०१

(निरूढपशुबन्धनिरूपणम्)

विश्वास-प्रस्तुतिः

पश्विज्या संवत्सरे प्रावृषि १

मूलम्

पश्विज्या संवत्सरे प्रावृषि १

विश्वास-प्रस्तुतिः

आवृत्तिमुखयोर्वा २

मूलम्

आवृत्तिमुखयोर्वा २

विश्वास-प्रस्तुतिः

गृहेषु ३

मूलम्

गृहेषु ३

विश्वास-प्रस्तुतिः

यूपाहुतिं जुहोति चतुर्गृहीतं स्रुवेण वोरु विष्णविति ४

मूलम्

यूपाहुतिं जुहोति चतुर्गृहीतं स्रुवेण वोरु विष्णविति ४

विश्वास-प्रस्तुतिः

आज्यशेषमादाय सतक्षा गच्छति यूपम् ५

मूलम्

आज्यशेषमादाय सतक्षा गच्छति यूपम् ५

विश्वास-प्रस्तुतिः

अभिमृशत्यत्यन्यानिति ६

मूलम्

अभिमृशत्यत्यन्यानिति ६

विश्वास-प्रस्तुतिः

प्राङ् तिष्ठन्नभिमन्त्रयते वा ७

मूलम्

प्राङ् तिष्ठन्नभिमन्त्रयते वा ७

विश्वास-प्रस्तुतिः

पालाशं बहुलपर्णमशुष्काग्रमूर्ध्वशकलशाखं मध्याग्रोपनतमव्रणम् ८

मूलम्

पालाशं बहुलपर्णमशुष्काग्रमूर्ध्वशकलशाखं मध्याग्रोपनतमव्रणम् ८

विश्वास-प्रस्तुतिः

अभावे खदिरबिल्वरौहितकात् ९

मूलम्

अभावे खदिरबिल्वरौहितकात् ९

विश्वास-प्रस्तुतिः

खदिराऽभावे सोम इतरान् १०

मूलम्

खदिराऽभावे सोम इतरान् १०

विश्वास-प्रस्तुतिः

स्रुवेणोपस्पृशति विष्णवे त्वेति ११

मूलम्

स्रुवेणोपस्पृशति विष्णवे त्वेति ११

विश्वास-प्रस्तुतिः

ओषध इति कुशतरुणं तिरस्कृत्य स्वधित इति परशुना प्रहरति १२

मूलम्

ओषध इति कुशतरुणं तिरस्कृत्य स्वधित इति परशुना प्रहरति १२

विश्वास-प्रस्तुतिः

प्रथमशकलं निदधाति १३

मूलम्

प्रथमशकलं निदधाति १३

विश्वास-प्रस्तुतिः

अनक्षस्तम्भं वृश्चति १४

मूलम्

अनक्षस्तम्भं वृश्चति १४

विश्वास-प्रस्तुतिः

एकजम् १५

मूलम्

एकजम् १५

विश्वास-प्रस्तुतिः

द्यां मा लेखीरिति पतन्तमभिमन्त्रयते १६

मूलम्

द्यां मा लेखीरिति पतन्तमभिमन्त्रयते १६

विश्वास-प्रस्तुतिः

न दक्षिणा पतेत् १७

मूलम्

न दक्षिणा पतेत् १७

विश्वास-प्रस्तुतिः

अयं हि त्वेति शोधनम् १८

मूलम्

अयं हि त्वेति शोधनम् १८

विश्वास-प्रस्तुतिः

अभिमन्त्रणशेषो वाऽविशेषोपदेशात् १९

मूलम्

अभिमन्त्रणशेषो वाऽविशेषोपदेशात् १९

विश्वास-प्रस्तुतिः

अतस्त्वमित्याव्रश्चने जुहोति २०

मूलम्

अतस्त्वमित्याव्रश्चने जुहोति २०

विश्वास-प्रस्तुतिः

यूपे वा तत्संस्कारात् २१

मूलम्

यूपे वा तत्संस्कारात् २१

विश्वास-प्रस्तुतिः

स्थाणो श्रुतेश्च २२

मूलम्

स्थाणो श्रुतेश्च २२

विश्वास-प्रस्तुतिः

परिवास्याऽच्छेदनं पुनः २३

मूलम्

परिवास्याऽच्छेदनं पुनः २३

विश्वास-प्रस्तुतिः

त्र्यरत्निश्चतुरत्निर्वा २४

मूलम्

त्र्यरत्निश्चतुरत्निर्वा २४

विश्वास-प्रस्तुतिः

एकारत्निप्रभृतीनेके २५

मूलम्

एकारत्निप्रभृतीनेके २५

विश्वास-प्रस्तुतिः

अष्टाश्रिं करोत्युपरवर्जम् २६

मूलम्

अष्टाश्रिं करोत्युपरवर्जम् २६

विश्वास-प्रस्तुतिः

अग्राच्चषालं पृथमात्रमष्टाश्रि मध्यसङ्गृहीतम् २७

मूलम्

अग्राच्चषालं पृथमात्रमष्टाश्रि मध्यसङ्गृहीतम् २७

विश्वास-प्रस्तुतिः

द्व्यङ्गुलं त्र्यङ्गुलं वा तर्द्माऽतिक्रान्तं यूपस्य २८

मूलम्

द्व्यङ्गुलं त्र्यङ्गुलं वा तर्द्माऽतिक्रान्तं यूपस्य २८

विश्वास-प्रस्तुतिः

पञ्चारत्निः पञ्चदशपर्यन्तः सोमे दशसप्तचतुर्दशवर्जमपरिमितो वा २९

मूलम्

पञ्चारत्निः पञ्चदशपर्यन्तः सोमे दशसप्तचतुर्दशवर्जमपरिमितो वा २९

विश्वास-प्रस्तुतिः

सप्तदश वाजपेये ३०

मूलम्

सप्तदश वाजपेये ३०

विश्वास-प्रस्तुतिः

एकविंशतिरश्वमेधे ३१

मूलम्

एकविंशतिरश्वमेधे ३१

विश्वास-प्रस्तुतिः

यथाकायं स्थविमा ३२

मूलम्

यथाकायं स्थविमा ३२

विश्वास-प्रस्तुतिः

वेदिं करिष्यन् षड्ढोतारं पञ्चगहीतं मनसाऽनुद्रुत्य जुहोत्येकामाहुतिं पञ्च वा द्यौष्पृष्ठमन्तरिक्षमात्माङ्गैर्यज्ञं पृथिवीं शरीरैर्वाचस्पतेऽच्छिद्र या वाचाऽच्छिद्र या जुह्वा दिवि देवा वृधं होत्रामैरयन्त्स्वाहेति ३३