विश्वास-प्रस्तुतिः
पुनराधेयम् पुनराधेयमाधानाऽप्रतिज्ञातस्य १
मूलम्
पुनराधेयम् पुनराधेयमाधानाऽप्रतिज्ञातस्य १
विश्वास-प्रस्तुतिः
राज्ययशस्कामस्य वा २
मूलम्
राज्ययशस्कामस्य वा २
विश्वास-प्रस्तुतिः
त्रिरात्रावरमग्नीनुत्सृज्य ३
मूलम्
त्रिरात्रावरमग्नीनुत्सृज्य ३
विश्वास-प्रस्तुतिः
सद्यो वा ४
मूलम्
सद्यो वा ४
विश्वास-प्रस्तुतिः
पुनर्वस्वोः ५
मूलम्
पुनर्वस्वोः ५
विश्वास-प्रस्तुतिः
वर्षासु मध्यन्दिने वा ६
मूलम्
वर्षासु मध्यन्दिने वा ६
विश्वास-प्रस्तुतिः
कुशैराधानम् ७
मूलम्
कुशैराधानम् ७
विश्वास-प्रस्तुतिः
व्रीह्यपूपमर्कपलाशयोः पक्वं गार्हपत्यस्थाने निदधात्येवमाहमनीयस्य यावं सद्यश्चेत् ८
मूलम्
व्रीह्यपूपमर्कपलाशयोः पक्वं गार्हपत्यस्थाने निदधात्येवमाहमनीयस्य यावं सद्यश्चेत् ८
विश्वास-प्रस्तुतिः
आग्नेयः पञ्चकपाल उपांशु प्रागुत्तमादनुयाजात् ९
मूलम्
आग्नेयः पञ्चकपाल उपांशु प्रागुत्तमादनुयाजात् ९
विश्वास-प्रस्तुतिः
तद्वर्जं वा १०
मूलम्
तद्वर्जं वा १०
विश्वास-प्रस्तुतिः
अग्नीनिति वा प्रथमे प्रयाजेऽनुयाजे च ११
मूलम्
अग्नीनिति वा प्रथमे प्रयाजेऽनुयाजे च ११
विश्वास-प्रस्तुतिः
आज्यभागो द्वितीयोऽग्नये पवमानायेन्दुमते वा १२
मूलम्
आज्यभागो द्वितीयोऽग्नये पवमानायेन्दुमते वा १२
विश्वास-प्रस्तुतिः
हिरण्यं दक्षिणाऽनड्वान्वाऽग्न्याधेयिकीश्चेच्छञ्छ्रुतेः १३
मूलम्
हिरण्यं दक्षिणाऽनड्वान्वाऽग्न्याधेयिकीश्चेच्छञ्छ्रुतेः १३
विश्वास-प्रस्तुतिः
अग्न्याधेयवदन्यत्सद्यः १४
मूलम्
अग्न्याधेयवदन्यत्सद्यः १४
विश्वास-प्रस्तुतिः
अपराह्णे मैत्रावरुणी वशाऽनस्तमिते पुरोडाशेडान्तं कृत्वा रात्रिशृतया प्रातश्चरन्ति तत्र आधानम् १५
मूलम्
अपराह्णे मैत्रावरुणी वशाऽनस्तमिते पुरोडाशेडान्तं कृत्वा रात्रिशृतया प्रातश्चरन्ति तत्र आधानम् १५