विश्वास-प्रस्तुतिः
साकमेश्वपर्वन् कार्तिक्यां साकमेधा द्व्यहम् १
मूलम्
साकमेश्वपर्वन् कार्तिक्यां साकमेधा द्व्यहम् १
विश्वास-प्रस्तुतिः
पूर्वेद्युः पूर्वाह्णेऽग्नयेऽनीकवते पुरोडाशः २
मूलम्
पूर्वेद्युः पूर्वाह्णेऽग्नयेऽनीकवते पुरोडाशः २
विश्वास-प्रस्तुतिः
मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने चरुः ३
मूलम्
मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने चरुः ३
विश्वास-प्रस्तुतिः
समिष्टयजुरन्तं भवति ४
मूलम्
समिष्टयजुरन्तं भवति ४
विश्वास-प्रस्तुतिः
बर्हिरनुप्रहरणवर्जं वा ५
मूलम्
बर्हिरनुप्रहरणवर्जं वा ५
विश्वास-प्रस्तुतिः
इध्मस्थाने शकलपरिधि निधाय मरुद्भ्यो गृहमेधिभ्यः सायं चरुः पयसि ६
मूलम्
इध्मस्थाने शकलपरिधि निधाय मरुद्भ्यो गृहमेधिभ्यः सायं चरुः पयसि ६
विश्वास-प्रस्तुतिः
सान्नाय्यवत् ७
मूलम्
सान्नाय्यवत् ७
विश्वास-प्रस्तुतिः
तूष्णीं वा ८
मूलम्
तूष्णीं वा ८
विश्वास-प्रस्तुतिः
एकचोदनाच्च ९
मूलम्
एकचोदनाच्च ९
विश्वास-प्रस्तुतिः
श्रपयित्वाऽभिघार्योद्वास्य शरावयोरुद्धरति पात्र्योर्वा १०
मूलम्
श्रपयित्वाऽभिघार्योद्वास्य शरावयोरुद्धरति पात्र्योर्वा १०
विश्वास-प्रस्तुतिः
आसेचने मध्ये कृत्वा सर्पिरासिञ्चत्याज्यार्थम् ११
मूलम्
आसेचने मध्ये कृत्वा सर्पिरासिञ्चत्याज्यार्थम् ११
विश्वास-प्रस्तुतिः
यावदुक्तमतः १२
मूलम्
यावदुक्तमतः १२
विश्वास-प्रस्तुतिः
स्तरणयजुषा वेदिमभिमृश्य तूष्णीं वा कृतत्वात्परिधिपरिधानम् १३
मूलम्
स्तरणयजुषा वेदिमभिमृश्य तूष्णीं वा कृतत्वात्परिधिपरिधानम् १३
विश्वास-प्रस्तुतिः
शकलान्याधाय मत्योद्धृतावासादयति १४
मूलम्
शकलान्याधाय मत्योद्धृतावासादयति १४
विश्वास-प्रस्तुतिः
स्रुक्स्रुवं च सम्मार्ष्ट्यनुद्वास्य वा सम्मार्जनम् १५
मूलम्
स्रुक्स्रुवं च सम्मार्ष्ट्यनुद्वास्य वा सम्मार्जनम् १५
विश्वास-प्रस्तुतिः
आज्यभागाभ्यां चरत्याग्नेयं दक्षिणात्सौम्यमुत्तरात् १६
मूलम्
आज्यभागाभ्यां चरत्याग्नेयं दक्षिणात्सौम्यमुत्तरात् १६
विश्वास-प्रस्तुतिः
गृहमेधिस्विष्टकृतौ चाऽज्यभागवत्समावदानौ १७
मूलम्
गृहमेधिस्विष्टकृतौ चाऽज्यभागवत्समावदानौ १७
विश्वास-प्रस्तुतिः
अप्रत्यभिघारणं च १८
मूलम्
अप्रत्यभिघारणं च १८
विश्वास-प्रस्तुतिः
अनुद्धृत्य वा सहितमाज्यमधिश्रयति १९
मूलम्
अनुद्धृत्य वा सहितमाज्यमधिश्रयति १९
विश्वास-प्रस्तुतिः
उद्वास्योभयमासादयति २०
मूलम्
उद्वास्योभयमासादयति २०
विश्वास-प्रस्तुतिः
न प्राशित्रमिडान्तं भवति २१
मूलम्
न प्राशित्रमिडान्तं भवति २१
विश्वास-प्रस्तुतिः
पूर्वे मार्जनमुपहूय २२
मूलम्
पूर्वे मार्जनमुपहूय २२
विश्वास-प्रस्तुतिः
प्राश्नन्ति युक्ताः २३
मूलम्
प्राश्नन्ति युक्ताः २३
विश्वास-प्रस्तुतिः
यजमानगृह्या हविरुच्छिष्टाशा ऋत्विजो ब्राह्मणाश्चाऽन्ये बहुश्चेत् २४
मूलम्
यजमानगृह्या हविरुच्छिष्टाशा ऋत्विजो ब्राह्मणाश्चाऽन्ये बहुश्चेत् २४
विश्वास-प्रस्तुतिः
अरिक्तां स्थालीं निदधाति २५
मूलम्
अरिक्तां स्थालीं निदधाति २५
विश्वास-प्रस्तुतिः
सान्तपनीयां संस्थाप्य २६
मूलम्
सान्तपनीयां संस्थाप्य २६
विश्वास-प्रस्तुतिः
प्रातर्वा शेषभावात् २७
मूलम्
प्रातर्वा शेषभावात् २७
विश्वास-प्रस्तुतिः
मातृभिर्वत्सान्त्संसृज्य निवान्या वत्सं बध्नाति २८
मूलम्
मातृभिर्वत्सान्त्संसृज्य निवान्या वत्सं बध्नाति २८
विश्वास-प्रस्तुतिः
यवाग्वाऽग्निहोत्रहोमः २९
मूलम्
यवाग्वाऽग्निहोत्रहोमः २९
विश्वास-प्रस्तुतिः
प्रातर्हुत्वाऽहुत्वा वा स्थाल्या दर्व्यादत्ते पूर्णा दर्वीति ३०
मूलम्
प्रातर्हुत्वाऽहुत्वा वा स्थाल्या दर्व्यादत्ते पूर्णा दर्वीति ३०
विश्वास-प्रस्तुतिः
ऋषभाऽह्वयितवै ब्रूयात् ३१
मूलम्
ऋषभाऽह्वयितवै ब्रूयात् ३१
विश्वास-प्रस्तुतिः
रुते जुहोति ३२
मूलम्
रुते जुहोति ३२
विश्वास-प्रस्तुतिः
अव्याहरति ब्रह्मा जुहुधीत्याह ३३
मूलम्
अव्याहरति ब्रह्मा जुहुधीत्याह ३३
विश्वास-प्रस्तुतिः
देहि म इति जुहोति ३४
मूलम्
देहि म इति जुहोति ३४
विश्वास-प्रस्तुतिः
ऋषभो दक्षिणा ३५
मूलम्
ऋषभो दक्षिणा ३५