विश्वास-प्रस्तुतिः
अग्निहोत्रनिरूपणम् उद्धरेति यजमानो ब्रूयात्सायं प्रातरग्निहोत्रे १
मूलम्
अग्निहोत्रनिरूपणम् उद्धरेति यजमानो ब्रूयात्सायं प्रातरग्निहोत्रे १
विश्वास-प्रस्तुतिः
गार्हपत्यादाहवनीयस्योद्धरणमनस्तमितानुदितयोः २
मूलम्
गार्हपत्यादाहवनीयस्योद्धरणमनस्तमितानुदितयोः २
विश्वास-प्रस्तुतिः
प्रत्यङ्मुखो वा सायं निदध्यात्तस्मिन्सायं प्रातर्होममेके ३
मूलम्
प्रत्यङ्मुखो वा सायं निदध्यात्तस्मिन्सायं प्रातर्होममेके ३
विश्वास-प्रस्तुतिः
नित्यो दक्षिणाग्निः ४
मूलम्
नित्यो दक्षिणाग्निः ४
विश्वास-प्रस्तुतिः
सर्वे गतश्रियः ५
मूलम्
सर्वे गतश्रियः ५
विश्वास-प्रस्तुतिः
सदा वाऽऽहरणम् ६
मूलम्
सदा वाऽऽहरणम् ६
विश्वास-प्रस्तुतिः
एकेषामुपवसथे ७
मूलम्
एकेषामुपवसथे ७
विश्वास-प्रस्तुतिः
नवाऽवसिते वा ८
मूलम्
नवाऽवसिते वा ८
विश्वास-प्रस्तुतिः
तस्मिन्पचेयुरमांसम् ९
मूलम्
तस्मिन्पचेयुरमांसम् ९
विश्वास-प्रस्तुतिः
पाक्याभावे गोःपयोऽधिश्रियतवै ब्रूयात् १०
मूलम्
पाक्याभावे गोःपयोऽधिश्रियतवै ब्रूयात् १०
विश्वास-प्रस्तुतिः
तद् ब्राह्मणं पाययितवै ब्रूयात् ११
मूलम्
तद् ब्राह्मणं पाययितवै ब्रूयात् ११
विश्वास-प्रस्तुतिः
अन्तरेणाऽपराग्नी गत्वा दक्षिणेन वाऽप्रदक्षिणमाहवनीयं परीत्योपविशति यजमानः १२
मूलम्
अन्तरेणाऽपराग्नी गत्वा दक्षिणेन वाऽप्रदक्षिणमाहवनीयं परीत्योपविशति यजमानः १२
विश्वास-प्रस्तुतिः
पत्नी च पूर्ववत् १३
मूलम्
पत्नी च पूर्ववत् १३
विश्वास-प्रस्तुतिः
अपरेणाऽहवनीयं कूर्चं निदधाति कुशान्वा १४
मूलम्
अपरेणाऽहवनीयं कूर्चं निदधाति कुशान्वा १४
विश्वास-प्रस्तुतिः
परिस्तरणं सर्वेषां प्रागुदग्भिरुदगग्रान्दक्षिणाग्रान्करोति श्रुतेः १५
मूलम्
परिस्तरणं सर्वेषां प्रागुदग्भिरुदगग्रान्दक्षिणाग्रान्करोति श्रुतेः १५
विश्वास-प्रस्तुतिः
आहवनीयं पर्युक्ष्योदधारां निनयत्यागार्हपत्यात् १६
मूलम्
आहवनीयं पर्युक्ष्योदधारां निनयत्यागार्हपत्यात् १६
विश्वास-प्रस्तुतिः
तं च १७
मूलम्
तं च १७
विश्वास-प्रस्तुतिः
ततो दक्षिणाग्निम् १८
मूलम्
ततो दक्षिणाग्निम् १८
विश्वास-प्रस्तुतिः
हुते च धारावर्जम् १९
मूलम्
हुते च धारावर्जम् १९