०४

विश्वास-प्रस्तुतिः

छन्ना वसति १

मूलम्

छन्ना वसति १

विश्वास-प्रस्तुतिः

प्रातः पञ्चगृहीतं गृहीत्वाऽग्नी प्रणयतीध्माभ्यामुपयम्य २

मूलम्

प्रातः पञ्चगृहीतं गृहीत्वाऽग्नी प्रणयतीध्माभ्यामुपयम्य २

विश्वास-प्रस्तुतिः

सर्वं वा विभज्य प्राकृतत्वात् ३

मूलम्

सर्वं वा विभज्य प्राकृतत्वात् ३

विश्वास-प्रस्तुतिः

प्रणयनं सोमाद्वाच्यत्वात् ४

मूलम्

प्रणयनं सोमाद्वाच्यत्वात् ४

विश्वास-प्रस्तुतिः

प्रकृतेर्वाऽनामत्वात् ५

मूलम्

प्रकृतेर्वाऽनामत्वात् ५

विश्वास-प्रस्तुतिः

ग्रहणं गुणार्थमुत्तरवेद्यग्निविधानात् ६

मूलम्

ग्रहणं गुणार्थमुत्तरवेद्यग्निविधानात् ६

विश्वास-प्रस्तुतिः

आज्यप्रोक्षणीरुद्यम्याऽग्नी चाऽहाऽग्निभ्यां प्रह्रियमाणाभ्यामनुब्रूहि एकस्फ्ययाऽनूदेहीति ७

मूलम्

आज्यप्रोक्षणीरुद्यम्याऽग्नी चाऽहाऽग्निभ्यां प्रह्रियमाणाभ्यामनुब्रूहि एकस्फ्ययाऽनूदेहीति ७

विश्वास-प्रस्तुतिः

त्रिरुक्तायां यथावेदि हरणम् ८

मूलम्

त्रिरुक्तायां यथावेदि हरणम् ८

विश्वास-प्रस्तुतिः

प्रतिप्रस्थाता स्फ्येन लिखत्यावेदिश्रोणेरुत्तवेदेर्वा ९

मूलम्

प्रतिप्रस्थाता स्फ्येन लिखत्यावेदिश्रोणेरुत्तवेदेर्वा ९

विश्वास-प्रस्तुतिः

वेद्यन्तरे स्थित्वोदङ्ङुत्तरवेदिं प्रोक्षतीन्द्र घोषस्त्वेति प्रतिमन्त्रं प्रतिदिशं । यथालिङ्गम् १०

मूलम्

वेद्यन्तरे स्थित्वोदङ्ङुत्तरवेदिं प्रोक्षतीन्द्र घोषस्त्वेति प्रतिमन्त्रं प्रतिदिशं । यथालिङ्गम् १०

विश्वास-प्रस्तुतिः

दक्षिणांससहितं बहिर्वेदि शेषं निषिञ्चतीदमहं तप्तं वारित्यमुमभिचरन् ११

मूलम्

दक्षिणांससहितं बहिर्वेदि शेषं निषिञ्चतीदमहं तप्तं वारित्यमुमभिचरन् ११

विश्वास-प्रस्तुतिः

नाभ्याः श्रोण्यंसेषु पञ्चगृहीतं जुहोत्यक्ष्णया दक्षिणेऽसेंश्रोण्यां श्रोण्यामंसे मध्ये च हिरण्यं पश्यन्सिंह्यसीति प्रतिमन्त्रम् १२

मूलम्

नाभ्याः श्रोण्यंसेषु पञ्चगृहीतं जुहोत्यक्ष्णया दक्षिणेऽसेंश्रोण्यां श्रोण्यामंसे मध्ये च हिरण्यं पश्यन्सिंह्यसीति प्रतिमन्त्रम् १२

विश्वास-प्रस्तुतिः

भूतेभ्यस्त्वेति स्रुचमुद्यच्छति १३

मूलम्

भूतेभ्यस्त्वेति स्रुचमुद्यच्छति १३

विश्वास-प्रस्तुतिः

नाभिं पैतुदारवैः परिदधाति पूर्ववद् ध्रुवोऽसि इति प्रतिमन्त्रम् १४

मूलम्

नाभिं पैतुदारवैः परिदधाति पूर्ववद् ध्रुवोऽसि इति प्रतिमन्त्रम् १४

विश्वास-प्रस्तुतिः

अग्नेः पुरीषमिति निवपति गुग्गुलुसुगन्धितेजनवृष्णेस्तुकाश्चोपरि शीर्षण्या अभावेऽन्याः १५

