(चातुर्मास्यनिरूपणम्)
विश्वास-प्रस्तुतिः
चातुर्मास्यप्रयोगः फाल्गुन्याम् १
मूलम्
चातुर्मास्यप्रयोगः फाल्गुन्याम् १
विश्वास-प्रस्तुतिः
वैश्वानरपार्जन्यौ निरूप्येच्छन् २
मूलम्
वैश्वानरपार्जन्यौ निरूप्येच्छन् २
विश्वास-प्रस्तुतिः
वैश्वानरो द्वादशकपालश्चरुरुत्तरः ३
मूलम्
वैश्वानरो द्वादशकपालश्चरुरुत्तरः ३
विश्वास-प्रस्तुतिः
वैश्वदेवपर्वन् आग्नेयः सौम्यश्चरुः सावित्रो द्वादशकपालोऽष्टाकपालो वा सारस्वतश्चरुः पौष्णश्चरुः प्रपिष्टानाम् ४
मूलम्
वैश्वदेवपर्वन् आग्नेयः सौम्यश्चरुः सावित्रो द्वादशकपालोऽष्टाकपालो वा सारस्वतश्चरुः पौष्णश्चरुः प्रपिष्टानाम् ४
विश्वास-प्रस्तुतिः
द्विदेवतोऽपि नियमसामर्थ्यात् ५
मूलम्
द्विदेवतोऽपि नियमसामर्थ्यात् ५
विश्वास-प्रस्तुतिः
अर्द्धपिष्टं वोभयसामर्थ्यात् ६
मूलम्
अर्द्धपिष्टं वोभयसामर्थ्यात् ६
विश्वास-प्रस्तुतिः
सौमापौष्णदर्शनाच्च ७
मूलम्
सौमापौष्णदर्शनाच्च ७
विश्वास-प्रस्तुतिः
अपिष्टो वा देवताऽन्यत्वात् ८
मूलम्
अपिष्टो वा देवताऽन्यत्वात् ८
विश्वास-प्रस्तुतिः
सौमापौष्णे वचनात् ९
मूलम्
सौमापौष्णे वचनात् ९
विश्वास-प्रस्तुतिः
एतानि सर्वत्र १०
मूलम्
एतानि सर्वत्र १०
विश्वास-प्रस्तुतिः
मरुद्भ्यः स्वतवद्भ्यः सप्तकपालः ११
मूलम्
मरुद्भ्यः स्वतवद्भ्यः सप्तकपालः ११
विश्वास-प्रस्तुतिः
मरुतो वा १२
मूलम्
मरुतो वा १२
विश्वास-प्रस्तुतिः
वैश्वदेवी पयस्या १३
मूलम्
वैश्वदेवी पयस्या १३
विश्वास-प्रस्तुतिः
द्यावापृथिवीय एककपालः १४
मूलम्
द्यावापृथिवीय एककपालः १४
विश्वास-प्रस्तुतिः
एतद्वैश्वदेवम् १५
मूलम्
एतद्वैश्वदेवम् १५
विश्वास-प्रस्तुतिः
प्राचीनप्रवणे १६
मूलम्
प्राचीनप्रवणे १६
विश्वास-प्रस्तुतिः
अहतवासाः पत्नी च १७
मूलम्
अहतवासाः पत्नी च १७
विश्वास-प्रस्तुतिः
त एव वरुणप्रघासेष्वपि १८
मूलम्
त एव वरुणप्रघासेष्वपि १८
विश्वास-प्रस्तुतिः
त्रेधा बर्हिः सन्नह्य पुनरेकधा १९
मूलम्
त्रेधा बर्हिः सन्नह्य पुनरेकधा १९
विश्वास-प्रस्तुतिः
कुशप्रस्वः प्रस्तर उपसन्नद्ध २०
मूलम्
कुशप्रस्वः प्रस्तर उपसन्नद्ध २०
विश्वास-प्रस्तुतिः
आसाद्याऽग्निमन्थनम् २१
मूलम्
आसाद्याऽग्निमन्थनम् २१
विश्वास-प्रस्तुतिः
अग्नेर्जनित्रमिति शकलमादाय तूष्णीं वेद्यां करोति २२
मूलम्
अग्नेर्जनित्रमिति शकलमादाय तूष्णीं वेद्यां करोति २२
विश्वास-प्रस्तुतिः
वृषणाविति कुशतरुणे तस्मिन् २३
मूलम्
वृषणाविति कुशतरुणे तस्मिन् २३
विश्वास-प्रस्तुतिः
उर्वश्यसीत्यधरारणिं तयोः २४
मूलम्
उर्वश्यसीत्यधरारणिं तयोः २४
विश्वास-प्रस्तुतिः
आयुरसीत्युत्तरयाऽज्यस्थालीं संस्पृश्य पुरुरवा इत्यभिनिधानं तया २५
मूलम्
आयुरसीत्युत्तरयाऽज्यस्थालीं संस्पृश्य पुरुरवा इत्यभिनिधानं तया २५