०२

विश्वास-प्रस्तुतिः

अग्नये मथ्यमानायाऽनुवाचयति १

मूलम्

अग्नये मथ्यमानायाऽनुवाचयति १

विश्वास-प्रस्तुतिः

मन्थति गायत्रेणेति प्रतिमन्त्रं त्रिः प्रदक्षिणम् २

मूलम्

मन्थति गायत्रेणेति प्रतिमन्त्रं त्रिः प्रदक्षिणम् २

विश्वास-प्रस्तुतिः

जाते जातायेति ३

मूलम्

जाते जातायेति ३

विश्वास-प्रस्तुतिः

प्रहिरियमाणायेति प्रास्यन् ४

मूलम्

प्रहिरियमाणायेति प्रास्यन् ४

विश्वास-प्रस्तुतिः

भवतन्न इति प्रास्यति ५

मूलम्

भवतन्न इति प्रास्यति ५

विश्वास-प्रस्तुतिः

अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेण ६

मूलम्

अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेण ६

विश्वास-प्रस्तुतिः

नवप्रयाजं नवाऽनुयाजम् ७

मूलम्

नवप्रयाजं नवाऽनुयाजम् ७

विश्वास-प्रस्तुतिः

वरुणप्रघासा महाहविश्च ८

मूलम्

वरुणप्रघासा महाहविश्च ८

विश्वास-प्रस्तुतिः

त्रीणि समिष्टयजूंषि जुहोति देवा गातुविदो यज्ञ यज्ञमेष त इति ९

मूलम्

त्रीणि समिष्टयजूंषि जुहोति देवा गातुविदो यज्ञ यज्ञमेष त इति ९

विश्वास-प्रस्तुतिः

पशौ च १०

मूलम्

पशौ च १०

विश्वास-प्रस्तुतिः

याँ आवह इति वा पशौ ११

मूलम्

याँ आवह इति वा पशौ ११

विश्वास-प्रस्तुतिः

एकं वा वैश्वदेवे १२

मूलम्

एकं वा वैश्वदेवे १२

विश्वास-प्रस्तुतिः

पवसंस्थासु वपनं वा प्रागन्त्यात् १३

मूलम्

पवसंस्थासु वपनं वा प्रागन्त्यात् १३

विश्वास-प्रस्तुतिः

अपरेण दक्षिणाग्निं दक्षिणं गोदानमुन्दति सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूं दीर्घायुत्वाय वर्चस इति १४

मूलम्

अपरेण दक्षिणाग्निं दक्षिणं गोदानमुन्दति सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूं दीर्घायुत्वाय वर्चस इति १४

विश्वास-प्रस्तुतिः

त्र्येण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्दधात्योषध इति १५

मूलम्

त्र्येण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्दधात्योषध इति १५

विश्वास-प्रस्तुतिः

त्र्यायुषमिति यजमानो जपति १६

मूलम्

त्र्यायुषमिति यजमानो जपति १६

विश्वास-प्रस्तुतिः

शिवो नामेति लोहक्षुरमादाय निवर्त्तयामीति वपति १७

मूलम्

शिवो नामेति लोहक्षुरमादाय निवर्त्तयामीति वपति १७

विश्वास-प्रस्तुतिः

एवं पश्चादुत्तरतश्च १८

मूलम्

एवं पश्चादुत्तरतश्च १८

विश्वास-प्रस्तुतिः

गृहेषु पौर्णमासं समारूढनिर्मथितयोस्तथा चेत् १९

मूलम्

गृहेषु पौर्णमासं समारूढनिर्मथितयोस्तथा चेत् १९

विश्वास-प्रस्तुतिः

प्रजाकामस्याऽपि वैश्वदेवम् २०

मूलम्

प्रजाकामस्याऽपि वैश्वदेवम् २०

विश्वास-प्रस्तुतिः

एकेऽधःप्राङ्शायी मध्वाश्यृतुजायोपायी २१

मूलम्

एकेऽधःप्राङ्शायी मध्वाश्यृतुजायोपायी २१

विश्वास-प्रस्तुतिः

मांसस्त्र्यनृतानि वर्जयेदुदकाभ्यवायं च प्रागवभृथात् २२

मूलम्

मांसस्त्र्यनृतानि वर्जयेदुदकाभ्यवायं च प्रागवभृथात् २२