विश्वास-प्रस्तुतिः
हुत्वा स्थाल्याः स्रुवेणोपजुहोति ॥ अग्निरन्नादोऽन्नपतिरन्नाद्यमस्मिन्यज्ञे मयि दधातु स्वाहा सोमो राजा राजपती राज्यमस्मिन्यज्ञे मयि दधातु स्वाहा वरुणः सम्राट् सम्राट्पतिः साम्राज्यमस्मिन्यज्ञे मयि दधातु स्वाहा मित्रः क्षत्रं क्षत्रपतिः क्षत्रमस्मिन्यज्ञे मयि दधातु स्वाहा इन्द्रो बलं बलपितिर्ब्रह्मवर्चसमस्मिन्यज्ञे मयि दधातु स्वाहा बृहस्पतिर्ब्रह्म ब्रह्मपतिर्ब्रह्मवर्चसमस्मिन्यज्ञे मयि दधातु स्वाहा सविता राष्ट्रं राष्ट्रपती राष्ट्रमस्मिन्यज्ञे मयि दधातु स्वाहा पूषा भगं भगपतिर्भगमस्मिन्यज्ञे मयि दधातु स्वाहा सरस्वती पुष्टिं पुष्टिपतिः पुष्टिमस्मि ॐ यज्ञे मयि दधातु स्वाहा त्वष्टा रूपाणां रूपकृद्रुपपती रूपेण पशूनस्मिन्यज्ञे मयि दधातु स्वाहेति १
मूलम्

विराजौ संयाज्ये २
मूलम्
विराजौ संयाज्ये २
विश्वास-प्रस्तुतिः
सहस्रवत्यौ वानू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु । द्युअदग्ने सुवीर्ये वर्षिष्ठमनुपक्षितम् ॥ अत नो ब्रह्मन्नविष उक्थेषु देवहूतमः । शं नः शोचा मरुद्वृधोऽग्ने ३

दश दक्षिणा सहस्रं वा सहस्रं वा ४
मूलम्
दश दक्षिणा सहस्रं वा सहस्रं वा ४