विश्वास-प्रस्तुतिः
अग्निहोत्रीं दोहयति पुंवत्सामशूद्रे ण स्थाल्यामार्यकृत्यामूर्ध्वकपालायां दक्षिणतः प्राचीमुदीचीं वा १
मूलम्

पूर्वेणाऽहवनीयं आहृत्य गार्हपत्येकेऽधिश्रयत्युत्तरतो निरुह्याऽङ्गारान् २

एवमन्यत्राऽपि होमार्थस्याऽहरणम् ३
मूलम्
एवमन्यत्राऽपि होमार्थस्याऽहरणम् ३
विश्वास-प्रस्तुतिः
दक्षिणेन वौषधम् ४
मूलम्
दक्षिणेन वौषधम् ४
विश्वास-प्रस्तुतिः
तृणेनाऽवज्योत्याऽसिच्याऽऽपः पुनरवज्योत्य निधायं त्रिरुद्वासयत्युदक् ५

अस्तमिते जुहोति ६
मूलम्
अस्तमिते जुहोति ६
विश्वास-प्रस्तुतिः
वैकङ्कतं स्रुक्स्रुवं प्रतप्य पाणिना सम्मार्ष्टि ७

पुनः प्रतप्योन्नेष्यामीत्याह ८
मूलम्
पुनः प्रतप्योन्नेष्यामीत्याह ८
विश्वास-प्रस्तुतिः
ओ३मुन्नयेति यजमानस्तिष्ठन् ९
मूलम्
ओ३मुन्नयेति यजमानस्तिष्ठन् ९
विश्वास-प्रस्तुतिः
चतुरः स्रुवानुन्नयति १०
मूलम्
चतुरः स्रुवानुन्नयति १०
विश्वास-प्रस्तुतिः
स्थाल्यां परिशिनष्टि तद् ब्राह्मणः पिबेत् ११

उपरि समिधं धारयन्वार्क्षीमध्यधि गार्हपत्यादाहवनीयं हरति मुखमात्रे धारयन् १२

मध्ये निगृह्योद्गुह्योपविश्य समिधमादधात्यग्निज्योतिषं त्वा वायुमतींस्वर्ग्यां स्वर्ग्गायोपदधामि भास्वतीमिति १३

प्रदीप्तामभिजुहोत्यग्निर्ज्योतिरिति सजूरिति वा १४

अग्निर्वर्च इति ब्रह्मवर्चसकामस्य १५
मूलम्
अग्निर्वर्च इति ब्रह्मवर्चसकामस्य १५
विश्वास-प्रस्तुतिः
कूर्चे निधाय गार्हपत्यमवेक्षते होष्यन्नस्मिन् १६

तूष्णीमुत्तरां भूयसीम् १७
मूलम्
तूष्णीमुत्तरां भूयसीम् १७
विश्वास-प्रस्तुतिः
भूयिष्ठं स्रुचि १८
मूलम्
भूयिष्ठं स्रुचि १८
विश्वास-प्रस्तुतिः
द्विः प्रकम्प्य निदधाति १९
मूलम्
द्विः प्रकम्प्य निदधाति १९
विश्वास-प्रस्तुतिः
उपमृज्य स्रुचं कूर्चे निमार्ष्टि नमो देवेभ्यः स्वधा पितृभ्य इति दक्षिणत उत्तानम् २०

अप उपस्पृश्य २१
मूलम्
अप उपस्पृश्य २१
विश्वास-प्रस्तुतिः
इतरयोश्च पुष्टिकामः स्थाल्याः स्रुवेण इह पुष्टिं पुष्टिपतिर्दधात्विह प्रजां रमयतु प्रजापतिः । अग्नये गृहपतये रयिमते पुष्टिपतये स्वाहा इति गार्हपत्ये २२

तूष्णीं द्वितीयाम् २३
मूलम्
तूष्णीं द्वितीयाम् २३
विश्वास-प्रस्तुतिः
अग्नयेऽन्नादायाऽन्नपतये स्वाहेति दक्षिणाग्नौ २४

तूष्णीं द्वितीयाम् २५
मूलम्
तूष्णीं द्वितीयाम् २५
विश्वास-प्रस्तुतिः
अनामिकया द्विः प्राश्नाति २६
मूलम्
अनामिकया द्विः प्राश्नाति २६
विश्वास-प्रस्तुतिः
उत्सृप्य निर्लेढ्याऽचायोत्सिञ्चति देवाञ्जिन्व पितॄञ्जिन्व तृतीयामुदुक्षति सप्त ऋषीञ्जिन्वेति २७

चतुर्थीं कूर्चस्थाने त्रिर्निषिञ्चत्यग्नये पृथिवीक्षिते स्वाहा पृथिव्या अमृतं जुहोमि स्वाहेति २८

स्रुक्स्रुवमाहवनीये प्रतप्य निदधाति २९
मूलम्
स्रुक्स्रुवमाहवनीये प्रतप्य निदधाति २९
विश्वास-प्रस्तुतिः
समिध आदधाति सर्वेषु यथापर्युक्षितं समिदसि समिद्धो मेऽग्ने दीदिहि समिद्धा ते अग्ने दीद्यासमिति ३०

वाग्यतो दोहप्रभृत्याहोमात् क्षीरहोता चेत् ३१