विश्वास-प्रस्तुतिः
वेदिं करोति १
मूलम्
वेदिं करोति १
विश्वास-प्रस्तुतिः
वरुणप्रघासवत्स्फ्याद्याग्निनिधानात् २
मूलम्
वरुणप्रघासवत्स्फ्याद्याग्निनिधानात् २
विश्वास-प्रस्तुतिः
एकमिध्मेन प्रणयति ३
मूलम्
एकमिध्मेन प्रणयति ३
विश्वास-प्रस्तुतिः
व्रतोपायनप्रणीताऽऽज्यभागभागाऽवदानपूर्णपात्रविष्णुक्रमान् कुर्याद्धविर्यज्ञविधे ४
मूलम्
व्रतोपायनप्रणीताऽऽज्यभागभागाऽवदानपूर्णपात्रविष्णुक्रमान् कुर्याद्धविर्यज्ञविधे ४
विश्वास-प्रस्तुतिः
परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाधिश्रयणानि कृत्वोत्तरपरिग्रहादि करोत्याऽज्यासादनात् ५
मूलम्
परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाधिश्रयणानि कृत्वोत्तरपरिग्रहादि करोत्याऽज्यासादनात् ५
विश्वास-प्रस्तुतिः
सपृषदाज्यमाज्यग्रहणम् ६
मूलम्
सपृषदाज्यमाज्यग्रहणम् ६
विश्वास-प्रस्तुतिः
बर्हिषि प्लक्षशाखा स्तृणाति ७
मूलम्
बर्हिषि प्लक्षशाखा स्तृणाति ७
विश्वास-प्रस्तुतिः
देवस्य त्वेत्यभ्रिमादाय यूपावटं परिलिखति इदमहमित्याहवनीयस्य पुरस्तादन्तर्वेद्यर्द्धम् ८
मूलम्
देवस्य त्वेत्यभ्रिमादाय यूपावटं परिलिखति इदमहमित्याहवनीयस्य पुरस्तादन्तर्वेद्यर्द्धम् ८
विश्वास-प्रस्तुतिः
उपरसम्मितं खनति ९
मूलम्
उपरसम्मितं खनति ९
विश्वास-प्रस्तुतिः
प्राचः पांसूनुद्वपति १०
मूलम्
प्राचः पांसूनुद्वपति १०
विश्वास-प्रस्तुतिः
तदग्रेण यूपं प्राञ्चं निदधाति ११
मूलम्
तदग्रेण यूपं प्राञ्चं निदधाति ११
विश्वास-प्रस्तुतिः
कुशमुष्टिमुपरि तस्मिन् १२
मूलम्
कुशमुष्टिमुपरि तस्मिन् १२
विश्वास-प्रस्तुतिः
प्रथमशकलं च १३
मूलम्
प्रथमशकलं च १३
विश्वास-प्रस्तुतिः
अग्रमुत्तरेण चषालम् १४
मूलम्
अग्रमुत्तरेण चषालम् १४
विश्वास-प्रस्तुतिः
यवोऽसीत्यप्सु यवानोप्य प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रम् १५
मूलम्
यवोऽसीत्यप्सु यवानोप्य प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रम् १५
विश्वास-प्रस्तुतिः
प्रोक्षामीति सर्वत्र साकाङ्क्षत्वात् १६
मूलम्
प्रोक्षामीति सर्वत्र साकाङ्क्षत्वात् १६
विश्वास-प्रस्तुतिः
अवटे शेषमासिञ्चति शुन्धन्तामिति १७
मूलम्
अवटे शेषमासिञ्चति शुन्धन्तामिति १७
विश्वास-प्रस्तुतिः
बर्हिषि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति १८
मूलम्
बर्हिषि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति १८
विश्वास-प्रस्तुतिः
प्रथमशकलं चाऽग्रेणीरसीति १९
मूलम्
प्रथमशकलं चाऽग्रेणीरसीति १९
विश्वास-प्रस्तुतिः
स्रुवेणाऽवटे जुहोति तूष्णीम् २०
मूलम्
स्रुवेणाऽवटे जुहोति तूष्णीम् २०
विश्वास-प्रस्तुतिः
पुरस्तात्परिक्रम्याऽध्वर्युर्यजमानो वा यूपमनक्त्युदङ् उपविश्य २१
मूलम्
पुरस्तात्परिक्रम्याऽध्वर्युर्यजमानो वा यूपमनक्त्युदङ् उपविश्य २१