विश्वास-प्रस्तुतिः
वाजिने निषिच्य १
मूलम्
वाजिने निषिच्य १
विश्वास-प्रस्तुतिः
उभयोः करीरान्यावपति शमीपलाशमिश्राणि । मेषमिथुनं च २
मूलम्
उभयोः करीरान्यावपति शमीपलाशमिश्राणि । मेषमिथुनं च २
विश्वास-प्रस्तुतिः
मारुत्यां मेषम् ३
मूलम्
मारुत्यां मेषम् ३
विश्वास-प्रस्तुतिः
सर्वाणि हवींष्युत्तरस्यामासादयति मारुतीं सहाज्यां प्रतिप्रस्थाता दक्षिणस्याम् ४
मूलम्
सर्वाणि हवींष्युत्तरस्यामासादयति मारुतीं सहाज्यां प्रतिप्रस्थाता दक्षिणस्याम् ४
विश्वास-प्रस्तुतिः
सम्मार्जनाय प्रेषितेऽसग्मृष्टे प्रतिप्रस्थाता पत्नीमानेष्यन्नाह केन चरसीति ५
मूलम्
सम्मार्जनाय प्रेषितेऽसग्मृष्टे प्रतिप्रस्थाता पत्नीमानेष्यन्नाह केन चरसीति ५
विश्वास-प्रस्तुतिः
संस्तुतानाचष्टे ६
मूलम्
संस्तुतानाचष्टे ६
विश्वास-प्रस्तुतिः
तृणानि वोद्गृह्णाति प्रतिसंस्तुतम् ७
मूलम्
तृणानि वोद्गृह्णाति प्रतिसंस्तुतम् ७
विश्वास-प्रस्तुतिः
अनाख्यातमहितं ज्ञातिभ्य इति श्रुतेः ८
मूलम्
अनाख्यातमहितं ज्ञातिभ्य इति श्रुतेः ८
विश्वास-प्रस्तुतिः
आख्याते प्रघासिन इत्येनां वाचयति नयन् ९
मूलम्
आख्याते प्रघासिन इत्येनां वाचयति नयन् ९
विश्वास-प्रस्तुतिः
करम्भपात्राणि जुहोति शूर्पेण मूर्द्धनि कृत्वा दक्षिणेऽग्नौ प्रत्यङ्मुखी जायापती वा दक्षिणेनाऽहृत्य तीर्थेन पूर्वेण वेदिमपरेन वा यद् ग्राम इति १०
मूलम्
करम्भपात्राणि जुहोति शूर्पेण मूर्द्धनि कृत्वा दक्षिणेऽग्नौ प्रत्यङ्मुखी जायापती वा दक्षिणेनाऽहृत्य तीर्थेन पूर्वेण वेदिमपरेन वा यद् ग्राम इति १०
विश्वास-प्रस्तुतिः
मोषूण इति यजमानो जपति ११
मूलम्
मोषूण इति यजमानो जपति ११
विश्वास-प्रस्तुतिः
अक्रन्कर्मेत्येनां वाचयति प्रतिनयन् १२
मूलम्
अक्रन्कर्मेत्येनां वाचयति प्रतिनयन् १२
विश्वास-प्रस्तुतिः
आगते सम्मार्जनाद्याज्यभागाभ्याम् १३
मूलम्
आगते सम्मार्जनाद्याज्यभागाभ्याम् १३
विश्वास-प्रस्तुतिः
स्रुक्पाणिरास्ते प्रतिप्रस्थाता १४
मूलम्
स्रुक्पाणिरास्ते प्रतिप्रस्थाता १४
विश्वास-प्रस्तुतिः
हविर्भिश्चरति १५
मूलम्
हविर्भिश्चरति १५
विश्वास-प्रस्तुतिः
पयस्याप्रचरणकाले मेषौ व्यतिहरतः १६
मूलम्
पयस्याप्रचरणकाले मेषौ व्यतिहरतः १६
विश्वास-प्रस्तुतिः
