करोति २२
मूलम्
अग्निं मन्थत्याहोमात्करोति २२
विश्वास-प्रस्तुतिः
उपाकरणमन्थने वा २३
मूलम्
उपाकरणमन्थने वा २३
विश्वास-प्रस्तुतिः
द्विगुणरशनया द्विव्यामया कौश्या पाशं कृत्वाऽन्तरा शृङ्गमभिदक्षिणं बध्नात्यृतस्य त्वेति २४
मूलम्
द्विगुणरशनया द्विव्यामया कौश्या पाशं कृत्वाऽन्तरा शृङ्गमभिदक्षिणं बध्नात्यृतस्य त्वेति २४
विश्वास-प्रस्तुतिः
देवस्य त्वेति यूपे २५
मूलम्
देवस्य त्वेति यूपे २५
विश्वास-प्रस्तुतिः
ऐन्द्रा ग्नः सौर्यः प्राज्यापत्यो वा यमिच्छेत् २६
मूलम्
ऐन्द्रा ग्नः सौर्यः प्राज्यापत्यो वा यमिच्छेत् २६
विश्वास-प्रस्तुतिः
अद्भ्यस्त्वेति पशुं प्रोक्षणीभिः प्रोक्षति २७
मूलम्
अद्भ्यस्त्वेति पशुं प्रोक्षणीभिः प्रोक्षति २७
विश्वास-प्रस्तुतिः
अपां पेरुरित्यारय उपगृह्णाति २८
मूलम्
अपां पेरुरित्यारय उपगृह्णाति २८
विश्वास-प्रस्तुतिः
आपो देवीरित्यधस्तादुपोक्षति २९
मूलम्
आपो देवीरित्यधस्तादुपोक्षति २९