विश्वास-प्रस्तुतिः
प्रातर्जुहोत्यनुदिते १
मूलम्
प्रातर्जुहोत्यनुदिते १
विश्वास-प्रस्तुतिः
अन्तरेणापराग्नी गत्वा दक्षिणेन वा प्रदक्षिणं गार्हपत्यं गत्वोपविशति यजमानः २
मूलम्
अन्तरेणापराग्नी गत्वा दक्षिणेन वा प्रदक्षिणं गार्हपत्यं गत्वोपविशति यजमानः २
विश्वास-प्रस्तुतिः
पत्नी च यथादेशम् ३
मूलम्
पत्नी च यथादेशम् ३
विश्वास-प्रस्तुतिः
अथ आचामति वृष्टिरसि वृश्च मे पाप्मानं सत्येन व्रतमुपैम्यापः सत्यं मयि व्रतमिति ४
मूलम्
अथ आचामति वृष्टिरसि वृश्च मे पाप्मानं सत्येन व्रतमुपैम्यापः सत्यं मयि व्रतमिति ४
विश्वास-प्रस्तुतिः
वाचं विसृज्य पुनराचामति विद्युदसि वृश्च मे पाप्मानं जह्यपोऽवभृथमभ्युपैमि मयि सत्यं गोषु मे व्रतमिति ५
मूलम्
वाचं विसृज्य पुनराचामति विद्युदसि वृश्च मे पाप्मानं जह्यपोऽवभृथमभ्युपैमि मयि सत्यं गोषु मे व्रतमिति ५
विश्वास-प्रस्तुतिः
उन्नयामीत्याह प्रातः ६
मूलम्
उन्नयामीत्याह प्रातः ६
विश्वास-प्रस्तुतिः
प्राक्संस्थं समित्पर्युक्षणं धारा चोभयत्र वा ७
मूलम्
प्राक्संस्थं समित्पर्युक्षणं धारा चोभयत्र वा ७
विश्वास-प्रस्तुतिः
अग्निशब्दे सूर्यः ८
मूलम्
अग्निशब्दे सूर्यः ८
विश्वास-प्रस्तुतिः
रात्र्युषसाहेति वा ९
मूलम्
रात्र्युषसाहेति वा ९
विश्वास-प्रस्तुतिः
ज्योतिः सूर्य इति वा प्रातः १०
मूलम्
ज्योतिः सूर्य इति वा प्रातः १०
विश्वास-प्रस्तुतिः
प्रथमाऽस्तमिते पर्युदयं च स्वर्गकामस्य ११
मूलम्
प्रथमाऽस्तमिते पर्युदयं च स्वर्गकामस्य ११
विश्वास-प्रस्तुतिः
तमोऽभ्यये सायं जुहुयाद्वियति प्रातरायुष्कामस्य १२
मूलम्
तमोऽभ्यये सायं जुहुयाद्वियति प्रातरायुष्कामस्य १२
विश्वास-प्रस्तुतिः
अन्तः पशौ पशुकामस्य सायं प्रातः १३
मूलम्
अन्तः पशौ पशुकामस्य सायं प्रातः १३
विश्वास-प्रस्तुतिः
शयाने श्रीकामस्य प्रातः १४
मूलम्
शयाने श्रीकामस्य प्रातः १४
विश्वास-प्रस्तुतिः
प्रथमसिद्धे धूप्यमाने प्रजासु निहत्येव सहसाऽन्नमत्स्यतः १५
मूलम्
प्रथमसिद्धे धूप्यमाने प्रजासु निहत्येव सहसाऽन्नमत्स्यतः १५
विश्वास-प्रस्तुतिः
भूयिष्ठार्चिषि गृहीत्वेव सहसा १६
मूलम्
भूयिष्ठार्चिषि गृहीत्वेव सहसा १६
विश्वास-प्रस्तुतिः
प्रदीप्ततमे श्रीयशस्कामस्य १७
मूलम्
प्रदीप्ततमे श्रीयशस्कामस्य १७
विश्वास-प्रस्तुतिः
अर्चिःप्रत्यवाये मैत्रेणाऽन्नमत्स्यतः १८
मूलम्
अर्चिःप्रत्यवाये मैत्रेणाऽन्नमत्स्यतः १८
विश्वास-प्रस्तुतिः
अङ्गारेषु चाकश्यमानेषु ब्रह्मवर्चसकामस्य १९
मूलम्
अङ्गारेषु चाकश्यमानेषु ब्रह्मवर्चसकामस्य १९
विश्वास-प्रस्तुतिः
पयसा स्वर्गकामः पशुकामो वा २०
मूलम्
पयसा स्वर्गकामः पशुकामो वा २०
विश्वास-प्रस्तुतिः
यवाग्वा ग्रामकामः २१
मूलम्
यवाग्वा ग्रामकामः २१
विश्वास-प्रस्तुतिः
तण्डुलैर्बलकामः २२
मूलम्
तण्डुलैर्बलकामः २२
विश्वास-प्रस्तुतिः
दध्नेन्द्रि यकामः २३
मूलम्
दध्नेन्द्रि यकामः २३
विश्वास-प्रस्तुतिः
अनधिश्रयणं च श्रुतिसामर्थ्याभ्याम् २४
मूलम्
अनधिश्रयणं च श्रुतिसामर्थ्याभ्याम् २४
विश्वास-प्रस्तुतिः
घृतेन तेजस्कामः २५
मूलम्
घृतेन तेजस्कामः २५
विश्वास-प्रस्तुतिः
संवत्सरं जुहुयादेतेषामेकैकेन कामसंयोगे २६
मूलम्
संवत्सरं जुहुयादेतेषामेकैकेन कामसंयोगे २६
विश्वास-प्रस्तुतिः
सायं प्रातर्वा २७
मूलम्
सायं प्रातर्वा २७
विश्वास-प्रस्तुतिः
दक्षिणेन प्रवेशनमग्निहोत्रेष्टिषु २८
मूलम्
दक्षिणेन प्रवेशनमग्निहोत्रेष्टिषु २८
विश्वास-प्रस्तुतिः
सायम्प्रातराहवनीयस्याऽसनोपस्थाने २९
मूलम्
सायम्प्रातराहवनीयस्याऽसनोपस्थाने २९
विश्वास-प्रस्तुतिः
शय्याऽसनं वा गार्हपत्ये ३०
मूलम्
शय्याऽसनं वा गार्हपत्ये ३०
विश्वास-प्रस्तुतिः
संव्रजन्मनसोपस्मृत्य दक्षिणाग्निम् ३१
मूलम्
संव्रजन्मनसोपस्मृत्य दक्षिणाग्निम् ३१
विश्वास-प्रस्तुतिः
अनशित्वा प्रातर्मुहूर्तं सभासनं सभ्यस्य ३२
मूलम्
अनशित्वा प्रातर्मुहूर्तं सभासनं सभ्यस्य ३२
विश्वास-प्रस्तुतिः
भस्मोद्धृतमुपेयात् ३३
मूलम्
भस्मोद्धृतमुपेयात् ३३
विश्वास-प्रस्तुतिः
स्वयं वा जुहुयात् ३४
मूलम्
स्वयं वा जुहुयात् ३४
विश्वास-प्रस्तुतिः
उपवसथे नियमः ३५
मूलम्
उपवसथे नियमः ३५