मूलम्

अग्नेः पुरीषमिति निवपति गुग्गुलुसुगन्धितेजनवृष्णेस्तुकाश्चोपरि शीर्षण्या अभावेऽन्याः १५

विश्वास-प्रस्तुतिः

तेष्वग्निं निदधाति १६

मूलम्

तेष्वग्निं निदधाति १६

विश्वास-प्रस्तुतिः

उद्धतावोक्षिते दक्षिणम् १७

मूलम्

उद्धतावोक्षिते दक्षिणम् १७

विश्वास-प्रस्तुतिः

उपयमनीरुपनिवपति १८

मूलम्

उपयमनीरुपनिवपति १८

विश्वास-प्रस्तुतिः

प्रणीताद्यतः १९

मूलम्

प्रणीताद्यतः १९

विश्वास-प्रस्तुतिः

व्रतोपायनं वाऽकृतं चेत् २०

मूलम्

व्रतोपायनं वाऽकृतं चेत् २०

विश्वास-प्रस्तुतिः

नित्येभ्योऽधिकान्यैन्द्रा ग्नः पयस्ये वारुणी मारुती काय एककपालः २१

मूलम्

नित्येभ्योऽधिकान्यैन्द्रा ग्नः पयस्ये वारुणी मारुती काय एककपालः २१

विश्वास-प्रस्तुतिः

नानाऽऽज्यनिर्वपणम् २२

मूलम्

नानाऽऽज्यनिर्वपणम् २२

विश्वास-प्रस्तुतिः

दक्षिणं प्रतिप्रस्थातुः २३

मूलम्

दक्षिणं प्रतिप्रस्थातुः २३

विश्वास-प्रस्तुतिः

ध्रुवायाः पुरस्तात्पृषदाज्यमाज्यं दधिमिश्रं पञ्चगृहीतं ज्योतिरसीति समिदन्तेन २४

मूलम्

ध्रुवायाः पुरस्तात्पृषदाज्यमाज्यं दधिमिश्रं पञ्चगृहीतं ज्योतिरसीति समिदन्तेन २४

विश्वास-प्रस्तुतिः

अनुयाजार्थं सर्वत्र २५

मूलम्

अनुयाजार्थं सर्वत्र २५

विश्वास-प्रस्तुतिः

औपभृतासादनम् २६

मूलम्

औपभृतासादनम् २६

विश्वास-प्रस्तुतिः

प्रियेण धाम्नेति वाऽविशेषोपदेशात् २७

मूलम्

प्रियेण धाम्नेति वाऽविशेषोपदेशात् २७

विश्वास-प्रस्तुतिः

उत्तरं वाऽपरकालपरत्वात् २८

मूलम्

उत्तरं वाऽपरकालपरत्वात् २८

विश्वास-प्रस्तुतिः

प्रतिप्रस्थाता च २९

मूलम्

प्रतिप्रस्थाता च २९

विश्वास-प्रस्तुतिः

न वा ३०

मूलम्

न वा ३०

विश्वास-प्रस्तुतिः

प्रणीतापत्नीसन्नहनाऽग्निमन्थनाऽऽश्रुतप्रत्याश्रुतप्रैषयजमानवाचनहोतृषदनवरणप्राशित्राऽङ्गुलिपर्वाञ्जनाऽवान्तरेडाभागाऽपराग्न्यवभृथान्न प्रतिप्रस्थाता ३१

मूलम्

प्रणीतापत्नीसन्नहनाऽग्निमन्थनाऽऽश्रुतप्रत्याश्रुतप्रैषयजमानवाचनहोतृषदनवरणप्राशित्राऽङ्गुलिपर्वाञ्जनाऽवान्तरेडाभागाऽपराग्न्यवभृथान्न प्रतिप्रस्थाता ३१

विश्वास-प्रस्तुतिः

कृतानुकरोऽन्यत्र दक्षिणस्याम् ३२

मूलम्

कृतानुकरोऽन्यत्र दक्षिणस्याम् ३२