विश्वास-प्रस्तुतिः
उपस्थाननिरूपणम् सयमाहुत्यां हुतायां यजमानोऽग्नी उपतिष्ठते वात्सप्रेण १
मूलम्
उपस्थाननिरूपणम् सयमाहुत्यां हुतायां यजमानोऽग्नी उपतिष्ठते वात्सप्रेण १
विश्वास-प्रस्तुतिः
न वा २
मूलम्
न वा २
विश्वास-प्रस्तुतिः
तिस्रस्तिस्ररुपप्रयन्तोऽस्य प्रत्नां परि ते चित्रावसविति च ३
मूलम्
तिस्रस्तिस्ररुपप्रयन्तोऽस्य प्रत्नां परि ते चित्रावसविति च ३
विश्वास-प्रस्तुतिः
सन्त्वमित्युपविश्य ४
मूलम्
सन्त्वमित्युपविश्य ४
विश्वास-प्रस्तुतिः
गां गच्छत्यन्ध स्थेति ५
मूलम्
गां गच्छत्यन्ध स्थेति ५
विश्वास-प्रस्तुतिः
संहितेत्यालभते ६
मूलम्
संहितेत्यालभते ६
विश्वास-प्रस्तुतिः
गार्हपत्यं गत्वोपतिष्ठत उप त्वेति ७
मूलम्
गार्हपत्यं गत्वोपतिष्ठत उप त्वेति ७
विश्वास-प्रस्तुतिः
गां गच्छतीड एहीति ८
मूलम्
गां गच्छतीड एहीति ८
विश्वास-प्रस्तुतिः
काम्या एतेत्थालभते ९
मूलम्
काम्या एतेत्थालभते ९
विश्वास-प्रस्तुतिः
सोमानमित्यनुदकं व्रतोपायनवत् १०
मूलम्
सोमानमित्यनुदकं व्रतोपायनवत् १०
विश्वास-प्रस्तुतिः
पौर्णमासवत्पुत्रनामग्रहणम् ११
मूलम्
पौर्णमासवत्पुत्रनामग्रहणम् ११
विश्वास-प्रस्तुतिः
भूर्भुवः स्वरिति चोभौ १२
मूलम्
भूर्भुवः स्वरिति चोभौ १२
विश्वास-प्रस्तुतिः
प्रवत्स्यन्त्सर्वान्नर्येति प्रतिमन्त्रम् १३
मूलम्
प्रवत्स्यन्त्सर्वान्नर्येति प्रतिमन्त्रम् १३
विश्वास-प्रस्तुतिः
गच्छति मत्या वाग्विसर्जनम् १४
मूलम्
गच्छति मत्या वाग्विसर्जनम् १४
विश्वास-प्रस्तुतिः
प्रवसन्याजमानं कुर्याद्यथाकालमात्मसंस्काराद् धर्ममात्रत्वाच्छ्रुतेश्च १५
मूलम्
प्रवसन्याजमानं कुर्याद्यथाकालमात्मसंस्काराद् धर्ममात्रत्वाच्छ्रुतेश्च १५
विश्वास-प्रस्तुतिः
एत्य च मत्या वाग्यमनम् १६
मूलम्
एत्य च मत्या वाग्यमनम् १६
विश्वास-प्रस्तुतिः
समित्पाणिरनुपेत्य कञ्चिदुपतिष्ठते आहवनीयगार्हपत्यदक्षिणाग्नीनागन्मेति १७
मूलम्
समित्पाणिरनुपेत्य कञ्चिदुपतिष्ठते आहवनीयगार्हपत्यदक्षिणाग्नीनागन्मेति १७
विश्वास-प्रस्तुतिः
समित्परिसमूहनानि चोपविश्य १८
मूलम्
समित्परिसमूहनानि चोपविश्य १८
विश्वास-प्रस्तुतिः
तूष्णीं वोपस्थानं पूर्ववत् १९
मूलम्
तूष्णीं वोपस्थानं पूर्ववत् १९
विश्वास-प्रस्तुतिः
एत्य च २०
मूलम्
एत्य च २०
विश्वास-प्रस्तुतिः
गृहा मा बिभीतेति गृहानुपैति २१
मूलम्
गृहा मा बिभीतेति गृहानुपैति २१
विश्वास-प्रस्तुतिः
क्षेमाय व इति प्रविशति २२
मूलम्
क्षेमाय व इति प्रविशति २२
विश्वास-प्रस्तुतिः
न हिंस्याद् गृह्यान्कामं श्वः २३
मूलम्
न हिंस्याद् गृह्यान्कामं श्वः २३