विश्वास-प्रस्तुतिः
प्रत्यगतीत्य जुहोति १
मूलम्
प्रत्यगतीत्य जुहोति १
विश्वास-प्रस्तुतिः
हविर्भिश्चरन्तः प्रतिविपर्यन्ति २
मूलम्
हविर्भिश्चरन्तः प्रतिविपर्यन्ति २
विश्वास-प्रस्तुतिः
सर्वेभ्योऽवद्यति यथापूवं सोमवद्भ्यो मध्यात्सकृत्सकृत्सहावदधाति ३
मूलम्
सर्वेभ्योऽवद्यति यथापूवं सोमवद्भ्यो मध्यात्सकृत्सकृत्सहावदधाति ३
विश्वास-प्रस्तुतिः
द्विरभिघारणमनतिक्रमणं च ४
मूलम्
द्विरभिघारणमनतिक्रमणं च ४
विश्वास-प्रस्तुतिः
सोमाय वा पितृमते ५
मूलम्
सोमाय वा पितृमते ५
विश्वास-प्रस्तुतिः
एवं बर्हिषद्भ्य उत्तरतो धानामन्थपुरोडाशानाम् ६
मूलम्
एवं बर्हिषद्भ्य उत्तरतो धानामन्थपुरोडाशानाम् ६
विश्वास-प्रस्तुतिः
अग्निष्वात्तेभ्यो दक्षिणतो मन्थपुरोडाशधानानाम् ७
मूलम्
अग्निष्वात्तेभ्यो दक्षिणतो मन्थपुरोडाशधानानाम् ७
विश्वास-प्रस्तुतिः
पुरस्तादग्नये कव्यवाहनाय यथापूर्वं स स्विष्टकृत् ८
मूलम्
पुरस्तादग्नये कव्यवाहनाय यथापूर्वं स स्विष्टकृत् ८
विश्वास-प्रस्तुतिः
ॐ स्वधेत्यस्तु स्वधेति वाऽश्रुतप्रत्याश्रुते स्वधा नम इति वषट्कारः ९
मूलम्
ॐ स्वधेत्यस्तु स्वधेति वाऽश्रुतप्रत्याश्रुते स्वधा नम इति वषट्कारः ९
विश्वास-प्रस्तुतिः
मन्थमुपहूय होताऽध्वर्युर्ब्रह्माऽग्नीदवघ्रायं निदधाति १०
मूलम्
मन्थमुपहूय होताऽध्वर्युर्ब्रह्माऽग्नीदवघ्रायं निदधाति १०
विश्वास-प्रस्तुतिः
प्राशित्रमवदाय इडां वा सर्वे प्राश्नन्ति ११
मूलम्
प्राशित्रमवदाय इडां वा सर्वे प्राश्नन्ति ११
विश्वास-प्रस्तुतिः
वेदिं त्रिः परिषिञ्चत्युदपात्रेणाऽध्वर्युर्यजमानो वा १२
मूलम्
वेदिं त्रिः परिषिञ्चत्युदपात्रेणाऽध्वर्युर्यजमानो वा १२
विश्वास-प्रस्तुतिः
स्रक्तिषु पित्रवनेजनं परिषिच्य पूर्ववदुत्तरापरस्यां प्रथमम् १३
मूलम्
स्रक्तिषु पित्रवनेजनं परिषिच्य पूर्ववदुत्तरापरस्यां प्रथमम् १३
विश्वास-प्रस्तुतिः
सव्ये समवदाय सर्वेभ्यो यथावनिक्तं पिण्डान्ददात्यसावेतत्त इति १४
मूलम्
सव्ये समवदाय सर्वेभ्यो यथावनिक्तं पिण्डान्ददात्यसावेतत्त इति १४
विश्वास-प्रस्तुतिः
उत्तरपूर्वस्यां पाणी निमृष्टेऽत्र पितर इति १५
मूलम्
उत्तरपूर्वस्यां पाणी निमृष्टेऽत्र पितर इति १५
विश्वास-प्रस्तुतिः
यज्ञोपवीतिनः सर्वे निष्क्रम्योदञ्चोऽक्षन्नमीमदन्तेत्याहवनीयमुपतिष्ठते १६
मूलम्
यज्ञोपवीतिनः सर्वे निष्क्रम्योदञ्चोऽक्षन्नमीमदन्तेत्याहवनीयमुपतिष्ठते १६
विश्वास-प्रस्तुतिः
मनो न्वाह्वामह इति गार्हपत्यं तिसृभिः १७
मूलम्
मनो न्वाह्वामह इति गार्हपत्यं तिसृभिः १७
विश्वास-प्रस्तुतिः
प्राचीनावीती प्रविश्य अमीमदन्तेति दाता जपति १८
मूलम्
प्राचीनावीती प्रविश्य अमीमदन्तेति दाता जपति १८
विश्वास-प्रस्तुतिः
अवनेज्य पूर्ववत्प्रदक्षिणम् १९
मूलम्
अवनेज्य पूर्ववत्प्रदक्षिणम् १९
विश्वास-प्रस्तुतिः
नीवीं विस्रंस्य नमो व इत्यञ्जलिं करोति षड् वा नमस्कारान् २०
मूलम्
नीवीं विस्रंस्य नमो व इत्यञ्जलिं करोति षड् वा नमस्कारान् २०
विश्वास-प्रस्तुतिः
गृहान्नः पितरो दत्त इति च २१
मूलम्
गृहान्नः पितरो दत्त इति च २१
विश्वास-प्रस्तुतिः
ब्रह्माऽऽमन्त्रणादि प्राक्स्रुग्व्यूहनात्प्रयाजवत् २२
मूलम्
ब्रह्माऽऽमन्त्रणादि प्राक्स्रुग्व्यूहनात्प्रयाजवत् २२
विश्वास-प्रस्तुतिः
यज्ञोपवीतिविपर्ययम् २३
मूलम्
यज्ञोपवीतिविपर्ययम् २३
विश्वास-प्रस्तुतिः
न प्रस्तरमादत्ते २४
मूलम्
न प्रस्तरमादत्ते २४
विश्वास-प्रस्तुतिः
अनुप्रहरेत्युक्ते न किञ्चनाऽनुप्रहरति २५
मूलम्
अनुप्रहरेत्युक्ते न किञ्चनाऽनुप्रहरति २५
विश्वास-प्रस्तुतिः
तूष्णीमात्मानं संस्पृशति २६
मूलम्
तूष्णीमात्मानं संस्पृशति २६
विश्वास-प्रस्तुतिः
उपस्पृश्य परिधीन्नाऽनुप्रहरति २७
मूलम्
उपस्पृश्य परिधीन्नाऽनुप्रहरति २७
विश्वास-प्रस्तुतिः
शंय्वन्तं भवति २८
मूलम्
शंय्वन्तं भवति २८
विश्वास-प्रस्तुतिः
बर्हिः परिध्यग्नौ प्रास्यति २९
मूलम्
बर्हिः परिध्यग्नौ प्रास्यति २९
विश्वास-प्रस्तुतिः
हविरुच्छिष्टं च ३०
मूलम्
हविरुच्छिष्टं च ३०
विश्वास-प्रस्तुतिः
अप्सु प्राश्यं वा ३१
मूलम्
अप्सु प्राश्यं वा ३१