अन्यतरेणाऽवदानेन सह मेषम् १७
मूलम्
अन्यतरेणाऽवदानेन सह मेषम् १७
विश्वास-प्रस्तुतिः
सव्येन स्रुचौ गृहीत्वा प्रतिप्रस्थातुर्वासो दक्षिणेन मरुद्भ्योऽनुवाचयति १८
मूलम्
सव्येन स्रुचौ गृहीत्वा प्रतिप्रस्थातुर्वासो दक्षिणेन मरुद्भ्योऽनुवाचयति १८
विश्वास-प्रस्तुतिः
वारुणीवदवदानम् १९
मूलम्
वारुणीवदवदानम् १९
विश्वास-प्रस्तुतिः
हविर्भिश्चरत उभौ स्विष्टकृत्प्रभृति २०
मूलम्
हविर्भिश्चरत उभौ स्विष्टकृत्प्रभृति २०
विश्वास-प्रस्तुतिः
इडामवदाय प्रतिप्रस्थात्रे २१
मूलम्
इडामवदाय प्रतिप्रस्थात्रे २१
विश्वास-प्रस्तुतिः
तत्र प्रतिप्रस्थाता मारुत्याः २२
मूलम्
तत्र प्रतिप्रस्थाता मारुत्याः २२
विश्वास-प्रस्तुतिः
स्रुचौ व्यूहतोऽध्वर्यू २३
मूलम्
स्रुचौ व्यूहतोऽध्वर्यू २३
विश्वास-प्रस्तुतिः
समासिच्य वाजिनभक्षः २४
मूलम्
समासिच्य वाजिनभक्षः २४
विश्वास-प्रस्तुतिः
अध्वर्युविकारात्प्रतिस्थाता भक्षेषु २५
मूलम्
अध्वर्युविकारात्प्रतिस्थाता भक्षेषु २५
विश्वास-प्रस्तुतिः
मैत्रावरुणश्च होत्रध्वर्युविकारात् २६
मूलम्
मैत्रावरुणश्च होत्रध्वर्युविकारात् २६
विश्वास-प्रस्तुतिः
समिष्टयजूंषि तूष्णीं दक्षिणस्याम् २७
मूलम्
समिष्टयजूंषि तूष्णीं दक्षिणस्याम् २७
विश्वास-प्रस्तुतिः
वारुणीनिष्काषेणाऽवभृथम् २८
मूलम्
वारुणीनिष्काषेणाऽवभृथम् २८
विश्वास-प्रस्तुतिः
तूष्णीमेत्यऽभ्यवेत्य मज्जयत्यवभृथेति २९
मूलम्
तूष्णीमेत्यऽभ्यवेत्य मज्जयत्यवभृथेति २९
विश्वास-प्रस्तुतिः
जायापती स्नातोऽमज्जन्तौ ३०
मूलम्
जायापती स्नातोऽमज्जन्तौ ३०
विश्वास-प्रस्तुतिः
अन्योऽन्यस्य पृष्ठे धावतः ३१
मूलम्
अन्योऽन्यस्य पृष्ठे धावतः ३१
विश्वास-प्रस्तुतिः
अन्ये वाससी परिदधाति ३२
मूलम्
अन्ये वाससी परिदधाति ३२
विश्वास-प्रस्तुतिः
पूर्वे दद्यादधिकृतेभ्यो यस्मा इच्छेत् ३३
मूलम्
पूर्वे दद्यादधिकृतेभ्यो यस्मा इच्छेत् ३३
विश्वास-प्रस्तुतिः
यथेतमेत्याऽहवनीये समिदाधानं देवानां समिदसीति ३४
मूलम्
यथेतमेत्याऽहवनीये समिदाधानं देवानां समिदसीति ३४
विश्वास-प्रस्तुतिः
पत्नी च गार्हपत्ये तूष्णीम् ३५
मूलम्
पत्नी च गार्हपत्ये तूष्णीम् ३५
विश्वास-प्रस्तुतिः
धेनुर्दक्षिणाऽश्वः षड् वा दश वा ३६
मूलम्
धेनुर्दक्षिणाऽश्वः षड् वा दश वा ३६