विश्वास-प्रस्तुतिः
मित्रविन्देष्टिः मित्रविन्दा श्रीराष्ट्रमित्राऽयुष्कामस्य १
मूलम्

दशहविः २
मूलम्
दशहविः २
विश्वास-प्रस्तुतिः
आग्नेयः सौम्यश्चरुर्वारुणो दशकपालश्चरुर्वा यावो मैत्रश्चरुरैन्द्र एकादशकपालो बार्हस्पत्यश्चरुः सावित्रो द्वादशकपालोऽष्टाकपालो वा पौष्णश्चरुः सारस्वतश्चरुस्त्वाष्ट्रो दशकपाल एकं प्रदानम् ३

समस्याऽनुवाचनम् ४
मूलम्
समस्याऽनुवाचनम् ४
विश्वास-प्रस्तुतिः
यजेति च ५
मूलम्
यजेति च ५
विश्वास-प्रस्तुतिः
प्रैषाश्च ६
मूलम्
प्रैषाश्च ६
विश्वास-प्रस्तुतिः
उत्तरे निगमा यथेष्टं जोषणाश्रुतेः ७
मूलम्
उत्तरे निगमा यथेष्टं जोषणाश्रुतेः ७
विश्वास-प्रस्तुतिः
अनुलोमा वा चोदनागुणत्वात् ८
मूलम्
अनुलोमा वा चोदनागुणत्वात् ८
विश्वास-प्रस्तुतिः
पञ्चदश सामिधेन्यः । पुष्टिमन्तावाज्यभागौअग्निना रयिमश्नवत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ९

गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः । सुमित्रः सोम नो भवेति १०

हविषोऽनुवाक्या अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपाणि समनक्तु यज्ञैरिति ११

याज्या त्वष्टा रूपाणि ददती सरस्वती पूषा भगं सविता मे ददातु । बृहस्पतिर्दददिन्द्रो बलं मे मित्रः क्षत्रं वरुणः सोमोऽग्निरिति १२