०८

विश्वास-प्रस्तुतिः

पित्र्येष्टिः पितृयज्ञ उपांशु चरणम् १

मूलम्

पित्र्येष्टिः पितृयज्ञ उपांशु चरणम् १

विश्वास-प्रस्तुतिः

पुरस्तादुपचारः २

मूलम्

पुरस्तादुपचारः २

विश्वास-प्रस्तुतिः

ब्रह्मयजमानयोश्च ३

मूलम्

ब्रह्मयजमानयोश्च ३

विश्वास-प्रस्तुतिः

पूर्ववद्वा ४

मूलम्

पूर्ववद्वा ४

विश्वास-प्रस्तुतिः

अपत्नीकः ५

मूलम्

अपत्नीकः ५

विश्वास-प्रस्तुतिः

दक्षिणाग्निराहवनीयवत् ६

मूलम्

दक्षिणाग्निराहवनीयवत् ६

विश्वास-प्रस्तुतिः

पूर्वेणाऽहवनीयं प्रणीताः परिहरति ७

मूलम्

पूर्वेणाऽहवनीयं प्रणीताः परिहरति ७

विश्वास-प्रस्तुतिः

अर्थवच्च ८

मूलम्

अर्थवच्च ८

विश्वास-प्रस्तुतिः

पितृभ्यः सोमवद्भ्यः षट्कपालः ९

मूलम्

पितृभ्यः सोमवद्भ्यः षट्कपालः ९

विश्वास-प्रस्तुतिः

सोमाय वा पितृमते १०

मूलम्

सोमाय वा पितृमते १०

विश्वास-प्रस्तुतिः

पितृभ्यो बर्हिषद्भ्यो धानाः ११

मूलम्

पितृभ्यो बर्हिषद्भ्यो धानाः ११

विश्वास-प्रस्तुतिः

पितृभ्योऽग्निष्वात्तेभ्यो मन्थः १२

मूलम्

पितृभ्योऽग्निष्वात्तेभ्यो मन्थः १२

विश्वास-प्रस्तुतिः

चतुर्वा ग्रहणम् १३

मूलम्

चतुर्वा ग्रहणम् १३

विश्वास-प्रस्तुतिः

गार्हपत्यस्य पुरस्तादवहननपेषणे १४

मूलम्

गार्हपत्यस्य पुरस्तादवहननपेषणे १४

विश्वास-प्रस्तुतिः

दक्षिणार्द्धे कपालोपधानम् १५

मूलम्

दक्षिणार्द्धे कपालोपधानम् १५

विश्वास-प्रस्तुतिः

धानाभर्जनं दक्षिणाग्नौ १६

मूलम्

धानाभर्जनं दक्षिणाग्नौ १६

विश्वास-प्रस्तुतिः

श्रपणविपर्यासेऽपि धर्माः १७

मूलम्

श्रपणविपर्यासेऽपि धर्माः १७

विश्वास-प्रस्तुतिः

अभिमृश्याऽर्धाः पिष्ट्वा निवान्या दुग्धे सकृन्मथित एकशलाकया मन्थः १८

मूलम्

अभिमृश्याऽर्धाः पिष्ट्वा निवान्या दुग्धे सकृन्मथित एकशलाकया मन्थः १८

विश्वास-प्रस्तुतिः

अग्रहणं मन्थस्य ततोऽर्द्धाः पिंषन्तीति श्रुतेः १९

मूलम्

अग्रहणं मन्थस्य ततोऽर्द्धाः पिंषन्तीति श्रुतेः १९

विश्वास-प्रस्तुतिः

ग्रहणं वा चोदितत्वात् २०

मूलम्

ग्रहणं वा चोदितत्वात् २०

विश्वास-प्रस्तुतिः

दक्षिणेन दक्षिणाग्निं परिवृतमुदग्द्वारं तन्मध्ये वेदिं करोत्यवान्तरदिक्स्रक्तिमाप्यान्ते २१

मूलम्

दक्षिणेन दक्षिणाग्निं परिवृतमुदग्द्वारं तन्मध्ये वेदिं करोत्यवान्तरदिक्स्रक्तिमाप्यान्ते २१

विश्वास-प्रस्तुतिः

दक्षिणाग्निं मध्येऽस्याः करोति २२

मूलम्

दक्षिणाग्निं मध्येऽस्याः करोति २२

विश्वास-प्रस्तुतिः

प्रणीताऽनुहरणं ब्रह्मयजमानौ चाऽनुगच्छतः २३

मूलम्

प्रणीताऽनुहरणं ब्रह्मयजमानौ चाऽनुगच्छतः २३

विश्वास-प्रस्तुतिः

स्फ्याऽदानादि करोति २४

मूलम्

स्फ्याऽदानादि करोति २४

विश्वास-प्रस्तुतिः

यज्ञोपवीत्याज्यग्रहणे २५

मूलम्

यज्ञोपवीत्याज्यग्रहणे २५

विश्वास-प्रस्तुतिः

द्विर्वोपभृति २६

मूलम्

द्विर्वोपभृति २६

विश्वास-प्रस्तुतिः

प्राग्ग्रन्थि बर्हिः २७

मूलम्

प्राग्ग्रन्थि बर्हिः २७

विश्वास-प्रस्तुतिः

विस्रंस्य यूनं चाऽग्रे गृहीत्वा त्रिः स्तृणन्नग्निं पर्येति २८

मूलम्

विस्रंस्य यूनं चाऽग्रे गृहीत्वा त्रिः स्तृणन्नग्निं पर्येति २८

विश्वास-प्रस्तुतिः

प्रस्तरमात्रं शिष्ट्वा तावत्प्रतिपर्येति २९

मूलम्

प्रस्तरमात्रं शिष्ट्वा तावत्प्रतिपर्येति २९

विश्वास-प्रस्तुतिः

तं स्तृणात्यविधृतिम् ३०

मूलम्

तं स्तृणात्यविधृतिम् ३०

विश्वास-प्रस्तुतिः

प्राक्संस्थं हविरासादनम् ३१

मूलम्

प्राक्संस्थं हविरासादनम् ३१

विश्वास-प्रस्तुतिः

सामिधेनीप्रैषाद्याज्यभागाभ्यां यज्ञोपवीतिनः सर्वे ३२

मूलम्

सामिधेनीप्रैषाद्याज्यभागाभ्यां यज्ञोपवीतिनः सर्वे ३२

विश्वास-प्रस्तुतिः

पश्चात्परीतो ब्रह्मयजमानौ पुरस्तादग्नीत् ३३

मूलम्

पश्चात्परीतो ब्रह्मयजमानौ पुरस्तादग्नीत् ३३

विश्वास-प्रस्तुतिः

आश्राव्य सीद होतरित्येव ब्रूयात् ३४

मूलम्

आश्राव्य सीद होतरित्येव ब्रूयात् ३४

विश्वास-प्रस्तुतिः

अपबर्हिषः प्रयाजा अनुयाजाश्च ३५

मूलम्

अपबर्हिषः प्रयाजा अनुयाजाश्च ३५

विश्वास-प्रस्तुतिः

असमानयनं वा बर्हिःसंयोगात् ३६

मूलम्

असमानयनं वा बर्हिःसंयोगात् ३६