विश्वास-प्रस्तुतिः
वरुणप्रघासपर्वन् आषाढ्यामयन्ते योनिरिति समारोह्योदवसाय निर्मथ्य वरुणप्रघासाः १
मूलम्
वरुणप्रघासपर्वन् आषाढ्यामयन्ते योनिरिति समारोह्योदवसाय निर्मथ्य वरुणप्रघासाः १
विश्वास-प्रस्तुतिः
पूर्वेद्युर्दक्षिणाग्नौ निस्तुषाऽमभृष्टयवानां करम्भपात्रकरणम् २
मूलम्
पूर्वेद्युर्दक्षिणाग्नौ निस्तुषाऽमभृष्टयवानां करम्भपात्रकरणम् २
विश्वास-प्रस्तुतिः
यावन्तो यजमानगृह्या एकाधिकानि ३
मूलम्
यावन्तो यजमानगृह्या एकाधिकानि ३
विश्वास-प्रस्तुतिः
प्रजायां वा जातश्रुतेः ४
मूलम्
प्रजायां वा जातश्रुतेः ४
विश्वास-प्रस्तुतिः
त्रीणि वा नित्यत्वात् ५
मूलम्
त्रीणि वा नित्यत्वात् ५
विश्वास-प्रस्तुतिः
मेषमिथुनं च ६
मूलम्
मेषमिथुनं च ६
विश्वास-प्रस्तुतिः
अनैडकीरूर्णाः प्रक्षाल्याऽश्लेषयेत्तयोः ७
मूलम्
अनैडकीरूर्णाः प्रक्षाल्याऽश्लेषयेत्तयोः ७
विश्वास-प्रस्तुतिः
कुशोर्णा वाऽभावे ८
मूलम्
कुशोर्णा वाऽभावे ८
विश्वास-प्रस्तुतिः
आहवनीयस्य पुरस्तात्वेदी करोति ९
मूलम्
आहवनीयस्य पुरस्तात्वेदी करोति ९
विश्वास-प्रस्तुतिः
प्रादेशोऽन्तरा पृथो वा १०
मूलम्
प्रादेशोऽन्तरा पृथो वा १०
विश्वास-प्रस्तुतिः
रथमात्र्युत्तरा ११
मूलम्
रथमात्र्युत्तरा ११
विश्वास-प्रस्तुतिः
चतुररत्निर्वा पश्चात् सप्त प्राची षड् वा त्रयः पुरस्तात् १२
मूलम्
चतुररत्निर्वा पश्चात् सप्त प्राची षड् वा त्रयः पुरस्तात् १२
विश्वास-प्रस्तुतिः
तेषां मध्ये शङ्कुः १३
मूलम्
तेषां मध्ये शङ्कुः १३
विश्वास-प्रस्तुतिः
अपरिमिता वा १४
मूलम्
अपरिमिता वा १४
विश्वास-प्रस्तुतिः
स्फ्याद्यासम्मर्शनात्करोति १५
मूलम्
स्फ्याद्यासम्मर्शनात्करोति १५
विश्वास-प्रस्तुतिः
उभयोरेक उत्करः १६
मूलम्
उभयोरेक उत्करः १६
विश्वास-प्रस्तुतिः
अपरेण वेदिं प्रतिप्रस्थातुः सञ्चरः १७
मूलम्
अपरेण वेदिं प्रतिप्रस्थातुः सञ्चरः १७
विश्वास-प्रस्तुतिः
उत्तरवेदिं निवपत्युत्तरस्याम् १८
मूलम्
उत्तरवेदिं निवपत्युत्तरस्याम् १८
विश्वास-प्रस्तुतिः
शम्यामादाय चात्वालं मिमीते पूर्वेणोत्करं सञ्चरं परिहाप्य १९
मूलम्
शम्यामादाय चात्वालं मिमीते पूर्वेणोत्करं सञ्चरं परिहाप्य १९
विश्वास-प्रस्तुतिः
शम्यामुदीचीं निदधाति पुरस्ताच्च २०
मूलम्
शम्यामुदीचीं निदधाति पुरस्ताच्च २०
विश्वास-प्रस्तुतिः
दक्षिणतः प्राचीमुत्तरश्च २१
मूलम्
दक्षिणतः प्राचीमुत्तरश्च २१
विश्वास-प्रस्तुतिः
स्फ्येनाऽन्तर्लिखति तप्तायनीति प्रतिमन्त्रम् २२
मूलम्
स्फ्येनाऽन्तर्लिखति तप्तायनीति प्रतिमन्त्रम् २२
विश्वास-प्रस्तुतिः
विददेऽग्निरिति चात्वाले प्रहरति स्फ्येनाऽन्वारब्धे २३
मूलम्
विददेऽग्निरिति चात्वाले प्रहरति स्फ्येनाऽन्वारब्धे २३
विश्वास-प्रस्तुतिः
अग्रे अङ्गिर इति पुरीषं हरति हस्तेन च २४
मूलम्
अग्रे अङ्गिर इति पुरीषं हरति हस्तेन च २४
विश्वास-प्रस्तुतिः
योऽस्यामिति निवपति पूर्वार्द्धे शङ्कुसहितम् २५
मूलम्
योऽस्यामिति निवपति पूर्वार्द्धे शङ्कुसहितम् २५
विश्वास-प्रस्तुतिः
अग्नीदुत्करवत्तूष्णीं हृतम् २६
मूलम्
अग्नीदुत्करवत्तूष्णीं हृतम् २६
विश्वास-प्रस्तुतिः
एवं द्विरपरं द्वितीयस्यां तृतीयस्यामिति विशेषः २७
मूलम्
एवं द्विरपरं द्वितीयस्यां तृतीयस्यामिति विशेषः २७
विश्वास-प्रस्तुतिः
अनुत्वेति चतुर्थं यथार्थमाहृत्य सिंह्यसि इति व्यूहत्युत्तरवेदिम् २८
मूलम्
अनुत्वेति चतुर्थं यथार्थमाहृत्य सिंह्यसि इति व्यूहत्युत्तरवेदिम् २८
विश्वास-प्रस्तुतिः
शम्यामात्रीं वितृतीयामपरिमितां युगमात्रीं यजमानदशपद्यां वा २९
मूलम्
शम्यामात्रीं वितृतीयामपरिमितां युगमात्रीं यजमानदशपद्यां वा २९
विश्वास-प्रस्तुतिः
सोमे वोत्तरे व्यपस्फुरणश्रुतेरसम्भवाच्च ३०
मूलम्
सोमे वोत्तरे व्यपस्फुरणश्रुतेरसम्भवाच्च ३०
विश्वास-प्रस्तुतिः
मध्ये नाभिं करोति प्रादेशसमां चतुःस्रक्तिम् ३१
मूलम्
मध्ये नाभिं करोति प्रादेशसमां चतुःस्रक्तिम् ३१
विश्वास-प्रस्तुतिः
प्रोक्षत्युत्तरवेदिं सिकताश्च प्रकिरति सिंह्यसि इति प्रतिमन्त्रम् ३२
मूलम्
प्रोक्षत्युत्तरवेदिं सिकताश्च प्रकिरति सिंह्यसि इति प्रतिमन्त्रम् ३२